All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
तान्ताः · तद्विः
इति णान्ताः ।
कान्ता प्रियङ्गौ लोहे ना कुन्तः पुंसि गवेधुके ।कुन्ती च गन्धवीरायां रेणुकायां पलङ्कषे ॥ १७७ ॥
12.1.177 · p. 17
अनुष्टुप्
कृत्तिर्भूर्जे त्वचायां स्त्री घृतमाज्ये जलेऽपि च ।जातिर्जातीफले धात्र्यां मालत्यां रक्तचूर्णके ॥ १७८ ॥
12.1.178 · p. 17
अनुष्टुप्
तिक्तं रजसि कठिल्ले भूनिम्बे चापि तिक्ता तु ।काण्डरुहा कटुतुम्बीकट्वीकाकाकणन्तीषु ॥ १७९ ॥
12.1.179 · p. 17
metre not recognised
तेजोवती करञ्ज्यो रक्तो ना भल्लके दृढस्कन्धे ।धातुः शिलादौ श्लेश्मादौ रसादौ गैरिकेऽस्थ्नि च ॥ १८० ॥
12.1.180 · p. 17
अनुष्टुप्metre not read in every line
धूर्तं तु खण्डलवणे धूर्तो धुस्तूरचण्डयोः ।नतः कुटन्नटे पुंसि क्लीबं कालानुसार्यके ॥ १८१ ॥
12.1.181 · p. 17
अनुष्टुप्
पीता तेजोवतीदार्वीरजनीरोचनासु च ।रक्तो रोहिणि कम्पिल्ले रक्तं हिङ्गुलताम्रयोः ॥ १८२ ॥
12.1.182 · p. 17
अनुष्टुप्
प्राचीनामलके धीरे वसन्तोत्सवमण्डने ।रक्ताङ्ग्यां तु स्त्रियां रीतिर्लोहकिट्टारकूटयोः ॥ १८३ ॥
12.1.183 · p. 17
अनुष्टुप्
लता ज्योतिष्मतीस्पृक्कालताकस्तूरिकासु च ।दूर्वायां च प्रियङ्गौ च माधव्यां च नखेऽपि च ॥ १८४ ॥
12.1.184 · p. 17
अनुष्टुप्
शिता सिता चोपलायां क्लीबे तु श्वेतचन्दने ।शीतं मलयजे रूप्ये जलकुम्भ्यामथास्त्रियाम् ॥ १८५ ॥
12.1.185 · p. 18
अनुष्टुप्
वानीरे बहुवारे च शुक्तिः शङ्खे नखेऽपि च ।श्वेता सिता वचाशङ्खाविदारीपाटलाभिदि ॥ १८६ ॥
12.1.186 · p. 18
अनुष्टुप्