किंशारु
kiṃśāruपुं · masc.In 12 kośas: 9 synonym verses, 6 as a nānārtha head word.
स्यात्सस्यशूकं किंशारुः कणिशं सस्यशीर्षकम् ॥ ११८१ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
धान्यशूकं च किंशारुः कणिशं धान्यशीर्षकम् ।नालं काण्डं क्षुपो गुच्छो व्रीहिः स्तम्बकरिः स्मृतः ॥ ५७९ ॥
अनुष्टुप्
genderपुंmasc.
यदुप्यते पौर्णमास्यामाश्वयुज्यां विशेष्यवत् ।तद्विकारे तिलमयं तथा यवमयं भवेत् ।किंशारुः सस्यशूकोऽस्त्री शिलोऽस्त्री कणिशोऽपि च ॥ ४८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
माषादयः शमीधान्यं शूकधान्यं यवादयः ।स्यात् सस्यशूके किंशारुः कणिशे सस्यशीर्षकम् ॥ ४०० ॥
अनुष्टुप्
genderपुंmasc.
सस्यशूकं तु किंशारुः कणिशं धान्यमस्तके ।स्नुहिर्वज्री महावृक्षो कम्पिल्लो रक्तचूर्णकः ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
शूकधान्यं यवादीनां नाम प्रख्यापितं किल ।सस्यशूकञ्च किंशारुः धान्याग्रो भाग उच्यते ॥ २१२९ ॥
अनुष्टुप्
genderपुंmasc.
शस्यशूकन्तु किंशारुः कणिशं शस्य मञ्जरी ।पुंसि स्तम्बकरिः धान्यं व्रीहिर्ना धान्यमात्रके ॥
अनुष्टुप्
genderपुंmasc.
सस्यशूकस्तु किंशारुः शूकोऽस्त्र्यग्रे सुतीक्ष्णके ।माषादयः शमीधान्ये शूकधान्ये यवादयः ॥ १४२८ ॥
अनुष्टुप्
genderपुंmasc.
श्वेतं रजतेऽप्युक्तं रजतं हारे शरेऽपि किंशारुः ।दम्भेऽपि गह्वरं स्यादुपह्वरं सन्निधानेऽपि ॥ ७९१ ॥
आर्या
meaningsशर
कान्तारी नेक्षुभेदेऽस्त्री बिलदुर्गाधकानने ।किशोरोऽश्वशावके स्यात्तरुणावस्थसूर्ययोः ॥किर्मीरः कर्वुरे नागरङ्गे च कौणपान्तरे ।किंशारुः शस्यशूके ना कङ्कपक्षिणि सायके ॥कुहरः सर्पभेदेनो क्लीबं गह्वररन्ध्रयोः ।कुक्कुरं ग्रन्थिपर्णे स्यात्सारमेये भवेत्पुमान् ॥कर्पूरः कफोणौ पुंसि जानुन्यपि निगद्यते ।कुञ्जरो ना कटे नागे धातक्यां पाटले स्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 फो (wrong syllable)
कर्परोऽग्नौ कपालेऽपि करभोऽपि खरोष्ट्रयोः ।शरे किंशारुकादंबौ कुरण्डस्तु झषेऽपि च ॥ १९ ॥
अनुष्टुप्
meaningsशर