कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

महारजन

mahārajanaक्ली · neut.

In 11 kośas: 9 synonym verses, 4 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.163 · p. 41
स्याद्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकंखर्जूरं च हिमांशुहंसकुमुदाभिख्यं सुवर्णं पुनः ।स्वर्णं हेमहिरण्यहाटकवसून्यष्टापदं काञ्चनंकल्याणं कनकं महारजनरैगाङ्गेयरुक्माण्यपि ॥ १०४३ ॥कलधौतलोहोत्तमवह्निबीजान्यपि गारुडं गैरिकजातरूपे ।तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरकर्बुराणि ॥ १०४४ ॥जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् ।
metre not recognised
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.76 · p. 45
लट्वायां महारजनं कुसुम्भं कमलोत्तरम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.106
रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम् ।स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि ॥ १०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.620 · p. 70
पुराख्यो महिषाक्षश्च गुग्गुलः स्यात्पलङ्कषः ।महारजनमिच्छन्ति कुसुम्भं च सुमेधसः ॥ ६२० ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.83 · p. 174
संहर्षा चापि संस्पर्शा जन्तुकृष्णाह्वकृष्णिका ।अस्त्री कुसुम्भो लट्वा च महारजनमित्यपि ॥कटरो रक्तपुष्पः स्यात्किरिका पद्ममित्यपि ।कम्पिल्लकस्तु काम्पिल्लः कर्कशो रक्तचूर्णकः ॥ ८३ ॥
अनुष्टुप्
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.273 · p. 149
कुसुम्भेऽग्निशिख-महारजने कमलोत्तरम् ।शालपर्ण्यां दीर्घमूला त्रिपर्णी पीतनी ध्रुवा ॥ २७३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ग्नि (wrong syllable)
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.556 · p. 97
कुसुम्भाख्यौषधीपुष्पे कुसुम्भं कमलोत्तरम् ।स्याद्वह्निशिखमच्छाभं महारजनमित्यपि ॥ ५५६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2087 · p. 345
लट्वा वह्निशिखं चैव कुसुम्भं कमलोत्तरम् ।महारजनं नामाऽपि कथ्यते कुसुम्भस्य वै ॥ २०८७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.203 · p. 151
कुसुम्भं स्याद्वह्निशिखं वह्निदीपकमित्यपि ।स्यान्महारजनं ग्राम्यकुङ्कुमं कमलोत्तरम् ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.94 · p. 125
महारजनमाख्यातं कुसुम्भे काञ्चनेऽपि च ।आभिनिष्ठान इत्येषोऽक्षरे विसर्जनीयके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.57 · p. 269
भ्रमरे मधुसूदनश्च विष्णौ पुरवैरिण्यपि मृत्युबन्धनः ।नरि पुद्गलबिल्वयोरथ प्रतिपादनं वितरणे च बोधने ।प्रतिपत्तिवाच्यथ कुसुम्भवाचकं गदितं महारजनमत्र काञ्चने ॥ ५७ ॥
metre not recognised
शिवकोष Śivakoṣa · शिवदत्तमिश्र नपं Śivakoṣa 16.3.285 · p. 26
महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः ।स्याद्रक्तचन्दनं रक्तकाष्टे लोहितचन्दने ॥ २८५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.135 · p. 247
शातकुम्भे कुसुम्भे च महारजनमुच्यते ।श्रीफले द्रोणकाके च त्र्यम्बके मृत्युवञ्चनः ॥
अनुष्टुप्

महारजन as a meaning in nānārtha verses