घुण
ghuṇaपुं · masc.In 6 kośas: 8 synonym verses, 1 as a meaning of another word.
काष्ठकीटो घुणो गण्डूपदः किंचुलकः कुसूः ।भूलता गण्डूपदी तु शिल्यस्रपा जलौकसः ॥ १२०३ ॥जलालोका जलूका च जलौका जलसर्पिणी ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्र (wrong syllable)
genderपुंmasc.
अन्तर्जाश्च बहिर्जाश्च पुलका उभयेऽपि ते ।अणुः कृमिः कीकसः स्यात्काष्ठलेखकरो घुणः ॥कोशकारः कीटतन्तुर्गुणिमध्यः पलोधरः ।उद्दंशो मत्कुणो रक्तबीजः खट्वाकृमिश्च सः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
निघादयःशब्दाः पुंसि भवन्ति । अयं निघः पर्वतः । अयं सङ्घः समूहः । अयमुद्घः प्रशस्तः । अयमुपघ्न आश्रयः पर्वतश्च । अयमोघो नदीवेगः पुरुषारम्भश्च । विघ्नः कर्मनिघातः । घर्मो निदाघः । अर्घः पूजा मूल्यविशेषः । वर्णो हरितपीतादिः ब्राह्मणादिः अकारादीनि चाक्षराणि ।पणगुणगणकणशोणाः किणफणघुणशाणबाणचूर्णाश्च ।नित्यं हि पुंसि पन्था बाष्पोष्माध्वानश्च विज्ञेयाः ॥ २६ ॥
metre not recognised
genderपुंmasc.
पणादयः शब्दाः पुंसि भवन्ति । अयं पणो विंशतिगण्डकः । अयं गुणः सङ्ख्याख्यः शुक्लादिः[दि] पाटलादिश्च । अयं गणः सङ्घातः । अयं कणः परमाणुः । शोणो नदः । किणो निकषः । फणो भुजङ्गः । घुणः कीटविशेषः । शाणः पाषाणविकारः । बाणः शरः असुरः घृष्टिका च । अयं चूर्णः शकलः खण्ड इत्यर्थः । अयं पन्था मार्गः । अयं बाष्पोऽश्रु । अयमूष्मा घर्मः । अयमध्वा मार्गः । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।नपुंसके श्वभ्रतृणरणार्णानि ।वीणातूणाघोणाघृणास्तु नियतं स्त्रियां विद्यात् ॥ २७ ॥
metre not recognised
genderपुंmasc.
क्षुद्रकीटस्तथा तुल्यः पुलकास्तूभये मताः ।काष्ठकीटघुणौ तुल्यौ कुसूकिंचुलकौ समौ ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
घुणः कृमिः काष्ठभवा लूतातः स्यात् पिपीलिका ।ब्राह्मणी स महान् पिंगः कपिशा तु गृहेडिका ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
जात्यां सौमनसो नागकेसरे गन्धसारणः ।चंपके सुरभिः पद्मे वासनः कुटजे घुणः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
घुण as a meaning in nānārtha verses
- कोषकल्पतरु किणधूलौ रेणुरपि द्वयोर्नरि पुनः स्यात्पर्पटाह्वौषधे सूक्ष्मेऽल्पे च परोपमोऽथ च किणो न स्त्री व्रणाङ्के घुणे । Koṣakalpataru 6.15.18