शालेय
śāleyaपुं · masc.In 15 kośas: 15 synonym verses, 5 as a nānārtha head word, 2 as a meaning of another word.
व्रैहेयं शालेयं षष्टिक्यं कौद्रवीणमौद्गीने ।व्रीह्यादीनां क्षेत्रेऽणव्यं स्यादाणवीनमणोः ॥ ९६६ ॥
metre not recognised
genderक्लीneut.
शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः ।मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा ॥ १०५ ॥समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला ।तण्डुलश्च कृमिघ्नश्च विडङ्गं पुन्नपुंसकम् ॥ १०६ ॥
अनुष्टुप्
genderपुंmasc.
genderक्लीneut.
मुद्गादीनां क्षेत्रं मौद्गीनं कौद्रवीणमित्यादि ।व्रैहेयं शालेयं भवति पुनर्व्रीहिशाल्योर्यत् ॥ १६२ ॥
metre not recognised
genderविadj.
व्रीहिस्तु रेणुको बीजो धान्यं सस्यं तु वैटिकः ।व्रीहिः स्तम्बकरिः प्रोक्तः शालेयाः श्वेततण्डुलाः ॥ २५८ ॥
अनुष्टुप्
genderपुंmasc.
छत्रा स्यादथ शालेय आसाजः सालकोऽपि सः ।शाली च शालिनी रक्तबीजो मेहनिवारणः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
द्विकाण्डा क्षेत्रभक्तिश्चेद्द्विकाण्डान्या विशेष्यवत् ।तुल्ये व्रैहेय-शालेये तथा तैलीन-तिल्यके ।माषीण-माष्ये भाङ्गीन-भङ्ग्ये औमीनमुम्यवत् ॥ १६ ॥
अनुष्टुप्
genderविadj.
शालेयो मधुरिका च शालीनस्तालकर्ण्यपि ।पथिकायां तु तुलसी तालपत्री लवङ्गकम् ॥ २७९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
genderपुंmasc.
व्रीहिस्तु रेणुको बीजो धान्यं सस्यं [ तु ] रीरिका ।व्रीहयस्तम्बकरयः शालेयाः श्वेततण्डुलाः ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
शाल्यं शालेयमपि च षाष्टिक्यं षाष्टिकं तथा ।तैलीनं चापि तिल्यं च माष्यं मापि(षी?)णमित्यपि ॥ ४१५ ॥
अनुष्टुप्
genderक्लीneut.
व्रैहेयं चापि शालेयं कथ्यते व्रीहिक्षेत्रकम् ।षष्टिक्यं षष्टिकस्यं क्षेत्रमेव हि मन्यते ॥ १६४७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 हि (wrong syllable)
genderक्लीneut.
शाल्युद्भवोचितं यत्तु शालेयमभिधीयते ।यव्यं यवोचितं क्षेत्रं यवक्यं यवकोचितम् ॥
अनुष्टुप्
genderविadj.
मिशिर्मिशी मिसि-मिस्यौ मधुरा तु मधूरिका ।सालेयो दन्त्यतालव्यो मिशी मिशिर्मिसी मिसिः ॥ २२१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable); pāda 4, syllable 3 मि (wrong syllable)
genderपुंmasc.doubtful
तैलीनतिल्यमाषीणमाष्यौमीनोम्यवत्परम् ।क्रमाद्व्रैहेयशालेये व्रीहिशालिसमुद्भवे ॥ १४०८ ॥
अनुष्टुप्
genderक्लीneut.
मौद्गीनकौद्रवीणाद्याः क्षेत्रे मुद्गादिसंभवे ।यव्यव्रैहेयशालेयषष्टिक्याः सयवक्यकाः ॥ १९ ॥
अनुष्टुप्
genderविadj.
पर्यायोऽवसरे क्रमेऽर्थविवृतौ निर्माणवाची तथासंस्त्यायस्तु समूहविस्तृतिगृहे स्यात्संनिवेशे स्थितौ ।अन्तर्द्धौ सुरते व्यवाय उदितस्तेजोर्थकस्त्वव्ययं ।शालेयं शतपुष्पिकौषधभिदि क्षेत्रे च शाल्यर्हके ॥ ६५ ॥
शार्दूलविक्रीडितम्
चाणक्यमूलकेऽप्याह कश्चित् क्षेत्रे तु भेद्यवत् ।शाल्युद्भवोचिते क्ली तु चर्मपर्णीसमाह्वये ॥ १८११ ॥
अनुष्टुप्
doubtful
शङ्खाख्या तु वचाकम्बुमालिन्योर्दध्नि न द्वयोः ।शालेयं न द्वयोस्तालपर्ण्यां चाणक्यमूलके ॥ ३५९ ॥
अनुष्टुप्
लौहित्यं लोहितत्वे स्यात्क्लीबं पुंसि नदान्तरे ।श्वशुर्यो देवरे श्याले श्यालीनन्दिकयोः स्त्रियाम् ॥शाण्डिल्योऽग्निमुनिभिदोः श्रीफले च भवेत्पुमान् ।शालेयः स्यान्मिसौ पुंसि त्रिषु शाल्योद्भवोचिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग्नि (wrong syllable)
शालेय as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप मधुरिकापुमान् मधुरिकः प्रोक्तो जीवकाह्वयभेषजे । शालेयाख्ये शीतशिवे स्त्रियां मधुरिका मता ॥ ४७५ ॥ Nānārthārṇavasaṃkṣepa 6.475
- नानार्थार्णवसंक्षेप शीतशिववासुदेवे वृके तु द्वे समासादीनि पूर्ववत् । सैन्धवे क्ली शीतशिवं ना तु शालेयसंज्ञके ॥ ६१५ ॥ Nānārthārṇavasaṃkṣepa 6.615