All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · पातालादिप्रकाण्डः
इति पूरणप्रमुखकाण्डपूरणम्
नागपर्यायलोकार्थं स्यादधोऽव्ययमित्यपि ।रोकं विरोकं छिद्रं च रन्ध्रं श्वभ्रं च पुंसि वा ॥ २ ॥
1.15.2 · p. 361
अनुष्टुप्
स्वभ्रं दरं च वा पुंसि सुषी सुषिरुभे स्त्रियौ ।अतलं वितलं चैव सुतलं च तलातलम् ॥ ३ ॥
1.15.3 · p. 361
अनुष्टुप्
महारसाभ्यां च तलं पातालं स्युरमूनि षण् ।तत्र स्युस्त्रिषु सत्त्वेऽमी स्यात्क्लीबे तमसं तमः ॥ ४ ॥
1.15.4 · p. 361
अनुष्टुप्
अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं पुनः ।निशापर्यायचर्मार्थं भूच्छायं च रजोबलम् ॥ ५ ॥
1.15.5 · p. 361
अनुष्टुप्
दिक्कण्टको वियद्भूतिः खत्वग्वृत्रोप्यदर्शनः ।निशापर्यायरागार्थो दिनपर्यायकेसरः ॥ ६ ॥
1.15.6 · p. 361
अनुष्टुप्
खपर्यायपरागार्थो वियद्भूतिर्दिगम्बरः ।क्लीबे दिनार्थाद्दण्डार्थं नीलपङ्कार्थमित्यपि ॥ ७ ॥
1.15.7 · p. 362
अनुष्टुप्
अन्धं तमोऽन्धतमसमन्धातमसमित्यपि ।क्षीणं तमोवतमसं विष्वक् संतमसं च तत् ॥ ८ ॥
1.15.8 · p. 362
अनुष्टुप्
भुवि श्वभ्रे द्वयोर्गर्त्ताऽवटिः स्यादवटोऽवटु ।कालेया दनुजा दैत्या ये चाप्यन्ये सुरद्विषः ॥ ९ ॥
1.15.9 · p. 362
अनुष्टुप्
सर्पा नागाश्च ते सर्वे सर्वपातालवासिनः ।सुरपर्यायनज्पूर्वा दित्यपत्यार्थवाचकाः ॥ १० ॥
1.15.10 · p. 362
अनुष्टुप्
ते पूर्वदेवपर्याया इन्द्रपर्यायवैरिणः ।कश्यपापत्यपर्यायाः पातालार्थाद्गृहार्थकाः ॥ ११ ॥
1.15.11 · p. 362
अनुष्टुप्
यज्ञपर्यायशत्र्वर्थाः क्षण् दृष्टिमुषोऽपि च ।तुल्या एतैश्च कालेया दानवा वेदविद्विषः ॥ १२ ॥
1.15.12 · p. 362
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अव्रतास्तामसतपःशीलधर्मार्थवैरिणः ।आदिदैत्यो हिरण्याक्षो ज्येष्ठः कश्यपसूनुषु ॥ १३ ॥
1.15.13 · p. 362
अनुष्टुप्
दैत्यार्थादिन्द्रपर्यायः पूर्वदेवार्थ इत्यपि ।हिरण्यकशिपुर्दैत्यौ हिरण्याक्षानुजार्थकः ॥ १४ ॥
1.15.14 · p. 362
अनुष्टुप्
कयाधूरस्य पत्नी स्यात्प्रह्लादाद्याः सुताश्च ते ।कायाधवश्च प्रह्लादो ह्रादः संह्रादसंज्ञकः ॥ १५ ॥
1.15.15 · p. 362
अनुष्टुप्
अनुह्लादश्च ते ह्लादास्तत्पुत्रैरिदमावृतम् ।विरोचनस्तु प्राह्लादिर्बलिर्वैरोचनोऽपि च ॥ १६ ॥
1.15.16 · p. 363
अनुष्टुप्
वैरोचनिश्च दीर्घायुर्दाता बाणस्तु तत्सुतः ।शैवोऽथ वृषपर्वा तु वृषपर्वोऽथ शम्बरः ॥ १७ ॥
1.15.17 · p. 363
अनुष्टुप्
संवरोऽप्यथ मायावी स्यान्मयः कालनेमिनि ।कालनेमिरितीत्याद्या दैत्यकालेयदानवाः ॥ १८ ॥
1.15.18 · p. 363
अनुष्टुप्
रक्तबीजप्रभृतयो वैप्रचित्ता अथापरे ।निवातकवचाद्याः स्युः कालेया असुराश्च ते ॥ १९ ॥
1.15.19 · p. 363
अनुष्टुप्
एकयोक्त्या पुनर्दैत्या महिषाद्यास्तथैव च ।अनन्ताः सर्व एवैते सर्वे देवविरोधिनः ॥ २० ॥
1.15.20 · p. 363
अनुष्टुप्
कल्पद्रौ केशवकृते फलिते नामलुंवकैः ।सिद्धिं गतः प्रकाण्डोऽयं पातालाह्वश्चतुर्दशः ॥ २१ ॥
1.15.21 · p. 363
अनुष्टुप्