कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वत्सतर

vatsataraपुं · masc.

In 10 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.69 · p. 48
वत्सः शकृत्करिस्तर्णो दम्यवत्सतरौ समौ ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.108
शकृत्करिस्तु वत्सस्याद्दम्यवत्सतरौ समौ ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.264 · p. 32
तर्णकः स्मर्यते वत्सो दम्यो वत्सतरः स्मृतः ।आर्षभ्यः स च विज्ञेयः षण्ढत्वे यस्य योग्यता ॥ २६४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.444 · p. 182
आटीकनं क्रमस्तेषां दम्यो वत्सतरः पुनः ।आर्षभ्यः षण्डतायोग्यः कूटो भग्नविषाणकः ॥ ४४४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.30 · p. 284
स्कन्धवाही स्कान्धिकः स्यादार्षभ्यः षण्ढतोचितः ।इट्वरो गोपतिः षण्ढो गोवृषो मदकोहलः ।स्यात्कूलमुद्रुजोऽनड्वान्यो दृप्तः कूलमुद्रुजन् ।शकृत्करिस्तु वत्सः[135b] स्याद्दम्य-वत्सतरौ समौ ॥ ३० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.169 · p. 73
आर्षभ्यः षण्ढतायोग्यस्तर्णो वत्सः शकृत्करिः ।दम्यवत्सतरौ पुंसि पृष्ठवाड्युगपार्श्वगः ॥ १६९ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.489 · p. 88
सद्योजाते तर्णकः स्याद्दशाहे तु शकृत्करी ।वत्सोऽथ दम्यः प्रथमः स्यात्तु वत्सतरो युवा ॥ ४८९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2274 · p. 370
तर्णः शकृत्करिश्चैव ख्यातो वत्सः पुनर्भुवि ।वत्सतरस्तु दम्यो वै महावत्सो निगद्यते ॥ २२७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.122 · p. 145
जरद्गवस्तु वृद्धोक्षः महोक्षस्तु महावृषः ।जातउक्षा तु जातोक्षः दस्ये वत्सरोऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.54 · p. 69
ककुदी गोवृषो घोणः ककुद्मान्मदकोहलः ।जातोक्षो जातमात्रोक्षा दम्यो वत्सतरः समौ ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.