कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वत्स

vatsaपुं · masc.

In 16 kośas: 34 synonym verses, 12 as a nānārtha head word, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.602 · p. 26
क्रोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् ॥ ६०२ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.69 · p. 48
वत्सः शकृत्करिस्तर्णो दम्यवत्सतरौ समौ ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.16 · p. 2
हिमागमस्तु हेमन्ते वसन्ते पिकवान्धवः ।पुष्पसाधारणश्चापि ग्रीष्मे तूष्मायणो मतः ॥ २४ ॥आखोरपद्मौ वर्षे तु ऋतुवृत्तिर्युगांशकः ।कालग्रन्थिर्मासमलः संवत्सर्वर्तुशारदौ ॥ २५ ॥वत्स इद्वत्सर इडावत्सरः परवाणिवत् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.136
उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.108
शकृत्करिस्तु वत्सस्याद्दम्यवत्सतरौ समौ ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.264 · p. 32
तर्णकः स्मर्यते वत्सो दम्यो वत्सतरः स्मृतः ।आर्षभ्यः स च विज्ञेयः षण्ढत्वे यस्य योग्यता ॥ २६४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.527 · p. 60
भुजमध्यमुरो वक्षो हृदयस्थानं च वत्समिच्छन्ति ।एकार्थाः कथ्यन्ते दशनद्विजदन्तरदरदनाः ॥ ५२७ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.192 · p. 41
क्लीबे वत्सं च वक्षश्च स्तनाधो जठरोपरि ।क्लीबे पृष्ठं च पृष्ठिश्च पृष्ठी च द्वे इमे स्त्रियौ ॥ १९२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.443 · p. 182
उक्ष्णां स्यादौक्षकं चाथ वत्सानां वात्सकं पुनः ।सद्योजातस्तर्णकः स्याद्दोग्धा वत्सः शकृत्करिः ॥ ४४३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.176 · p. 268
क्षीरशृङ्ग्यथ कोटी स्त्री सैवोक्ता गिरिमल्लिका ।कुटजः कौटजो वत्सः कलिङ्गः शक्रपादपः ॥ १७६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.121 · p. 393
सिंहपर्यायकेलिः स्यादथ स्याच्छशिशेखरः ।हेरम्बो देहको वत्सो निकुम्भी वक्रसञ्चरः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.74 · p. 413
शरदापि स्त्रियां भूम्नि समा वत्सः पुमानयम् ।पुंसि वा वरिषं वर्षं स्त्रियां भूम्नि समा अपि ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.106 · p. 473
… काशीसवत्सानां तथैव साध्वसस्य च ।महानससाहसयोः प्रियालोरपि सच्छ्रितः ॥ १०६ ॥
metre not recognised
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.53 · p. 80
वृद्धस्तातोऽथ वत्सः स्यात्पुत्रकश्च कनीयसि ।आयुष्मन्निति संबोध्यो रथी सूतेन सर्वदा ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.74 · p. 216
वत्सं वक्ष उरः क्लीबे हृदयस्थानमित्यपि ।विशेष्यवत्प्रत्युरसं यद्भवेदुरसि स्थितम् ।हृदयं हृत्सत्त्वधाम स्तनोरःकोष्ठमध्यगम् ॥ ७४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.30 · p. 284
स्कन्धवाही स्कान्धिकः स्यादार्षभ्यः षण्ढतोचितः ।इट्वरो गोपतिः षण्ढो गोवृषो मदकोहलः ।स्यात्कूलमुद्रुजोऽनड्वान्यो दृप्तः कूलमुद्रुजन् ।शकृत्करिस्तु वत्सः[135b] स्याद्दम्य-वत्सतरौ समौ ॥ ३० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.73 · p. 116
कार्पास-कांस-चमसाः पनसोपवासौस्यादिष्वसः सदिवसोऽपि रसो बुसोऽपि ।दोर्वद्विहाय उदितं हृदये तु वत्संमाघे तपोऽथ नृपनाम्नि तथैव कंसः ॥ ७३ ॥
वसन्ततिलका
genderपुंक्लीm. n.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.90 · p. 19
आपीनमूधो वृन्तस्तु स्तनो वत्सस्तु तर्णकः ।उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वशी ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 167 · p. 81
षाष्टिकः कलमः शालिर्व्रीहिः स्तम्बकरिस्तथा ।वत्सः शकृत्करिर्जातः षोडन् षड्दशनः स्मृतः ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.169 · p. 73
आर्षभ्यः षण्ढतायोग्यस्तर्णो वत्सः शकृत्करिः ।दम्यवत्सतरौ पुंसि पृष्ठवाड्युगपार्श्वगः ॥ १६९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.122 · p. 226
तपो माघे तथा घर्म उष्णे वत्सो हृदि स्मृतः ।तुल्यतागोलभक्ष्येषु वटः स्यात्पुंनपुंसकः ॥ १२२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.158 · p. 22
तथाऽनुवत्सरोऽब्दं च हायनः परिवत्सरः ।उद्वत्सरः समाः वत्सः संवत् च कथ्यते बुधैः ॥ १५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.969 · p. 148
उरश्च हृदयस्थानं क्रोडा क्रोडं भुजान्तरे ।वत्सो वत्सं तथा वक्षश्चेति जगति मन्यते ॥ ९६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ति (wrong syllable)
genderपुंक्लीm. n.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2274 · p. 370
तर्णः शकृत्करिश्चैव ख्यातो वत्सः पुनर्भुवि ।वत्सतरस्तु दम्यो वै महावत्सो निगद्यते ॥ २२७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.285 · p. 101
अथ वक्षश्च वत्सं स्यादुरो वक्षःस्थले त्रयम् ।पृष्ठं पृष्ठिस्तु पृष्ठी च पश्चाद्भागे त्रयं तनौ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.127 · p. 146
वत्सः शकृत्करिः दोग्धा दोधको दोध इत्यपि ।अथ हम्बारेभणञ्च हाम्बा च गोध्वनौ त्रयम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ऋष्यध्यायः Śabdaratnākara 1.5.204 · p. 27
भृग्वङ्गिरोऽत्रिजमदग्निवसिष्ठवत्स-वत्सारकाश्यपबृहस्पतिकण्वगर्गाः ।और्वाजगृत्समदगौतमवीतिहव्य-वाधूलकुण्डिनपराशरदेवराताः ॥ २०४ ॥
वसन्ततिलका
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.496 · p. 65
इन्द्रद्रः कुटजो वत्सः शक्रश्च गिरिमल्लिका ।यवक्षारः कलिङ्गेन्द्रयवभद्रयवानि च ॥ ४९६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1068 · p. 132
चरमं वपुषः पृष्ठं पिचण्डजठरोदरम् ।तुन्दं कुक्षिर्न ना क्रोडं वत्सो वक्ष उरः समे ॥ १०६८ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.20 · p. 74
दोग्धा शकृत्करिर्वत्सस्तेषामाटीकनं क्रमः ।गवादिकं जीवधनं पलिक्नी बालगर्भिणी ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.91 · p. 24
वत्सवायव्यसौर्याश्च वर्षोऽस्त्री स्त्री शरत् समाः ।कृतं सत्ययुगं सौम्यं त्रेताग्नेयी विसर्जिका ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.73 · p. 51
कुटजे कुटचो वत्सः शक्राख्यो गिरिमल्लिका ।एतस्यैवास्त्रियाविन्द्रयवभद्रयवौ फले ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.51 · p. 69
अभिवान्यान्यवत्सा गौर्वृषाक्रान्ता तु सन्धिनी ।आपीनमूधो वृन्तं तु स्तनो वत्सस्तु तर्णकः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.2 · p. 201
बालो डिंभोऽर्भकः शाबः कुमारो दारकः शिशुः ।अप्युत्तानशयो वत्सः स्तनपस्तु स्तनन्धयः ॥ २ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.227
वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः ॥ २२७ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.808 · p. 93
मणिदोषेऽपि त्रासो वत्सः संवत्सरेऽपि निर्दिष्टः ।वामः प्रतिकूलेऽपि प्रोक्तौ शुक्लेऽपि शुचिरामौ ॥ ८०८ ॥
metre not recognised
धरणिकोश Dharaṇikośa · धरणिदास सार्धश्लोकः Dharaṇikośa 31.2.1 · p. 220
रासः स्याद्गोदुहां क्रीडा रासो ध्वनिरुदाहृतः ।वत्सं वक्षसि वत्सस्तु शिशुके वत्सरेऽपि च ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.79 · p. 378
सद्योजपुत्रादिकयोश्च वत्सो-ऽन्तिमे तु वक्षोर्थकमामनन्ति ।गुत्सं[ तु ]गुच्छाभमुशन्ति पुंसिव्यासो मुनौ विस्तृतिवाचकश्च ॥ ७९ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1167 · p. 142
वत्सः संवत्सरे वृक्षभेदे कुटजसंज्ञके ।ऋषिभेदे च तद्वंश्यपुरुषेषु तु भूमनि ॥ ११६७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1168 · p. 142
फले तु कुटजस्य क्ली द्वे तु तर्णकसंज्ञके ।गोपोते बालमात्रेऽन्ये तनयादौ त्रिषु त्वयम् ॥ ११६८ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1169 · p. 142
वर्ये स्याद्वक्षसि त्वस्त्री ना वस्नो मूल्यमेढ्रयोः ।आगमे क्ली तु लवणे रुमाजे वप्रवाक् पुनः ॥ ११६९ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सान्ताः Śabdaratnāvalī 7.32.10 · p. 294
रासः कोलाहले गोपक्रीडाशृङ्खलवाक्सु च ।वत्सं वक्षसि वत्सः स्याद्वर्षपुत्रादितर्णके ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2004 · p. 244
वृत्तं तु चरिते पद्ये त्रिष्वतीते च वर्तुले ।वत्सस्तु तर्णके वर्षे पुत्रादौ कुटजे मुनौ ॥ २००४ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2005 · p. 244
वाले च वक्षसि त्वस्त्री वृषोक्ष्णि सुरनायके ।वासो गन्धे निवासे च वारः पर्यायसंघयोः ॥ २००५ ॥
अनुष्टुप्
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.451 · p. 253
विहायाः शकुने पुंसि विहायः खे नपुंसकम् ।पुत्रादौ तर्णके वर्षे वत्सः क्लीबन्तु वक्षसि ॥ ४५१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.73 · p. 236
वत्सो ना कुटजे वर्षे तर्णके तनयादिके ।बाले च वक्षसि त्वस्त्री वज्रोऽस्त्री हीरकास्त्रयोः ॥ ७३ ॥
अनुष्टुप्

वत्स as a meaning in nānārtha verses