कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

भूमिकाण्डः · पशुसङ्ग्रहाध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां भूमिकाण्डे वनाध्यायः

सिंहो मृगेन्द्रः पञ्चास्यः पारीन्द्रः श्वेतपिंगलः ।व्यादीर्णास्यो महानादः शार्दूलस्तुल्यविक्रमः ॥ १ ॥
3.4.1 · p. 65
अनुष्टुप्
कण्ठीरवो मृगरिपुः सुगन्धिर्हरितो हरिः ।हलीक्ष्णस्तृणसिंहः स्यात् कुटरुर्मूगासिंहकः ॥ २ ॥
3.4.2 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 गा (wrong syllable)
व्याघ्रो मृगारिः शार्दूलो हिंसारुश्चन्द्रकी मृगात् ।हुण्डश्चाल्पस्त्वयं द्वीपी चुलुको भेलमेहिनौ ॥ ३ ॥
3.4.3 · p. 65
अनुष्टुप्
तरक्षुस्तु मृगाजीवस्तिलित्सकमृगादनौ ।पिण्डारकस्तु चित्रांगो महादंष्ट्रो वरोत्कटः ॥ ४ ॥
3.4.4 · p. 65
अनुष्टुप्
वराहः सूकरो घोणी वक्रदंष्ट्रो जलप्रियः ।पीनस्कन्धः स्तब्धरोमा कामरूपी तलेक्षणः ॥ ५ ॥
3.4.5 · p. 65
अनुष्टुप्
भूदारः कुमुखो घृष्टिः स्थूलनासो बहुप्रजः ।पंकक्रीडनकः पोत्री किटिराखनिकः किरिः ॥ ६ ॥
3.4.6 · p. 65
अनुष्टुप्
भल्लूको दीर्घरोमर्क्षो भल्लाटो वृकधूर्तकः ।विकरालोऽच्छभल्लश्च गण्डके खड्गखड्गिनौ ॥ ७ ॥
3.4.7 · p. 65
अनुष्टुप्
वार्ध्राणसो गणोत्साहः कोकस्त्वीहामृगो वृकः ।महिषः सैरिभोऽश्वारिर्जलात्मा गद्गदस्वरः ॥ ८ ॥
3.4.8 · p. 65
अनुष्टुप्
लुलायः कासरः शृंगी हेरंबः कृष्णशृंगकः ।जरन्तः कलुषः पोत्री वीरस्कन्धो रजस्वलः ॥ ९ ॥
3.4.9 · p. 65
अनुष्टुप्
स्कन्धशृंगो यमरथः कटाहो दंशलालिकः ।हंसकालीसुतश्चाथ सृजया महिषोऽसितः ॥ १० ॥
3.4.10 · p. 65
अनुष्टुप्
गवलश्च परस्वांश्च महिषः स्यादरण्यजः ।मृगः प्लावी भीरुचेता वननो मरुको लिगुः ॥ ११ ॥
3.4.11 · p. 65
अनुष्टुप्
नित्यशंकी च कृष्णस्तु कृष्णसारो निरञ्जनः ।यज्ञांग एणस्ताम्रस्तु हरिणस्तृणसंवरः ॥ १२ ॥
3.4.12 · p. 66
अनुष्टुप्
राजीवस्त्वेष राजीमान् सितक्रोडस्स चीनकः ।शंबरः स्वल्पहरिणः पृषतस्तु स बिन्दुमान् ॥ १३ ॥
3.4.13 · p. 66
अनुष्टुप्
रुरुर्महान् कृष्णसारः कुरंगो हरिणो महान् ।रोहिदृश्यो हरिणवन्मृदुशृंगः प्रतापसः ॥ १४ ॥
3.4.14 · p. 66
अनुष्टुप्
न्यंकुस्तु शंबराकारस्त्रिकेण विपुलोन्नतः ।परंपरस्तु गोकर्णः पोटरूपस्तु तत्समः ॥ १५ ॥
3.4.15 · p. 66
अनुष्टुप्
रौहिषो गर्दभाभासो रोहितः श्वेतराजिमान् ।वातायुः स्याद्वातमृगो जवी वातप्रमीः शिवः ॥ १६ ॥
3.4.16 · p. 66
अनुष्टुप्
प्रिंयको रोमभिर्युक्तो मृदूच्चमसृणैर्घनैः ।नीलस्स श्वेतरेखावानथवा श्वेतचन्द्रकः ॥ १७ ॥
3.4.17 · p. 66
अनुष्टुप्
कदली तु बिले शेते मृदुरूक्षोच्चकर्बुरैः ।नीलाग्रैरोमभिर्युक्ता सा विंशत्यंगुलायता ॥ १८ ॥
3.4.18 · p. 66
अनुष्टुप्
श्यामिका तु श्वेतबिन्दुः श्यामला षोडशांगुला ।चतुरा तु घनस्निग्धरोमा श्यामा सचन्द्रका ॥ १९ ॥
3.4.19 · p. 66
अनुष्टुप्
कालका त्वसिता यद्वा कपोता पिङ्गबिन्दुका ।सामूना तु समूरुर्ना सार्धहस्तसमायता ॥ २० ॥
3.4.20 · p. 66
अनुष्टुप्
गोधूमाभाथवा कृष्णा स्निग्धोच्चमृदुरोमिका ।चीनस्तु चीनसी स्त्रीत्वे कपोता त्रिंशदंगुला ॥ २१ ॥
3.4.21 · p. 66
अनुष्टुप्
मरुजा तूच्चमसृणमृदुपाण्डुररोमिका ।रोमराजीमती मध्ये द्वादशांगुलसम्मिता ॥ २२ ॥
3.4.22 · p. 66
अनुष्टुप्
चनका तु चमूरुर्ना सिताभा यदि वासिता ।कृष्णरोमानुविद्धा वा पुच्छोऽस्या न भवत्यपि ॥ २३ ॥
3.4.23 · p. 66
अनुष्टुप्
सेलिसस्तु मृदुश्वेतरूक्षोच्चघनरोमकः ।चमूरुस्तु महाग्रीवः सितः केसरवाञ्जवी ॥ २४ ॥
3.4.24 · p. 67
अनुष्टुप्
कन्दली तु श्यामवर्णा हस्तायामा महोदरी ।एते स्युः कृष्णसाराद्या मृगा अजिनयोनयः ॥ २५ ॥
3.4.25 · p. 67
अनुष्टुप्
शशतुल्या विजातिश्च रक्ताभा मृगमातृका ।बिलेशया तु क्रिमिरा कुमारी तु हिमद्युतिः ॥ २६ ॥
3.4.26 · p. 67
अनुष्टुप्
कुचारुश्चारुपुच्छः स्यात् सुविषाणो वृषाकृतिः ।कृतारुस्तु स निष्पुच्छो जायते हिमवत्तटे ॥ २७ ॥
3.4.27 · p. 67
अनुष्टुप्
रुचुस्तु शुक्लो मेषाभः स पीतः सूकराकृतिः ।कूष्णे शृंगे च तस्याथ कृतमालो वृकाकृतिः ॥ २८ ॥
3.4.28 · p. 67
अनुष्टुप्
सृमरः स्याद्वालमृगः परुर्ना चमरी न षण् ।कालपुच्छस्तु तत्प्रायो नामार्थेनैव भिद्यते ॥ २९ ॥
3.4.29 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वा (wrong syllable)
चारुकस्तु किशोराभः कन्दरस्तूच्चजानुकः ।मृगाः स्युः कृष्णसाराद्यास्त एव पशवःसह ॥ ३० ॥
3.4.30 · p. 67
अनुष्टुप्
सिंहाद्यैश्च शशाद्यैश्च ग्राम्यैश्चैव गवादिभिः ।शशस्तु रोमकर्णः स्यान्मृदुरोमा च शूलिकः ॥ ३१ ॥
3.4.31 · p. 67
अनुष्टुप्
गन्धर्वः स्याद्गोलपुसो रामस्तु वृकधोरणः ।शरभस्तु गजारातिरुत्पाश्चाष्टपादपि ॥ ३२ ॥
3.4.32 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गवयः स्याद्वनगवो गोवाही वाहवारणः ।कोलांगकस्तु जलको भालुको भल्लुकाकृतिः ॥ ३३ ॥
3.4.33 · p. 67
अनुष्टुप्
पुरोही स्यात्कुलचरो ललनाक्षो वृकाकृतिः ।कोदृंगः स्याज्जन्तुधरो मार्जारी चमराकृतिः ॥ ३४ ॥
3.4.34 · p. 67
अनुष्टुप्
शालिजातस्तु खट्टासः पूतिः खट्टासिकापि च ।शिवेव स्यात् गन्धमृगः कस्तूरी मृगपालिका ॥ ३५ ॥
3.4.35 · p. 67
अनुष्टुप्
अण्डौ तु तस्याः कस्तूरी राजार्हं शितिचन्दनम् ।मार्जारिका वेधमुख्या मदनी गन्धचेलिका ॥ ३६ ॥
3.4.36 · p. 68
अनुष्टुप्
श्वाविच्छललशल्यौ तल्लोम्न्यना शलली शलम् ।सृगालो भरुजः क्रोष्टा श्वभीरुर्मृगमत्तकः ॥ ३७ ॥
3.4.37 · p. 68
अनुष्टुप्
शयालुः सूचको घोरः फेरुफेरुण्डफेरवाः ।मृगधूर्तो भूरिमायो गोमायुर्वृकधूर्तकः ॥ ३८ ॥
3.4.38 · p. 68
अनुष्टुप्
किखिः स्त्री क्रोष्टुभेदेऽल्पे पृथौ लोपाशगृण्डिवौ ।वानरो मर्कटः कीशः कपिः शाखामृगो हरिः ॥ ३९ ॥
3.4.39 · p. 68
अनुष्टुप्
महावेगो दधिमुखः कुरंगो भल्लुकः पृथुः ।वलीमुखो वनौकास्स गोलांगूलोऽसिताननः ॥ ४० ॥
3.4.40 · p. 68
अनुष्टुप्
नीलशीर्षोऽप्यथ क्ष्विंको वानरो रोहिताननः ।शृंगिणी सौरभेयी गौरर्घ्या माहेय्युषा शुभा ॥ ४१ ॥
3.4.41 · p. 68
अनुष्टुप्
अनड्वाह्यनडुह्युस्रा तंबा तंपा निलिंपिका ।रजःपूता च कृष्णाऽसौ बहुला क्षितिसंभवा ॥ ४२ ॥
3.4.42 · p. 68
अनुष्टुप्
सिता तु धवला पुण्ड्रा सुनन्दा जलसंभवा ।कपिला त्वग्निजा दाक्षी सुरभिः कामरूपिणी ॥ ४३ ॥
3.4.43 · p. 68
अनुष्टुप्
रक्तवर्णा रोहिणी स्याच्छीतला वायुसंभवा ।शबली तु प्रक्षरांगी सुमना व्योमसंभवा ॥ ४४ ॥
3.4.44 · p. 68
अनुष्टुप्
वरांगा तु चतुर्वर्षा द्विवर्षा तु द्विहायनी ।एकहायन्येकवर्षा बहुक्षीरा तु वञ्जुला ॥ ४५ ॥
3.4.45 · p. 68
अनुष्टुप्
नैचिकी गौर्गवां श्रेष्ठा भद्रा गौर्गोमतल्लिका ।काल्योपसर्या प्रजने पलिक्नी बालगर्भिणी ॥ ४६ ॥
3.4.46 · p. 68
अनुष्टुप्
पष्ठौह्यन्या वशा वन्ध्या वेहद्गर्भोपघातिनी ।अवतोका स्रवद्गर्भा वत्सकामा तु वत्सला ॥ ४७ ॥
3.4.47 · p. 68
अनुष्टुप्
चिरसूता बष्कयणी गृष्टिः सूतवती सकृत् ।समांसमीना सा गौर्या प्रतिवर्षं प्रसूयते ॥ ४८ ॥
3.4.48 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable)
पीनस्तनी तु पीनोध्नी सुखदोह्या तु सुव्रता ।दुःखदोह्या तु करटा प्रस्तुता प्रसवोन्मुखी ॥ ४९ ॥
3.4.49 · p. 69
अनुष्टुप्
द्रोणक्षीरा द्रोणदुघा बहुसूतिः परेष्टुका ।धेनुर्नवप्रसूता गौर्धेनुष्या बन्धके स्थिता ॥ ५० ॥
3.4.50 · p. 69
अनुष्टुप्
अभिवान्यान्यवत्सा गौर्वृषाक्रान्ता तु सन्धिनी ।आपीनमूधो वृन्तं तु स्तनो वत्सस्तु तर्णकः ॥ ५१ ॥
3.4.51 · p. 69
अनुष्टुप्
विषाणी वृषभः शृंगी वाहो गौरक्षधूर्तिलः ।उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वही ॥ ५२ ॥
3.4.52 · p. 69
अनुष्टुप्
सौरभेयो बलीवर्दो बाडबेयश्च शाक्वरः ।षण्डस्तु गोपतिः श्रीमान् डंक इट्वर ईश्वरः ॥ ५३ ॥
3.4.53 · p. 69
अनुष्टुप्
ककुदी गोवृषो घोणः ककुद्मान्मदकोहलः ।जातोक्षो जातमात्रोक्षा दम्यो वत्सतरः समौ ॥ ५४ ॥
3.4.54 · p. 69
अनुष्टुप्
महोक्षः स्यादुक्षतरो वध्दोक्षस्तु जरद्गवः ।आर्षभ्यः षण्डतायोग्यो नैचिक्याः प्राक्परे त्रिषु ॥ ५५ ॥
3.4.55 · p. 69
अनुष्टुप्
भग्नशृंगपशुः कूटः प्रष्ठवाड्युगपार्श्वगः ।स्थूरी पृष्ठ्यः पृष्ठवाह्यः स्कन्धिकः स्कंधवाहकः ॥ ५६ ॥
3.4.56 · p. 69
अनुष्टुप्
नस्योतो नस्तिते षोडन् षड्रदेऽथो धुरंधरे ।धुरीणधुर्यधौरेयाः प्रासङ्गादेस्तु वोढृषु ॥ ५७ ॥
3.4.57 · p. 69
अनुष्टुप्
प्रासंग्यः शाकटो युग्यो हालिकः सैरिकादयः ।एवं सर्वधुरीणैकधुरीणैकधुरा अपि ॥ ५८ ॥
3.4.58 · p. 69
अनुष्टुप्
कर्णः कर्णविहीनः स्यात् पण्डस्तु च्छिन्नपुच्छकः ।गोमान् गोमी च गोस्वामी गोविन्दोऽधिकृतो गवाम् ॥ ५९ ॥
3.4.59 · p. 69
अनुष्टुप्
नैचिकी गोः शिरोदेशः सास्ना तु गलकंबलः ।गोशकृद्गोमयो न स्त्री गोग्रन्थिः शुष्कगोमयः ॥ ६० ॥
3.4.60 · p. 70
अनुष्टुप्
दोहलं तु करीषोऽस्त्री गोकुलं गोधनं समे ।गोमहिष्यादिकं जीवधनं स्यात्पाशबन्धनम् ॥ ६१ ॥
3.4.61 · p. 70
अनुष्टुप्
छगस्तु छगलश्छागो लंबकर्णः स्तभः पशुः ।बस्तोऽजश्च छगी मञ्जी सर्वभक्षा गलस्तनी ॥ ६२ ॥
3.4.62 · p. 70
अनुष्टुप्
चुलुंपा चित्रला हृद्या पर्णादा पलिकिन्यजा ।इलिकस्तु वनच्छागो वालवीज्यो निरायसः ॥ ६३ ॥
3.4.63 · p. 70
अनुष्टुप्
मेषे शृंगिणसंफालवृष्णिपेत्वहुलुह्रदाः ।एडकोऽप्युरणो मीढ उरभ्रो रोमशोऽप्यविः ॥ ६४ ॥
3.4.64 · p. 70
अनुष्टुप्
मेषी तु कुररी वेणी जालकिन्यविला रुजा ।खररासभचक्रीवद्वाहबालेयगर्दभाः ॥ ६५ ॥
3.4.65 · p. 70
अनुष्टुप्
रूक्षस्वरो धूम्रकर्णो नेमिर्भारसहः शलः ।चिरमेही गर्दनकः कोलिण्टो बडबापतिः ॥ ६६ ॥
3.4.66 · p. 70
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ग (wrong syllable)
करभश्च मयस्तूष्ट्रो महाग्रीवः क्रमेलकः ।दाशेरकश्च रवणः करभः स्यादसौ शिशुः ॥ ६७ ॥
3.4.67 · p. 70
अनुष्टुप्
करभाः स्युः शृंखलका दारवैः पादबन्धनैः ।श्वा सारमेयः शुनको भषणो मृगदंशकः ॥ ६८ ॥
3.4.68 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शृं (wrong syllable)
दीर्घनादी गृहमृगः कुक्कुरः क्रोधनः शुनिः ।यक्ष इन्द्रमहश्चालः कपिलो मण्डलः शुनः ॥ ६९ ॥
3.4.69 · p. 70
अनुष्टुप्
जिह्वापानः पुरोगामी कृतज्ञो रात्रिजागरः ।कौलेयकोऽस्थिखादश्च भवनो भलुहोऽपि च ॥ ७० ॥
3.4.70 · p. 70
अनुष्टुप्
शुनी तु सरमा श्वाली विट्चारो ग्रामसूकरः ।ओतुर्बिडालो मार्जार आखुभुक् पृषदंशकः ॥ ७१ ॥
3.4.71 · p. 70
अनुष्टुप्
जाहको गात्रसंकोची मण्डली नखरायुधः ।पशुस्तु मलुको मोकः कपः शुद्धजडश्चरिः ॥ ७२ ॥
3.4.72 · p. 71
अनुष्टुप्
बाले तु बर्करः सूता तूबरः शृंगवर्जितः ।हिंस्रो व्याघ्रादिको व्यालः श्वापदो मरुलः शरिः ॥ ७३ ॥
3.4.73 · p. 71
अनुष्टुप्
पुच्छोऽस्त्री लूम लांगूलं बालहस्तश्च वालधिः ।खुरः शफः शको विष्ठा घासस्तु यवसः शरिः ।रोमन्थनन्तु रोमन्थो रोमोर्णोर्णास्तुकोऽपि च ॥ ७४.५ ॥
3.4.74 · p. 71
अनुष्टुप्