कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वर्णना

varṇanāस्त्री · fem.

In 6 kośas: 6 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.184 · p. 15
परुषं निष्ठुरं रूक्षं विक्रुष्टमथ घोषणा ।उच्चैर्घुष्टं वर्णनेडा स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ २६९ ॥श्लाघा प्रशंसार्थवादः सा तु मिथ्या विकत्थनम् ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.145 · p. 18
अर्थवादः प्रशंसा च स्तोत्रमीडा स्तुतिर्नुतिः ।विकत्थनं स्तवः श्लाघा वर्णना च निगद्यते ॥ १४५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.81 · p. 447
परुषं निष्ठुरं रूक्षं विक्रुष्टं चाप्यथ स्तुतिः ।वर्णनेडा प्रशंसा स्यान्नुतिः श्लाघा स्तवो नवः ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.186 · p. 28
पृष्ठमांसादनं पृष्ठे परदोषविभाषणम् ।स्तोत्रमीडा स्तवः श्लाघा प्रशंसा वर्णना नुतिः ॥ १८६ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.126 · p. 32
प्रशंसा वर्णना श्लाघा स्तवः स्तोत्रं स्तुतिर्नुतिः ।कीर्तिः श्लोको यशो वर्णः साधुवादः समाज्ञया ॥ १२६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.390 · p. 50
अथेडा वर्णना श्लाघा स्तवः स्तुतिर्नुतिस्तथा ।स्तोत्रं तथा प्रशंसा स्यादर्थवादश्च मन्यते ॥ ३९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
genderस्त्रीfem.