कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्तव

stavaपुं · masc.

In 14 kośas: 17 synonym verses, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.184 · p. 15
परुषं निष्ठुरं रूक्षं विक्रुष्टमथ घोषणा ।उच्चैर्घुष्टं वर्णनेडा स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ २६९ ॥श्लाघा प्रशंसार्थवादः सा तु मिथ्या विकत्थनम् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.11
यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.145 · p. 18
अर्थवादः प्रशंसा च स्तोत्रमीडा स्तुतिर्नुतिः ।विकत्थनं स्तवः श्लाघा वर्णना च निगद्यते ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चमोपदेशः Bālaprabodhikā 5.75 · p. 72
सम्भाषी भाषणा भाषा विवादे तु विभाषणम् ।उत्प्रासः स्यादुपालम्भः परिवादो पिणीति च ।स्तवः स्तोत्रं स्तुतिश्चापि यशः कीर्तिर्गुणावलिः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.43 · p. 239
वृत्तेऽनुवृत्तमावृत्तं प्रीणने तर्पणेऽवनम् ।बोधे बोधिः प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्तुतिः स्तवे ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.81 · p. 447
परुषं निष्ठुरं रूक्षं विक्रुष्टं चाप्यथ स्तुतिः ।वर्णनेडा प्रशंसा स्यान्नुतिः श्लाघा स्तवो नवः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.40 · p. 69
श्लोको वर्णो ना यशोऽन्ते समाज्ञा-भिक्षा(ख्या) कीर्तिः सा समज्ञा प्रशस्तिः ।श्लाघा क्रीडा स्त्री स्तुतिः स्यान्नुतिश्चस्तोत्रं नूतिः स्त्री स्तवश्चार्थवादः ॥ ४० ॥
शालिनी
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.14 · p. 31
सेवस्तु सेवनं स्यूतिः कीर्णिः स्यात्क्षिपणं क्षिपः ।व्यतिषङ्गो व्यतिकरः स्पृष्टिः पृक्तिः स्तवः श्रवः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.14 · p. 108
तत्त्वं सान्त्वं सत्त्वमजन्तौविश्वं किण्वं चार्तवजीवे ।बाहवयौतव-परिपेलवव-त्स्तवमपि मुस्तानाम्नि दिवं च ॥ १४ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.186 · p. 28
पृष्ठमांसादनं पृष्ठे परदोषविभाषणम् ।स्तोत्रमीडा स्तवः श्लाघा प्रशंसा वर्णना नुतिः ॥ १८६ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शब्दमरीचिः Pañcatattvaprakāśa 6.2.364 · p. 25
कथा प्रबन्धकलना नुतिः स्तोत्रं स्तुतिः स्तवः ।शपनं शपथः शापो क्रोधाद्दुष्टविकत्थनम् ॥ ३६४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.126 · p. 32
प्रशंसा वर्णना श्लाघा स्तवः स्तोत्रं स्तुतिर्नुतिः ।कीर्तिः श्लोको यशो वर्णः साधुवादः समाज्ञया ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.390 · p. 50
अथेडा वर्णना श्लाघा स्तवः स्तुतिर्नुतिस्तथा ।स्तोत्रं तथा प्रशंसा स्यादर्थवादश्च मन्यते ॥ ३९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.375 · p. 27
यशःकीर्तिगतो भेदः सद्भिरुह्यः प्रयोगतः ।स्तवो नरः स्तुतिः स्तोत्रं नूतिस्तवनमित्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.905 · p. 113
श्लोकः कीर्तिः समज्ञा च यशः श्लाघा तु कत्थनम् ।स्तुतिः शंशा नुतिः स्तोत्रमीडनं स्तवनं स्तवः ॥ ९०५ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव धीवर्गः Trikāṇḍaśeṣa 1.5.3 · p. 20
संज्ञाऽधिवचनं सद्यःकृतं लक्षणनामनी ।व्यपदेशः प्रसिद्धस्तु टङ्कारोऽथ नवः स्तवः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.35 · p. 33
उत्प्रासः स्यादुपालंभः परिवाग्भाषणीति च ।श्लाघा शंसा प्रशंसा च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.

स्तव as a meaning in nānārtha verses

  • कोषकल्पतरु नवनवः स्तवे ना तरुणेऽन्यवत्स्याद्- ध्रुवः शिवे भान्तरयोगयोश्च । मुनौ वसौ स्याद्वटशङ्कुकीले स्त्री शालिपर्ण्यां स्रुचि गीतिभेदे ॥ ९३ ॥ Koṣakalpataru 6.29.93
  • परमानन्दीयनाममाला नुअस्मानस्मभ्यमप्येवं नुः स्तवे न्वव्ययं पुनः । विकल्पप्रश्नयोस्तर्के निर्भरेऽनुशये नये? ॥ २८ ॥ Paramānandīyanāmamālā 1.28
  • शब्दरत्नाकर वर्णकीर्तौ स्तवेऽक्षरे त्वस्त्री प्रकारालेपभाःसु च । वीरोऽग्नौ तनये शूरे शक्रे स्कन्दकुबेरयोः ॥ १९९९ ॥ Śabdaratnākara 4.1.1999
  • शब्दरत्नाकर आशंसाआसनं वारणस्कन्धे आस्पदं स्थानकृत्ययोः । स्तम्भमात्रेऽपि चालानमाशंसा स्तववाञ्छयोः ॥ २०४७ ॥ Śabdaratnākara 4.1.2047
  • वैजयन्ती शंसाशय्या तल्पे ग्रन्थगुंफे शंसा तु स्तववाक्ययोः । संविद्युद्धे प्रतिज्ञायां संकेताचारनामसु ॥ ४१ ॥ Vaijayantī 6.2.41