स्तोत्र
stotraक्ली · neut.In 14 kośas: 15 synonym verses, 5 as a meaning of another word.
परुषं निष्ठुरं रूक्षं विक्रुष्टमथ घोषणा ।उच्चैर्घुष्टं वर्णनेडा स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ २६९ ॥श्लाघा प्रशंसार्थवादः सा तु मिथ्या विकत्थनम् ।
अनुष्टुप्
genderक्लीneut.
यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
अर्थवादः प्रशंसा च स्तोत्रमीडा स्तुतिर्नुतिः ।विकत्थनं स्तवः श्लाघा वर्णना च निगद्यते ॥ १४५ ॥
अनुष्टुप्
genderक्लीneut.
सम्भाषी भाषणा भाषा विवादे तु विभाषणम् ।उत्प्रासः स्यादुपालम्भः परिवादो पिणीति च ।स्तवः स्तोत्रं स्तुतिश्चापि यशः कीर्तिर्गुणावलिः ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
क्लीबे स्तोत्रं चार्थवादः सा तु मिथ्याविकत्थनम् ।जनप्रवादः कौलीनं वगानं वचनीयता ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
श्लोको वर्णो ना यशोऽन्ते समाज्ञा-भिक्षा(ख्या) कीर्तिः सा समज्ञा प्रशस्तिः ।श्लाघा क्रीडा स्त्री स्तुतिः स्यान्नुतिश्चस्तोत्रं नूतिः स्त्री स्तवश्चार्थवादः ॥ ४० ॥
शालिनी
genderक्लीneut.
पृष्ठमांसादनं पृष्ठे परदोषविभाषणम् ।स्तोत्रमीडा स्तवः श्लाघा प्रशंसा वर्णना नुतिः ॥ १८६ ॥
अनुष्टुप्
genderक्लीneut.
कथा प्रबन्धकलना नुतिः स्तोत्रं स्तुतिः स्तवः ।शपनं शपथः शापो क्रोधाद्दुष्टविकत्थनम् ॥ ३६४ ॥
अनुष्टुप्
genderक्लीneut.
प्रशंसा वर्णना श्लाघा स्तवः स्तोत्रं स्तुतिर्नुतिः ।कीर्तिः श्लोको यशो वर्णः साधुवादः समाज्ञया ॥ १२६ ॥
अनुष्टुप्
genderक्लीneut.
अथेडा वर्णना श्लाघा स्तवः स्तुतिर्नुतिस्तथा ।स्तोत्रं तथा प्रशंसा स्यादर्थवादश्च मन्यते ॥ ३९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
genderक्लीneut.
यशःकीर्तिगतो भेदः सद्भिरुह्यः प्रयोगतः ।स्तवो नरः स्तुतिः स्तोत्रं नूतिस्तवनमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
श्लोकः कीर्तिः समज्ञा च यशः श्लाघा तु कत्थनम् ।स्तुतिः शंशा नुतिः स्तोत्रमीडनं स्तवनं स्तवः ॥ ९०५ ॥
अनुष्टुप्
genderक्लीneut.
स्त्रियां कृष्णविषाणा सा या कण्डूव्यपनोदिनी ।शस्त्रं स्तोत्रं ऋचां साम्नां शंसनं स्तवनं क्रमात् ॥ ११८५ ॥
अनुष्टुप्
genderक्लीneut.
उत्प्रासः स्यादुपालंभः परिवाग्भाषणीति च ।श्लाघा शंसा प्रशंसा च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ ३५ ॥
अनुष्टुप्
genderक्लीneut.
चात्वालोऽस्त्री मृत्खनः स्यादुत्करोऽवकरालयः ।शस्त्राण्युक्थानि सामानि स्तोत्राणि स्तुतयोऽपि च ॥ १११ ॥
अनुष्टुप्
genderक्लीneut.
स्तोत्र as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् स्तोमस्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मस्तु कुटिलेऽलसे ॥ १४१ ॥ Amarakośa 3.3.141
- कोषकल्पतरु नीथतिथोऽनले स्यान्मदनेऽथ नीथं स्तोत्रे गुदे नेतरि वाच्यलिङ्गम् । पाथो रवौ नाम्बु हविर्गतोऽन्त्ये कोथोऽक्षिरोगे शटिते च मन्थे ॥ ९३ ॥ Koṣakalpataru 6.18.93
- कोषकल्पतरु स्तोमगुन्द्राप्रसूतप्रमदाप्रियङ्गु- नीलीत्रिभण्डाङ्गुलिकेशिकासु । कालिन्दिकायां त्रिषु तद्वति स्यात् स्तोमोऽध्वरस्तोत्रसमूहवाची ॥ ६२ ॥ Koṣakalpataru 6.25.62
- नानार्थार्णवसंक्षेप आज्यकालायसे सुवर्णे च स्यादाज्यं तु घृते युधि । श्रीवेष्टाह्वयनिर्यासे स्तोत्रेषु च चतुर्ष्वपि ॥ १० ॥ Nānārthārṇavasaṃkṣepa 2.3.10
- नानार्थार्णवसंक्षेप त्रिवृत्नवसङ्ख्यात्मके स्तोमे त्रि तु स्तोत्रे च तद्वति । तद्युक्तेऽप्यहरादौ स्याद् रज्ज्वादौ त्रिगुणे तथा ॥ ५४१ ॥ Nānārthārṇavasaṃkṣepa 2.5.541