कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विक्रुष्ट

vikruṣṭaवि · adj.

In 5 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.184 · p. 15
परुषं निष्ठुरं रूक्षं विक्रुष्टमथ घोषणा ।उच्चैर्घुष्टं वर्णनेडा स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ २६९ ॥श्लाघा प्रशंसार्थवादः सा तु मिथ्या विकत्थनम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.140 · p. 17
उच्चैस्तरो ध्वनिस्तारो मन्द्रो गम्भीर उच्यते ।कलश्च मधुरोऽव्यक्तो विक्रुष्टो निष्ठुरो मतः ॥ १४० ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.42 · p. 421
व्यक्तं पूर्णं प्रसन्नं च सुकुमारमलङ्कृतम् ।समं सुरक्तं सुश्लक्ष्णं विक्रुष्टं मधुरं तथा ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.75 · p. 447
अत्यर्थमधुरं सान्त्वं संगतं हृदयंगमम् ।परुषं निष्ठुरं रूक्षं विक्रुष्टं क्लिष्टमस्फुटम् ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.81 · p. 447
परुषं निष्ठुरं रूक्षं विक्रुष्टं चाप्यथ स्तुतिः ।वर्णनेडा प्रशंसा स्यान्नुतिः श्लाघा स्तवो नवः ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.52 · p. 71
विक्रुष्टं किल निष्ठुरं च परुषं रूक्षं तथाश्लीलकंग्राम्यं ग्रस्तमिदं विलुप्तपदकं म्लिष्टं पुनश्चास्फुटम् ।क्षिप्रोक्तं तु निरस्तमाहतमिदं मिथ्यार्थकं स्यादथा-वध्य(द्यं?)व्यर्थ[46a]मबद्धकं तु विफलं चोच्चावचं तद्भवेत् ॥ ५२ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.389 · p. 50
स्याद्धृदयंगमं चैव सङ्गतं परुषं वचः ।विक्रुष्टं निष्ठुरं रुक्षमुच्चैर्घुंष्टं तु घोषणा ॥ ३८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)
genderविadj.