कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Trikāṇḍaśeṣa

त्रिकाण्डशेष Trikāṇḍaśeṣa

1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)

प्रथमः काण्डः · धीवर्गः

इति कालवर्गः ॥ ४ ॥

बुद्धिः पण्डा विदा चार्वी विचारस्तर्कनिश्चयौ ।गुञ्जा चर्चाऽथ सिद्धान्तोत्तरपक्षसमाधयः ।कृतान्तः पूर्वपक्षस्तु चोद्यं गीर्भणितिर्गिरा ॥ १ ॥
1.5.1 · p. 20
अनुष्टुप्
वाचा छन्दस्तु निगमः साम्न्युक्थं स्वरपत्तनम् ।ब्रह्माक्षरं स्यादोंकारः प्रश्नदूती प्रहेलिका ॥ २ ॥
1.5.2 · p. 20
अनुष्टुप्
संज्ञाऽधिवचनं सद्यःकृतं लक्षणनामनी ।व्यपदेशः प्रसिद्धस्तु टङ्कारोऽथ नवः स्तवः ॥ ३ ॥
1.5.3 · p. 20
अनुष्टुप्

इति धीवर्गः ॥ ५ ॥

शब्दाभिलापौ त्वभिधाऽभिधानं वाचको ध्वनिः ।ह्रासः कुहरितश्चाऽथ मन्मनो गद्गदध्वनौ ॥ १ ॥
1.5.1 · p. 20
अनुष्टुप्
तूरं तु तूर्यं स्यात्ताडयमानास्तु पटहादयः ।कर्वीदः करताली स्याद्ध्वनिनाला तु काहला ॥ २ ॥
1.5.2 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मड्डुको मर्दलो मंत्री ढक्का विजयमर्दलः ।द्रगडः प्रतिपत्तूर्यं डमरुः सूत्रकोणकः ॥ ३ ॥
1.5.3 · p. 21
अनुष्टुप्
नाली घटी यामनाली दण्डढक्का यमेरुका ।यामघोषोऽथ ताम्री स्यान्मानरन्ध्रा विकालिका ॥ ४ ॥
1.5.4 · p. 21
अनुष्टुप्
भवरुत्प्रेतपटहो मृत्युदण्डकरश्च सः ।रणतूर्यं तु संग्रामपटहो भयडिण्डिमः ॥ ५ ॥
1.5.5 · p. 21
अनुष्टुप्
भुक्ततूर्यं नृपाभीलं मल्लतूर्यं महास्वनः ।मुखवाद्यं वक्रतालं वेणौ विवरनालिका ॥ ६ ॥
1.5.6 · p. 21
अनुष्टुप्
वारवाणिः प्रगातास्यात्कथकैकनटौ समौ ॥ ७ ॥
1.5.7 · p. 21