कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वडवा

vaḍavāस्त्री · fem.

In 16 kośas: 13 synonym verses, 7 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1233 · p. 48
वडवाश्वा प्रसूर्वामी किशोरोऽल्पवया हयः ॥ १२३३ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.28 · p. 5
श्रमणायां भिक्षुणी स्याद्वेश्यायां तु खगालिका ।वारवाणिः कामलेखा क्षुद्रा चेट्यां गणेरुका ॥ ११२ ॥वडवा कुम्भदासी च पुत्रे तु कुलधारकः ।सदायादो द्वितीयश्च पुत्र्यां धीदा समर्धुका ॥ ११३ ॥देहसंचारिणी चाप्यपत्ये संतानसंतती ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.46
बालः किशोरो वाम्यश्वा वडवा वाडवं गणे ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.440 · p. 50
शूलको दुर्विनीतोऽश्वः पोतः प्रोक्तः किशोरकः ।अर्वती वडवा वामी प्रसूता वाजिनी स्मृता ॥ ४४० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.199 · p. 111
किशोरोऽल्पवयस्कोऽश्वो रथ्यो वोढा रथस्य यः ।पृष्ठ्यः स्थूरी प्रसूरेषां वाम्यश्वा वडवार्वती ॥ १९९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 253
क्रमणकेसरि-केसरि-विक्रमा-निलरथैकशफा गृहभोजनः ।कुटच-चामरि-पालक-किण्विनःपरुल-वाडव-हंस-मुहुर्भुजः ।वडवाश्वा प्रसूर्वामी वाजिनी चार्वती हयी ।अश्वस्यन्ती कामुकी सा टारो लघुतुरंग[113b]मः ॥ ९ ॥
द्रुतविलम्बितम्two metres in one verse
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.147 · p. 70
वामी तु वडवा त्वश्वा किशोरो बालको हयः ।जवनस्तु जवोत्कृष्टो रथ्योऽश्वो रथवाहकः ॥ १४७ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.141 · p. 10
genderस्त्रीfem.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण क्षत्रियप्रकरणम् Śabdacandrikā 5.2.33 · p. 44
लाटिका खुरपीठः स्याच्चन्द्रकः परिकीर्तितः ।वडवा वडिवी वामी पार्वती यक्षिणीति च ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.157 · p. 17
अश्वा वामी च वडवा किशोरो बालघोटकः ।अनश्च शकटो गन्त्री शताङ्गः स्यन्दनो रथः ॥ १५७ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.851 · p. 126
चेटी दासी कुम्भदासी पोटा वोटा गणेरुका ।वडवा पिचनामास्ति कुटहारिकापि कथ्यते ॥ ८५१ ॥
metre not recognisednearly अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2234 · p. 365
अश्वाऽर्वती प्रसूर्वामी वडवा संभवन्ति वै ॥ २२३४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.255 · p. 128
रथ्यो रथस्य वीटाश्वः कर्को धवलघोटकः ।किशोरो बालतुरगो वाम्यश्वा वडवाश्विका ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास वार्धश्लोकः Dharaṇikośa 28.2.20 · p. 207
वडवा स्त्र्यन्तरे कुम्भदास्यामश्वस्त्रियामपि ।कोटवी चण्डिका ख्याता नग्निका चापि कोटवी ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.31 · p. 363
स्यूते च वीणावयवे प्रसेवःस्यात्कुम्भदास्यां वडवा तुरङ्ग्याम् ।भेदेऽङ्गनानामपि विप्रनार्यांस्यात्कारवी मेचकजीरमिस्योः ॥ ३१ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1634 · p. 190
द्वे तु तित्तिरिसंझे स्यात् पक्षिजात्यन्तरेऽथ सा ।वडवा घोटकान्तायां स्त्रीभेदेऽपि च विश्रुते ॥ १६३४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1635 · p. 190
कामतन्त्रविदां कुम्भदास्यां च रभसस्त्वमुम् ।द्विजाङ्गनायां च प्राह शब्दज्ञोऽथ नृलिङ्गकः ॥ १६३५ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.33 · p. 287
अथोत्तरपदस्थोऽपि श्रेष्ठवाची भवेदयम् ।फेरवो जम्बुके धूर्ते हिंस्रे च क्षणदाचरे ॥माधवो यादवे विष्णौ मधुवैशाखयोरपि ।माधवी स्यान्मधुरिकावासन्तीशर्करासु च ॥राजीवं कमले क्लीबं स्यात्पुंसि मृगनीलयोः ।राघवो रघुनाथे स्याबृहन्मत्स्यविशेषके ॥रौरवाश्चञ्चले धूर्ते घोरे च नरकान्तरे ।वडवा कुम्भदास्यश्वाब्राह्मणकामिनीषु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2164 · p. 261
पर्याहाराध्वभारेषु स्यातां विवधवीवधौ ।वडवाश्वा ब्राह्मणी च वाहिनी सिन्धुसैन्ययोः ॥ २१६४ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.423 · p. 242
अश्वौघे वाडवं न स्त्री पाताले ना द्विजौर्वयोः ।वडवाऽश्वाकुम्भदास्योर्योगे कील हरे शिवः ॥ ४२३ ॥
अनुष्टुप्

वडवा as a meaning in nānārtha verses

  • धरणिकोश वामवामं निर्भरसुन्दरद्रविणयोर्वामं प्रतीपार्थकं वामं सव्यमुदाहृतं कविवरैर्वामः स्मृतः शंकरः । वामः कामः पशौ पयोधरवरे वामा स्मृता कामिनी वामी स्याद्वडवा तथोष्ट्रकवधूर्वामी शिवा गर्दभी ॥ Dharaṇikośa 24.3.8
  • शब्दरत्नावली अर्वतीअर्हन्तः पुंसि वृद्धे स्यात्सुगते च महेश्वरे । अर्वती वडवायाञ्च कुम्भदास्यामपि स्त्रियाम् । अङ्गतिर्ना ब्रह्मविष्ण्वोरग्निहोतरि केशवे ॥ Śabdaratnāvalī 7.16.78
  • शब्दरत्नावली वामीवामी शृगाली करभी रामभी वडवासु च । श्यामः कृष्णे पिके मेघे हरिते वृद्धदारके ॥ Śabdaratnāvalī 7.25.22