शतमख
śatamakhaपुं · masc.In 5 kośas: 3 synonym verses, 4 as a meaning of another word.
इन्द्रो दुश्च्यवनो हरिः सुरपतिः सङ्क्रन्दनो वासवो,वृत्रारिर्बलसूदनः शतमखो वृद्धश्रवाः कौशिकः ।जिष्णुर्वज्रधरः सहस्रनयनो वास्तोष्पतिर्गोपतिः,पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिः स्मृतः ॥ ५२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
पुरुदंसा शतमन्युः शतमख-पूतक्रतू च दुश्च्यवनः ।प्राचीनबर्हिराखण्डल-पर्ज्जन्याश्च बाहुदन्तेयः ॥ ९६ ॥
गीतिः
genderपुंmasc.
वज्रीन्द्रो मघवा वृषा वलरिपुर्वास्तोष्पतिर्वासवःशक्रो जम्भरिपुः सहस्रनयनः संक्रन्दनो वृत्रहा ।सुत्रामा सुरनायकः शतमखो वृद्धश्रवाः कौशिकःस्वाराड्दुश्च्यवनः शचीसहचरो जिष्णुर्मरुत्वान् हरिः ॥ ६६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शतमख as a meaning in nānārtha verses
- धरणिकोश कौशिककौशिकः शतमखेऽहितुण्डिके पेचके मुनिवरे च गुग्गुलौ । कौशिकोऽपि च नकुलेऽथ कौशिकी चण्डिका सरिदन्तरं च सा ॥ Dharaṇikośa 1.3.12
- कोषकल्पतरु प्रयागयज्ञे तु तीर्थराजे शतमखहययोः प्रयागः स्यात् । स्यात्कार्मणे प्रयुक्तौ निदर्शने च प्रयोग उद्दिष्टः ॥ १४ ॥ Koṣakalpataru 6.3.14
- शब्दरत्नावली प्रयागप्रयागः स्यात् तीर्थभेदे यज्ञे शतमखे हये । प्रयोगः कार्मणे… प्रयुक्तौ च निदर्शने ॥ Śabdaratnāvalī 7.3.41
- शब्दरत्नावली व्याडवण्डा स्त्रियां पांशुलायां हस्तादिवर्जिते त्रिषु । व्याडो विषधरे हिंस्रपशौ शतमखेऽपि च । शुण्डा तु जलहस्तिन्यां हस्तिहस्ते सुरागृहे ॥ Śabdaratnāvalī 7.13.25