कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मघवन्

maghavanपुं · masc.

In 13 kośas: 18 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.95 · p. 11
इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रजो वज्री विडौजा मघवान्पुरंदरः ।प्राचीनबर्हिः पुरुहूतवासवौ संक्रन्दनाखण्डलमेघवाहनाः ॥ १७१ ॥सुत्रामवास्तोष्पतिदल्मिशक्रा वृषा शुनासीरसहस्रनेत्रौ ।पर्जन्यहर्यश्वऋभुक्षिबाहुदन्तेयवृद्धश्रवसस्तुराषाट् ॥ १७२ ॥सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः ।कौशिकः पूर्वदिग्देवाप्सरःस्वर्गशचीपतिः ॥ १७३ ॥पृतनाषाडुग्रधन्वा मरुत्वान्मघवास्य तु ।
इन्द्रवंशा
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.458 · p. 29
मघवा वैजयिरथाश्वसेननृपनन्दनः ॥ ६९२ ॥सनत्कुमारोऽथ शान्तिः कुन्थुररो जिना अपि ।
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 3, syllable 4 स्तु (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.23
इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः ।वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ ४१ ॥जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः ।सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ ४२ ॥वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः ।जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४३ ॥संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ।आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ ४४ ॥पुलोमजा शचीन्द्राणी नगरी त्वमरावती ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.52 · p. 7
इन्द्रो दुश्च्यवनो हरिः सुरपतिः सङ्क्रन्दनो वासवो,वृत्रारिर्बलसूदनः शतमखो वृद्धश्रवाः कौशिकः ।जिष्णुर्वज्रधरः सहस्रनयनो वास्तोष्पतिर्गोपतिः,पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिः स्मृतः ॥ ५२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.20 · p. 382
ऐरावतोऽद्रिपर्यायभिन्मरुत्वांस्तुलोपि च ।अर्की विडौजा मघवा बैकुण्ठाण्डीरकौटिराः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.26 · p. 382
देवत्रिलोकीपर्यायराजार्थो मघवानपि ।प्राचीनबर्हिः सुत्रामा सूत्रामापि वृषः पुनः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.95 · p. 17
मघवा मघवान्पुरंदरःपृतनाषाट्-पुरुहूत-कौशिकाः ।विजयन्तक-पाकशासनौसह वृद्धश्रवसा दिवस्पतिश्च ॥ ९५ ॥
वियोगिनी
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 60 · p. 30
शतमन्युस्तुराषाट् च पुरुहूतश्च कौशिकः ।संक्रन्दनोऽथ मघवान् पुलोमारिर्मरुत्सखः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.54 · p. 12
हूहूहाहामुखा देवगायनाः कथिता बुधैः ।इन्द्रोऽच्युताग्रजो वज्रो विडौजा मधवान् हरिः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.57 · p. 12
आखण्डलः सहस्त्राक्षस्तुराषाण्मघवा पुनः ।शुनासीरोग्रधन्वानौ सुत्रामा पूर्वदिक्पतिः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.39 · p. 5
इन्द्रः पुरंदरः शक्रो वासवः पाकशासनः ।संक्रन्दनः सहस्राक्षः सुत्रामा मघवा वृषा ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.183 · p. 25
बिडौजा मधवान् शक्रः पुरन्दरश्च वासवः ।आखण्डलः सहस्राक्षः सुत्रामा च सुरर्षभः ॥ १८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्द (wrong syllable)
genderपुंmasc.doubtful
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1126 · p. 175
भरत आर्षभिस्तत्र सगरश्च सुमित्रभूः ।वैजयिर्मघवा चाथाश्वसेननृपनन्दनः ॥ ११२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.107 · p. 8
संक्रन्दनो हरिहयः सुत्रामा गोत्रभिद्वृषा ।पर्जन्यः कौशिकः स्वाराट् मघवा पाकशासनः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.59 · p. 181
उदीचीनमपाक् प्रत्यक् प्रागुदगव्ययान्यपि ।इन्द्रे मघवा मघवान् मघवन् दल्मि-वल्मिकौ ॥ ५९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable); pāda 3, syllable 4 घ (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.66 · p. 9
वज्रीन्द्रो मघवा वृषा वलरिपुर्वास्तोष्पतिर्वासवःशक्रो जम्भरिपुः सहस्रनयनः संक्रन्दनो वृत्रहा ।सुत्रामा सुरनायकः शतमखो वृद्धश्रवाः कौशिकःस्वाराड्दुश्च्यवनः शचीसहचरो जिष्णुर्मरुत्वान् हरिः ॥ ६६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1748 · p. 211
विनायकस्तु बुद्धः स्यादृषिर्हंसस्त्रिकालदृक् ।गौरेयो बर्हवासाः स्यान्मघवानहिशासनः ॥ १७४८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.2 · p. 9
वास्तोष्पतिर्बलरिपुः पुरुहूतः पुरन्दरः ।मघवान् पूर्वदिक्पालः पृतनाषाट् सुराधिपः । ॥ २ ॥
अनुष्टुप्
genderपुंmasc.