कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

इन्द्र

indraपुं · masc.

In 22 kośas: 40 synonym verses, 13 as a nānārtha head word, 60 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.169 · p. 11
तिर्यग्दिशां तु पतय इन्द्राग्नियमर्नैरृताः ।वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥ १६९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 म (wrong syllable); pāda 3, syllable 6 कु (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.95 · p. 11
इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रजो वज्री विडौजा मघवान्पुरंदरः ।प्राचीनबर्हिः पुरुहूतवासवौ संक्रन्दनाखण्डलमेघवाहनाः ॥ १७१ ॥सुत्रामवास्तोष्पतिदल्मिशक्रा वृषा शुनासीरसहस्रनेत्रौ ।पर्जन्यहर्यश्वऋभुक्षिबाहुदन्तेयवृद्धश्रवसस्तुराषाट् ॥ १७२ ॥सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः ।कौशिकः पूर्वदिग्देवाप्सरःस्वर्गशचीपतिः ॥ १७३ ॥पृतनाषाडुग्रधन्वा मरुत्वान्मघवास्य तु ।
इन्द्रवंशा
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.26 · p. 18
दरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीकटौ ।अकिंचनोऽधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ ३५८ ॥पतीन्द्रस्वामिनाथार्याः प्रभुर्भर्तेश्वरो विभुः ।ईशितेनो नायकश्च नियोज्यः परिचारकः ॥ ३५९ ॥डिङ्गरः किंकरो भृत्यश्चेटो गोप्यः पराचितः ।दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥ ३६० ॥परान्नः परिपिण्डादः परजातः परैधितः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1199 · p. 46
विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ॥ ११९५ ॥वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च ॥ ११९६ ॥अहिच्छत्त्रो मेषशृङ्गकुष्टवालूकनन्दनाः ।कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ ॥सर्षपो मूलको गौरार्द्रकः सक्तुककर्दमौ ।अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ ॥इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः ।मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.23
इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः ।वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ ४१ ॥जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः ।सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ ४२ ॥वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः ।जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४३ ॥संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ।आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ ४४ ॥पुलोमजा शचीन्द्राणी नगरी त्वमरावती ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.1
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ।अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ।इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ २ ॥कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.52 · p. 7
इन्द्रो दुश्च्यवनो हरिः सुरपतिः सङ्क्रन्दनो वासवो,वृत्रारिर्बलसूदनः शतमखो वृद्धश्रवाः कौशिकः ।जिष्णुर्वज्रधरः सहस्रनयनो वास्तोष्पतिर्गोपतिः,पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिः स्मृतः ॥ ५२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.100 · p. 13
आशाः ककुभः काष्ठा हरितश्च दिशः समाख्याताः ।इन्द्रानलयमनैर्ऋतवरुणमरुद्धनदरुद्रदिक्पालाः ॥ १०० ॥
उद्गीतिः
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.16 · p. 67
इन्द्रः पूर्वदिशाकान्तः पर्जन्यपतिरित्यपि ।पुलोमशत्रुर्वृत्रारिर्वज्रपाणिः पुरन्दरः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.18 · p. 216
आढ्योस्तिमान् धनी स्वामीभ्येश्वरौ पतिरीशिता ।भर्त्तेशेनेन्द्रनाथार्या नायकस्त्वधिभूः प्रभुः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.25 · p. 366
इन्द्रो लाङ्गुलिको विष्णुलिङ्गपिङ्गलगोतमाः ।मुस्तको दालवाद्याः स्युरथान्ये जङ्गमाः पुनः ॥ २५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.19 · p. 381
क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां भेद्यगामि यत् ।इन्द्रो वृद्धश्रवा जिष्णुर्मेघार्थाद्वाहनार्थकः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.10 · p. 406
सिद्धः साध्यः शुभः शुक्लो ब्रह्मेन्द्रश्चापि वैधृतिः ।तत्रातिगञ्जो गञ्जोऽपि द्वितीयश्चाष्टमः स्त्रियाम् ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.17 · p. 2
अविद्यासंवृते स्वात्मा क्षेत्रज्ञः पुरुषोऽतसः ।इन्द्रश्च चेतनोऽध्यात्मं त्वव्ययं क्लीबमत्र तु ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.21 · p. 28
इन्द्रानल-यम-नैर्ऋत-वरुण-मरुद्वित्तपेशानाः ।धर्णसि-भरथ-दृशाना दिक्पतयो लोकपालाश्च ॥ २१ ॥
उपगीतिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.36 · p. 305
अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ।विस्फुलिङ्गः पिङ्गले[150b]न्द्रौ सगरं लाङ्गलिकाद[यः] ॥ ३६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.36 · p. 4
भर्ता भरण्डो नेतार्यः प्रभुः परिवृढोऽधि[160b]पः ।अधिभूर्नायको नाथः स्वामीन्द्रो विभ्विनौ प्रभुः ॥ ३६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नाममालिका Nāmamālikā · भोज स्वर्गादिनामधेयप्रकरणम् Nāmamālikā 1.5 · p. 1
इन्द्रे स्युः प्राग्दिशानाथमहेन्द्रदनुजारयः ।सर्वाङ्गनयनागारिचिन्तामणिवरासनाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 10 · p. 5
राजाधिपः पतिः स्वामी नाथः परिवृढः प्रभुः ।ईश्वरो विभुरीशानो भर्तेन्द्र इन ईशिता ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 57 · p. 30
तत्पतिः शक्र इन्द्रश्च शुनासीरः शतक्रतुः ।प्राचीनबर्हिः सुत्रामा वज्री चाखण्डलो हरिः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.54 · p. 12
हूहूहाहामुखा देवगायनाः कथिता बुधैः ।इन्द्रोऽच्युताग्रजो वज्रो विडौजा मधवान् हरिः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.160 · p. 25
प्रदिग्विदिक्त्वपदिशं दिग्भवे दिश्यमिष्यते ।तिर्यग्दिगीश्वरा इन्द्रवह्निकीनाशनैर्ऋताः ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.116 · p. 66
तथा हैमवतेन्द्रौ च सर्षपो मूलकोऽपरः ।कालिङ्गो विस्फुलिङ्गोऽपि गौतमोऽप्येष विश्रुतः ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.25 · p. 104
विभुः स्वामी पतिर्नाथो नेता भर्तेश्वरः पुनः ।इन्द्रेनावीशितेशश्च आर्यः परिवृढः समः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.332 · p. 23
अन्तरिक्षं वियद्व्योम खं विहायो महाविलम् ।इन्द्रः शचीपतिर्वज्री सुत्रामा पाकशासनः ॥ ३३२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः Śabdacandrikā 1.3 · p. 34
निलिम्पा मरुतो मर्त्याः गुरुशिष्या दिवौकसः ।इन्द्रो विद्याधरस्वामी परमन्युर्युधिष्ठिरः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.39 · p. 5
इन्द्रः पुरंदरः शक्रो वासवः पाकशासनः ।संक्रन्दनः सहस्राक्षः सुत्रामा मघवा वृषा ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.10 · p. 35
नाथः प्रभुः पतिः स्वामी विभुः परिवृढोऽधिपः ।ईश्वरो नायको नेता भर्तेन्द्र इन ईशिता ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.178 · p. 25
इन्द्रश्चाग्निर्यमश्चैव नैर्ऋतो वरुणस्तथा ।वायुस्तया कुबेरः स्याद् ईशानश्च यथाक्रमम् ॥ १७८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.182 · p. 25
इन्द्रो हरिरुपेन्द्रश्च वज्री दुश्च्यवनो वृषाः ॥ १८२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.41 · p. 68
ईशितेशेश्वरेन्द्रे ना कथ्यते कोविदैः किल ।
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2160 · p. 355
इन्द्रश्चाङ्कोल्लसारश्च लाङ्गुलिकश्च पिङ्गलः ।वालूको वत्सनाभश्च विस्फुलिङ्गश्च दालवः ॥ २१६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.105 · p. 8
इन्द्रः सुरपतिः शक्रो मरुत्वान् मेघवाहनः ।शतमन्युः सुनासीरो वज्रपाणिः पुरन्दरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.9 · p. 177
सूरस्तालव्यदन्त्यादिस्तालव्यादिः शुचिर्वृकः ।कोद्रिरिन्द्रोऽप्यरुः सान्तः किरणे द्युद्-द्युती रुचिः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.66 · p. 9
वज्रीन्द्रो मघवा वृषा वलरिपुर्वास्तोष्पतिर्वासवःशक्रो जम्भरिपुः सहस्रनयनः संक्रन्दनो वृत्रहा ।सुत्रामा सुरनायकः शतमखो वृद्धश्रवाः कौशिकःस्वाराड्दुश्च्यवनः शचीसहचरो जिष्णुर्मरुत्वान् हरिः ॥ ६६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.8 · p. 35
अर्घीशो दीपिका वामश्रवणो मधुसूदनः ।इन्द्रश्चापः षण्मुखश्च ऊ-कारो रक्षणाभिधः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.13 · p. 42
अधो धरेन्द्र-वागीशा वासुदेवोऽथ भौतिकः ।त्रैपुरः प्रणतो वर्म-मरुतौ द्वादशस्वरः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
मुण्डी ककुद्मतो मांसं पिनाकीशो बलानुजः ।क्रियेन्द्रौ लम्पटो भूमिर्वायवीयो ल-कारकः ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.1 · p. 9
इन्द्रो दुश्च्यवनो वज्री वृत्रारिर्वासवो वृषा ।वृद्धश्रवाः शुनासीरः सहस्राक्षो दिवस्पतिः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.24 · p. 150
एवमन्येऽपि काकोलो वत्सनाभो हलाहलः ।सौराष्ट्रिको ब्रह्मपुत्रशौक्लिकेयेन्द्रदारदाः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.14 · p. 167
इन्द्रः शक्रे च योगे च कुटजादित्यरात्रिषु ।वक्रः शनैश्चरो ज्ञेयो वक्रमनृजुदुष्टयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 क्र (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.51 · p. 310
कृच्छ्रं तथा सान्तपनादिकेऽस्त्रीचन्द्रस्तु कम्पिल्लहिमत्विषोर्ना ।जले तु षण्ढे घनसारहेम्नो-र्न स्त्रीन्द्र आदित्यशचीशयोः स्यात् ॥ ५१ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.52 · p. 310
तथान्तरात्मन्य[पि] योगभेदेफणिज्जके योषिति सम्मतोऽयम् ।क्लिन्ने तथार्द्रस्त्रिषु भे पुनः स्त्रीसान्द्रं त्वरण्ये च घने मृदौ च ॥ ५२ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.2 · p. 21
गुग्गुलूलूककुटजेष्विन्द्रस्याग्नेस्तु चित्रके ।भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.14 · p. 22
इन्द्रः पुरन्दरे सूर्ये सूर्येषु द्वादशस्वपि ।विशेषतः स्यादेकस्मिन् परमात्मनि पादपे ॥ १४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.15 · p. 22
अश्मन्तकाह्वये क्ष्वेडविशेषे इति षट्स्वयम् ।पत्यौ च नामपूर्वोऽथो ईष्मो वायुवसन्तयोः ॥ १५ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास इकारादयः Paramānandīyanāmamālā 5.2.56 · p. 168
इन्द्रो राज्ञि रवौ देवनायकेऽप्यन्तरात्मनि ॥ ५६ ॥
शिवकोष Śivakoṣa · शिवदत्तमिश्र रद्विः Śivakoṣa 22.2.371 · p. 34
जाम्बूनदेऽभ्रपटलेऽपीन्द्रः शक्रमहीरुहे ।इन्द्रा फणिज्जकेऽप्युग्रा वचायां क्षुद्विबोधने ॥ ३७१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.5 · p. 264
आरुर्वराहे पुंसि स्यात्तरुभेदे च कर्कटे ।इन्द्रः शक्रे योगभेदे सूर्यभेदेऽन्तरात्माने ॥इन्द्रा फणिज्झके स्त्री स्यादिन्द्रान्यामपि कुत्रचित् ।उग्रस्त्रिषूत्कटे पुंसि क्षत्राच्छूद्रासुते शिवे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्मा (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1875 · p. 229
इला तु तासु सार्घ्यासु स्यादिष्टिर्यजनेच्छयोः ।सुत्रामसूर्ययोरिन्द्र ईतिः क्लेशोपसर्गयोः ॥ १८७५ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.331 · p. 207
आसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्बले ।आरः शनैश्चरे भौमे इन्द्र आत्मनि वासवे ॥ ३३१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.8 · p. 214
इंद्रो विषात्मशक्रार्केष्वीश्वरे नामतः परः ।इष्वोऽभिलाष आचार्य ऊमो व्योम्नि पुरेऽपि च ॥ ८ ॥
अनुष्टुप्
doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश पर्यायसंयोगन्यायप्रदर्शनाध्यायः Vaijayantī 8.6.2 · p. 281
गुग्गुलूलूककुटजेष्विन्द्रस्याग्नेश्च चित्रके ।भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥
अनुष्टुप्

इन्द्र as a meaning in nānārtha verses