कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मरुत्वत्

marutvatपुं · masc.

In 12 kośas: 14 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.95 · p. 11
इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रजो वज्री विडौजा मघवान्पुरंदरः ।प्राचीनबर्हिः पुरुहूतवासवौ संक्रन्दनाखण्डलमेघवाहनाः ॥ १७१ ॥सुत्रामवास्तोष्पतिदल्मिशक्रा वृषा शुनासीरसहस्रनेत्रौ ।पर्जन्यहर्यश्वऋभुक्षिबाहुदन्तेयवृद्धश्रवसस्तुराषाट् ॥ १७२ ॥सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः ।कौशिकः पूर्वदिग्देवाप्सरःस्वर्गशचीपतिः ॥ १७३ ॥पृतनाषाडुग्रधन्वा मरुत्वान्मघवास्य तु ।
इन्द्रवंशा
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.23
इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः ।वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ ४१ ॥जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः ।सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ ४२ ॥वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः ।जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४३ ॥संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ।आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ ४४ ॥पुलोमजा शचीन्द्राणी नगरी त्वमरावती ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.54 · p. 7
शक्रः स्यादुग्रधन्वा च हरिवान्पाकशासनः ।दिवस्पतिर्विडौजाश्च मरुत्वान्मेघवाहनः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.20 · p. 382
ऐरावतोऽद्रिपर्यायभिन्मरुत्वांस्तुलोपि च ।अर्की विडौजा मघवा बैकुण्ठाण्डीरकौटिराः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.94 · p. 17
ऋजीको वृषा वृत्रहा स्यात्तुराषाण्-मरुत्वान्-ऋभुक्षा विडौजा बिडौजाः ।सुनासीर-जिष्णू शुनाशीर-वि[12b]ष्ण्व-ग्रजौ वज्रभृत्स्यात्तपस्तक्षकश्च ॥ ९४ ॥
भुजङ्गप्रयातम्metre not read in every linenearly भुजङ्गप्रयातम्: pāda 1, syllable 11 वि (wrong syllable)
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 59 · p. 30
विडौजाश्चाप्सरोनाथो वासवो हरिवाहनः ।मरुतश्च मरुत्वाँश्च वृषा चैरावणाधिपः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.66 · p. 9
सौख्यराजो हरिहयो राजा मारुत इत्यपि ।स्वराण्मरुत्वान् गोपाणिः शतमन्युर्दिवस्पतिः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.41 · p. 5
जिष्णुर्वृद्धश्रवा वज्री बिडौजा नाकनायकः ।बलारातिः सुरपतिर्मरुत्वान्मेघवाहनः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.185 · p. 25
तुराषाट् यामनेमिश्च तपस्तक्षोऽच्युताग्रजः ।पृतनाषाट् मरुत्वान् पर्जन्यः पूर्वदिक्पतिः ॥ १८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.59 · p. 5
शिनौका उन्नतीशश्च मरुत्वान् सुविवादपि (?) ।शाल्मली सुमुखो विणुवाहुगः स्याद्भुजङ्गभुक् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 वि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.69 · p. 6
हिडिम्बापतिरुद्ग्रीवो रामदूतोऽर्जुनध्वजः ।लङ्कादाही मरुत्वान् स्यात् कपीन्द्रो रजतद्युतिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.105 · p. 8
इन्द्रः सुरपतिः शक्रो मरुत्वान् मेघवाहनः ।शतमन्युः सुनासीरो वज्रपाणिः पुरन्दरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.66 · p. 9
वज्रीन्द्रो मघवा वृषा वलरिपुर्वास्तोष्पतिर्वासवःशक्रो जम्भरिपुः सहस्रनयनः संक्रन्दनो वृत्रहा ।सुत्रामा सुरनायकः शतमखो वृद्धश्रवाः कौशिकःस्वाराड्दुश्च्यवनः शचीसहचरो जिष्णुर्मरुत्वान् हरिः ॥ ६६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.4 · p. 9
कारुर्जंभरिपुर्जिष्णुर्मरुत्वान् हरिवाहनः ।स्वाराडृभुक्षाः सुत्रामा विडौजाः सितकुञ्जरः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.