कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

कान्ताः · कश्लोकः

॥ कश्लोकः ॥

निष्कं कर्षे च दीनारे उरसो भूषणेऽपि च ।अष्टाधिके शते हेम्नो हेम्नि हेमपलेऽपि च ॥
1.3.1 · p. 15
अनुष्टुप्
अङ्कः क्रोडे च चिह्ने च चित्रयुद्धसमीपयोः ।नाटकग्रन्थविच्छेदे स्थानभूषणयोः क्वचित् ॥
1.3.2 · p. 15
अनुष्टुप्
काको ध्वाङ्क्षोऽथ काकाः स्युः काकोलीकाशमल्लिकाः ।काकमाचीकाकजङ्घामलपूकाकनासिकाः ॥
1.3.3 · p. 15
अनुष्टुप्
भूतिकं कत्तृणे ख्यातं भूतिकं स्याद्यवानिका ।भूनिम्बे भूतिकं ख्यातं कर्पूरे च प्रकीर्तितम् ॥
1.3.4 · p. 15
अनुष्टुप्
भालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते ।सर्वलक्षणसंपूर्णपूरुषे कच्छपे हरे ॥
1.3.5 · p. 15
अनुष्टुप्
उष्णकः शीतकश्चोभौ स्मृतौ ऋतुविशेषयोः ।क्षिप्रकारिणि चलने चङ्क्रमादौ प्रकीर्तितौ ॥
1.3.6 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
कण्टकः क्षुद्रशत्रौ स्यान्मीनादीनां [च] कीकसे ।दोषे नैयायिकादीनां रोमाञ्चे पादपाङ्गजे ॥
1.3.7 · p. 16
अनुष्टुप्
कौतुकं महकुतूहलयोस्तन्मङ्गलप्रमदयोश्च वदन्ति ।पूर्वपूर्वमुपदेशरसेन ख्यापितेऽप्यथ च कौतुकमाहुः ॥
1.3.8 · p. 16
स्वागता
तारकमक्षि च तारकमृक्षे नेत्रमध्यतिलके च वदन्ति ।तार[11]कस्त्रिदशवैरिविशेषः पारकारकनरोऽप्युपदिष्टः ॥
1.3.9 · p. 16
स्वागताmetre not read in every line
वालकं कटकमङ्गुरीयकं वालको द्विरदवालधिः स्मृतः ।वालकाश्च शिशुकुन्तलाङ्गका वालकोऽपि च सुगन्धिकौषधिः ॥
1.3.10 · p. 16
रथोद्धता
कूपको जलतरङ्गसंचारप्रस्तरादिषु च नौगुणक्रमे ।कूपको विवरमात्रके स्मृतः कूपिका च रसवस्तुकुण्डिका ॥
1.3.11 · p. 16
रथोद्धताmetre not read in every line
कौशिकः शतमखेऽहितुण्डिके पेचके मुनिवरे च गुग्गुलौ ।कौशिकोऽपि च नकुलेऽथ कौशिकी चण्डिका सरिदन्तरं च सा ॥
1.3.12 · p. 16
रथोद्धताmetre not read in every line
कर्णिकां श्रवणभूषणमाहुर्हस्तिहस्तशिखरमङ्गुलिकां च ।बीजकोषं निरूहस्य कर्णिकां [कर्णिका] क्रमुक्रः वृक्षफलं च ॥
1.3.13 · p. 16
metre not recognised
कालिका च कथिता घनसङ्घे मातृभेदनववारिदयोश्च ।कालिकां क्रयणभेदनमाहुः कालिकां शंततितत्वं ? च शिवां च ॥
1.3.14 · p. 17
स्वागताmetre not read in every line
अन्तिका नाट्यतो ज्येष्ठस्वसा चुह्लिरपि स्मृता ।अन्तिकं तु समीपे स्यात्सामीप्ये च प्रयुज्यते ॥
1.3.15 · p. 17
अनुष्टुप्
कारिका विवृत्तिश्लोके यातनायां कृतौ तथा ।नापितादिकशिल्पे च कारिका सद्भिरिष्यते ॥
1.3.16 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वृ (wrong syllable)
करको वृष्टिपाषाणे करकश्च कमण्डलौ ।दाडिमे च करङ्के च करेऽपि करकः स्मृतः ॥
1.3.17 · p. 17
अनुष्टुप्
सरको मधुपाने स्यान्मधुपात्रेक्षुशीधुनोः ।अच्छिन्नाध्वगपङ्क्तौ च सरकः प[12]रिकीर्तितः ॥
1.3.18 · p. 17
अनुष्टुप्
तिलकं जटुलं विद्याच्चित्रके पादपान्तरे ।कृष्ण्यां सौवर्चले क्लोम्नि तिलकं तिलकालके ॥
1.3.19 · p. 17
अनुष्टुप्
युतकं युगले युक्ते संशययौतुकयोश्च ।ललनावसनाञ्चलके युतकं चलनायां च ॥
1.3.20 · p. 17
metre not recognised
कटको वलये सानौ जलधिलवणेऽपि च ।कटको राजस्थानेऽपि मण्डने द्विरदस्य च ॥
1.3.21 · p. 18
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 ल (wrong syllable); pāda 3, syllable 5 ज (wrong syllable)
रुचकः सर्जिकाक्षारे विडङ्गे मातुलङ्गके ।दन्ते ग्रीवाविभूषायामश्वाभरणमाल्ययोः ॥
1.3.22 · p. 18
अनुष्टुप्
कुलकः पटोले पात्रे वल्मीके च प्रकीर्तितः ।श्लोकसंबद्धसंघाते क्रियया करणेन वा ॥
1.3.23 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 टो (wrong syllable)
पुण्डरीकं सितं छत्रं पुण्डरीकं सिताम्बुजम् ।व्याघ्रेऽपि पुण्डरीकः स्यात्पुण्डरीकोऽपि दिग्गजः ॥
1.3.24 · p. 18
अनुष्टुप्
अङ्गारकः कुजो ज्ञेयः स्यादङ्गारकमुल्मुकम् ।अङ्गारिकेक्षुकाण्डेषु पलाशकलिकासु च ॥
1.3.25 · p. 18
अनुष्टुप्