पर्जन्य
parjanyaपुं · masc.In 17 kośas: 19 synonym verses, 11 as a nānārtha head word, 2 as a meaning of another word.
नभ्राट्तडित्वान्मुदिरो घनाघनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः ।जीमूतपर्जन्यबलाहका घनो धाराधरो वाहदमुग्धरा जलात् ॥ १६४ ॥
upajati mixed
genderपुंmasc.
इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रजो वज्री विडौजा मघवान्पुरंदरः ।प्राचीनबर्हिः पुरुहूतवासवौ संक्रन्दनाखण्डलमेघवाहनाः ॥ १७१ ॥सुत्रामवास्तोष्पतिदल्मिशक्रा वृषा शुनासीरसहस्रनेत्रौ ।पर्जन्यहर्यश्वऋभुक्षिबाहुदन्तेयवृद्धश्रवसस्तुराषाट् ॥ १७२ ॥सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः ।कौशिकः पूर्वदिग्देवाप्सरःस्वर्गशचीपतिः ॥ १७३ ॥पृतनाषाडुग्रधन्वा मरुत्वान्मघवास्य तु ।
इन्द्रवंशा
इन्द्रपुंहरिपुंदुश्च्यवनपुंअच्युताग्रजपुंवज्रिन्पुंविडौजस्पुंमघवन्पुंपुरंदरपुंप्राचीनबर्हिस्पुंपुरुहूतपुंवासवपुंसंक्रन्दनपुंआखण्डलपुंमेघवाहनपुंसुत्रामन्पुंवास्तोष्पतिपुंदल्मिपुंशक्रपुंवृषन्पुंशुनासीरपुंसहस्रनेत्रपुंपर्जन्यपुंहर्यश्वपुंऋभुक्षिन्पुंबाहुदन्तेयपुंवृद्धश्रवस्पुंतुराषाह्पुंसुरर्षभपुंतपस्तक्षपुंजिष्णुपुंवरपुंशतक्रतुपुंकौशिकपुंपूर्वदिक्पतिपुंदेवपतिपुंअप्सरःपतिपुंस्वर्गपतिपुंशचीपतिपुंपृतनाषाह्पुंउग्रधन्वन्पुंमरुत्वत्पुं
genderपुंmasc.
इन्द्रो दुश्च्यवनो हरिः सुरपतिः सङ्क्रन्दनो वासवो,वृत्रारिर्बलसूदनः शतमखो वृद्धश्रवाः कौशिकः ।जिष्णुर्वज्रधरः सहस्रनयनो वास्तोष्पतिर्गोपतिः,पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिः स्मृतः ॥ ५२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
तडित्पतिर्महानादधीरः पर्जन्य इत्यपि ।आकालिका शतावर्ता चञ्चला चपला अपि ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
विश्वावसुः सूर्यवर्चा नदीचित्रश्च ताम्रकः ।दुराधिश्च शुचिर्हंसस्तृप्तिः पर्जन्य इत्यपि ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
किणालातश्च हरिमान्वियुतो वज्रदक्षिणः ।देवदुन्दुभिपर्जन्यौ बाहुजज्ञोऽस्य तु प्रिया ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
मुदिरः स्त्री वारिमसिर्नभ्राडब्दे तु वर्षुके ।शब्दान्विते च पर्जन्यपर्यन्यौ वर्षुके घने ॥ १५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
genderपुंmasc.
पर्जन्यो गडयन्तकः सलिलभृत्तद्वत्तडित्वान्मरुद्-दारुः पुंसि पयोधसाभ्रमयुगे स्त्रीपुंसयोर्वार्मसिः ॥ ७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
अम्बुदघनाघनो घनो मेघो जीमूतोऽभ्रं बलाहकः ।पर्जन्यो मिहिरो नभ्राट् शम्पा सौदामिनी तडित् ॥ १८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कौशिकः शक्रपर्जन्यहर्यश्वकसुरर्षभाः ।शचीपतिः स्वर्गपतिपुरुहूतपुरंदराः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
जलदो जलवाहोऽभ्रं स्तनयित्नुर्बलाहकः ।धाराधरो जलधरपर्जन्यगडयेरकाः ॥ १५५ ॥
अनुष्टुप्
genderपुंmasc.
आवर्तनः पुष्पकश्च पर्जन्य इति कथ्यते ।वृष्टिश्च वर्षणं वर्षं प्रावृषः परिकीर्तितः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
जीमूतो वारिदो नभ्राट् पर्जन्योऽम्भोधरोऽम्बुदः ।विद्युत्सौदामिनी शम्पा चञ्चला चपला तडित् ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
स्तनयित्नुश्च पर्जन्यो धाराधरो बलाहकः ।नभोध्वजो जलधरो जलवाहश्च वार्मसिः ॥ १६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
genderपुंmasc.
तुराषाट् यामनेमिश्च तपस्तक्षोऽच्युताग्रजः ।पृतनाषाट् मरुत्वान् पर्जन्यः पूर्वदिक्पतिः ॥ १८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
संक्रन्दनो हरिहयः सुत्रामा गोत्रभिद्वृषा ।पर्जन्यः कौशिकः स्वाराट् मघवा पाकशासनः ॥
अनुष्टुप्
genderपुंmasc.
जलमुक् वारिमुक् वार्मुक् वनमुक् वारिदोऽम्बुभृत् ।अब्दस्तडित्वान् जीमूतः पर्जन्यः स्यान्नभोगजः ॥
अनुष्टुप्
genderपुंmasc.
गडयित्नुर्गदयित्नुर्वारितो वाह-वाहनौ ।पर्जन्योऽष्टमवर्ग्याप्तोऽब्दमालायां तु कालिका ॥ ५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 द (wrong syllable)
genderपुंmasc.
पर्जन्यः पूर्ववन्नान्तो वृषा दन्त्यद्वयान्वितः ।तालव्यद्वयवानाद्यतालव्यश्च तृतीयकः ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
संस्तरः प्रस्तरेऽप्युक्तो हनौ कुञ्जो रणे स्पशः ।गर्जन्मेघेऽपि पर्जन्यः सन्धा स्यादवधावपि ॥ ८१८ ॥
अनुष्टुप्
meaningsगर्जन्मेघ
वदान्यो दानशीले स्याद्वदान्यो वर्णवागपि ।पर्जन्यो मेघशब्दे स्यादिन्द्रे च ध्वनदम्बुदे ॥
अनुष्टुप्
स्यात्स्त्रीणां रतबन्धभिद्यथ हयौघेऽश्वीयमन्त्ये हिते ।त्वश्वेभ्यः परवच्च, रेतसि पुनः श्रोत्रादिके चेन्द्रियम् ।शिश्नेऽन्त्ये च जघन्यमन्यवदिहावद्ये, वदान्यः पुनःस्याद्दातर्यपि चारुवाचि परवत्पर्जन्यइन्द्रेऽपि च ॥ ६८ ॥
शार्दूलविक्रीडितम्
meaningsइन्द्र
गर्जद्वारिदवारिदस्तनितयोः स्याद्ब्रह्मसाधौ पुन-र्ब्रह्मण्योऽपि शनैश्चरे निगदितस्तूदद्रुमे तादृशः ।ब्राह्मण्यं द्विजभावकर्मसु मतं स्याद्ब्राह्मणौ[41a]घे तथाशीर्षण्यं विशदे कचे च गदितं स्याच्छीर्षके चान्तिमे ॥ ६९ ॥
शार्दूलविक्रीडितम्metre not read in every line
doubtful
ज्ञेय आसनभेदेषु पर्जन्यस्तु पुरन्दरे ।गर्जदभ्रेऽभनिनदे वास्तुदेवान्तरे तथा ॥ १५२ ॥
अनुष्टुप्
अस्त्रयन्त्रे पर्वतस्तु मुनिभेदे गिरावपि ।मेधेऽप्यथ पटीरः स्यात् कन्दर्पे चापि चन्दने ॥ १५३ ॥
अनुष्टुप्
meaningsअस्त्रयन्त्र
doubtful
आचारशपथाधीनच्छिद्रविश्वासहेतुषु ।पर्यायः स्यात्क्रमे पुंसि प्रकारेऽवसरेऽपि च ॥प्रलयोऽपायकल्पान्तमृत्युमूच्छासु पुंस्ययम् ।पर्यण्योऽपि घनस्वाने स्वतद्घनमहेन्द्रयोः ॥प्रसव्यं प्रतिकूले स्यादनुकूलेऽपि वाच्यवत् ।प्रणाय्योऽनभिलाषे स्यात्तथा चासम्मतेऽपि च ॥
अनुष्टुप्
doubtful
पर्जन्यो वासवे गर्जदभ्रे जीमूतनिस्वने ।प्रलयो मूर्च्छने श्लेषे संवर्ते मरणेऽपि च ॥ २१२० ॥
अनुष्टुप्
परागः पुष्परेणौ च स्नानीयादौ रजस्यपि ।पर्जन्यो गर्जदभ्रेऽभ्रध्वाने शक्रेऽस्त्रयन्त्रके ॥ ४२ ॥
अनुष्टुप्
पर्जन्य as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप कटहतथोक्तो धान्यपवने कटहः पुनरुच्यते । पर्जन्ये कर्णवति कालायसविनिर्मिते ॥ ६६ ॥ Nānārthārṇavasaṃkṣepa 3.2.66
- नानार्थार्णवसंक्षेप गदयित्नुगदयित्नुस्तु पर्जन्ये पुमांस्त्रिर्वावदूकके । गार्हपत्यः पश्चिमाग्नौ पुमान् गृहपतेः पुनः ॥ २०७ ॥ Nānārthārṇavasaṃkṣepa 6.207