शौक्तिक
śauktikaक्ली · neut.In 5 kośas: 5 synonym verses.
इन्द्रनीलं महारत्नं वैडूर्यं वालदायजम् ।कुरुविन्दस्तु कुल्माषो मौक्तिकं शौक्तिकं मतम् ॥ २०१ ॥
अनुष्टुप्
genderक्लीneut.
मुक्ताभवः शुक्तिभवश्चाणिः शौक्तिक इत्यपि ।मौक्तिकं शौक्तिकेयं च विमलस्तार इत्यपि ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
शशिप्रियं बिन्दुफलं नक्षत्रं शौक्तिकं च तत् ।शंखवंशाब्दशुक्तीनामुदरेभ्यश्च योनयः ॥ ५९७ ॥
अनुष्टुप्
genderक्लीneut.
मौक्तिकं शौक्तिकं नाणकं नाटकंतोटकं खेटकं खं च लिङ्गं त्रिषु ।अङ्गपिङ्गप्रगं संप्रयोगं स्फिगंसर्वगं चोचवद्बीज-पिञ्जे द्विजम् ॥ ९५ ॥
स्रग्विणी
genderक्लीneut.
शुक्तिर्मौक्तिकमञ्जूषा मुक्तास्फोटोऽम्बुसूर्पिका ।मौक्तिकं शौक्तिकं मुक्ता स्वातिबिन्दुसमुद्भवम् ॥ २९९ ॥
अनुष्टुप्
genderक्लीneut.