कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पिङ्ग

piṅgaपुं · masc.

In 18 kośas: 21 synonym verses, 6 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1397 · p. 53
अरुणो बालसंध्याभः पीतरक्तस्तु पिञ्जरः ।कपिलः पिङ्गलः श्यावः पिशङ्गः कपिशो हरिः ॥ १३९६ ॥बभ्रुः कद्रुः कडारश्च पिङ्गे कृष्णस्तु मेचकः ।स्याद्रामः श्यामलः श्यामः कालो नीलोऽसितः शितिः ॥ १३९७ ॥
अनुष्टुप्
genderविadj.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र द्वित्रिचतुष्पञ्चेन्द्रियाः Abhidhānacintāmaṇipariśiṣṭa 4.6.182 · p. 7
महिषे कलुषः पिङ्गः कटाहो गद्गदस्वरः ।हेरम्बः स्कन्धशृङ्गश्च सिंहे तु स्यात्पलंकषः ॥ १८१ ॥शैगाटो वनराजश्च नभःक्रान्तो गणेश्वरः ।शृङ्गोष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः ॥ १८२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.16
कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.736 · p. 85
पिङ्गः पिशङ्ग इत्युक्तो बभ्रुः कपिलः पिङ्गलः ।सारङ्गः शबलो वर्णः कल्माषः कृष्णपाण्डुरः ॥ ७३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 लः (wrong syllable)
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.50 · p. 219
कट्वरश्चाथ षट्प्रज्ञः कामकेलिर्विदूषकः ।पिङ्गः पाठविकः पट्टो व्यलीको धूर्त इत्यपि ॥ ५० ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.47 · p. 322
मर्कः कुषाकुः पिङ्गाक्षः पिङ्गो ममर इत्यपि ।मन्दुराभूषणोऽपि स्यात्तद्भेदाः स्वल्पपुच्छकः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.167 · p. 435
बभ्रुः पिशङ्गः कपिलः कापिलः पीतलोहितः ।कडारः कपिशः पिङ्गः कद्रुश्चित्रस्तु कर्बुरः ॥ १६७ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.35 · p. 57
हरित्पीतरक्तैर्युतः स्यात्पिशङ्गोभवेदेष गोरोचनातुल्यवर्णः ।कदुः कद्रु-बभ्रू हरिः पिङ्गलः स्यात्प्रदीपार्च्चिषा तुल्यवर्णश्च पिङ्गः ॥ ३५ ॥
भुजङ्गप्रयातम्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.36 · p. 57
कडारः कपिलः पिङ्गः पिशङ्ग-कदु-कद्रवः ।बभ्रुर्हरिः[31] पिङ्गलश्च तुल्यार्था इति केचन ॥ ३६ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.45 · p. 192
वृषलोचन-सूच्यास्य-कर्व-गर्ताट-पापकाः ।नखी बिलेशयः पिङ्गो गन्धाखुः पुंवृषः स्मृतः [67b] ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.95 · p. 105
मौक्तिकं शौक्तिकं नाणकं नाटकंतोटकं खेटकं खं च लिङ्गं त्रिषु ।अङ्गपिङ्गप्रगं संप्रयोगं स्फिगंसर्वगं चोचवद्बीज-पिञ्जे द्विजम् ॥ ९५ ॥
स्रग्विणी
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.231 · p. 127
वालके जलकेशाख्यं बर्हिष्ठं दीर्घरोमकम् ।ह्रीबेरोदीच्यवज्रणि पिङ्गमाचमनं कचम् ॥ २३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ज्र (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.291 · p. 88
पिञ्जरः कपिलः पिङ्गपिशङ्गौ कपिशो हरिः ।कडारः श्यावबभ्रू च कद्रुरेतस्तु कर्बुरे ॥ २९१ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.155 · p. 21
कडारः कपिशः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ।चित्रकिर्मीरकल्माषशबलैतास्तु कर्बुरे ॥ १५५ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2316 · p. 375
लुलापो लालिकश्चैव लुलायश्च रजस्वलः ।वाहरिपुस्तथा पिङ्गुः पिङ्गश्च यमरथस्तथा ॥ २३१६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2536 · p. 411
पिशङ्गः पिङ्गलः पिङ्गः श्यावो बभ्रुस्तथा हरिः ।कडारश्चेति नामानि कथ्यन्ते कपिलस्य वै ॥ २५३६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.343 · p. 24
कृष्णलोहितमिश्रस्तु धूम्रो धूमल उच्यते ।कपिलः पिङ्गलः पिङ्गः पिशङ्गः कापिलो हरिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.18 · p. 250
पिङ्गः कपिलः कविलः, कृष्णे तु स्याम-श्यामलौ ।श्यामालश्च शिति-शिनी, रक्तश्यामे तु धूमलः ॥ १८ ॥
metre not recognised
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.889 · p. 111
पीतो हारिद्राभो गौरो हरितो हरिच्च पालाशाः ।श्यावः कपिशो धूमलधुम्रौ कृष्णारुणोऽथ पिङ्गः स्यात् ॥ ८८९ ॥
गीतिः
genderविadj.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 52 · p. 534
हरितांशेऽधिकेऽसौ तु पिशङ्गः पद्मधूलिवत् ।पिशङ्गस्त्वसितावेशात् पिङ्गो दीपशिखादिषु ॥
अनुष्टुप्
genderपुंmasc.
उत्पलिनी Utpalinī · व्याडि Utpalinī 42 · p. 47
उदीच्यां यक्षहेरम्बौ तौ च पिङ्गगजौ क्रमात् ।प्राच्यां तु रुद्ररेवन्तौ तौ दण्डिपुरुषौ क्रमात् ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ गान्ताः Koṣakalpataru 6.3.5 · p. 165
पिङ्गः पिशङ्गे त्रिषु तद्वति स्या-द्ध्रीबेरकेऽन्त्येऽथ शमी च पिङ्गी ।गो[263b]रोचनारामज्जनालिकोमा-संज्ञासु पिङ्गा समुदीरितात्र ॥ ५ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 6 म (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.768 · p. 108
पिङ्गो मण्डलिसर्पाणां प्रभेदे महिषे द्वयोः ।ना पिशङ्गाह्वये वर्ण ऋषिभेदे च सर्षपे ॥ ७६८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.769 · p. 108
पिशङ्गवर्णयुक्ते तु त्रि स्त्रियां पिङ्गलाह्वये ।पिङ्गा पक्ष्यन्तरे ब्रह्मरीतिसंज्ञे च लोहके ॥ ७६९ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.298 · p. 199
पिङ्गा गोरोचनागौर्योः पिङ्गं बालकपीतयोः ।पिण्डः सिह्ले जपापुष्पे वोलेऽपि कवलाङ्गयोः ॥ २९८ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र गद्विः Śivakoṣa 3.1.83 · p. 8
नागा पुत्रजनन्यां च नागं सीसकरङ्गयोः ।पिङ्गं तु वालके पिङ्गी शम्या पिङ्गा तु रामठे ॥ ८३ ॥
अनुष्टुप्
meaningsवालक
शब्दरत्नावली Śabdaratnāvalī · मथुरेश गान्ताः Śabdaratnāvalī 7.3.10 · p. 191
पिङ्गी शस्यां शिशौ क्लीबं पिशङ्गे तु पुमानयम् ।पुगो बृन्दे गुवाके च भावे कण्टकिभूरुहे ॥
अनुष्टुप्

पिङ्ग as a meaning in nānārtha verses

  • धरणिकोश हरिहरिर्वातांशुचन्द्रार्कशुकभेकयमाहिषु । विष्ण्विन्द्रकपिसिंहेषु पिङ्गपिष्टप्रभेदयोः ॥ Dharaṇikośa 26.3.19
  • धरणिकोश कपिलकपिलो मुनिभेदः स्यात्कपिलौ पिङ्गकुक्करौ । पुण्डरीकगजस्याख्या कपिला शिंशपा च गौः ॥ Dharaṇikośa 27.3.23
  • धरणिकोश पिङ्गलपिङ्गलो वानरे पिङ्गे भानोश्च पारिपार्श्वके । पिङ्गला कुमुदाख्यस्य दिङ्नागस्य च हस्तिनी ॥ Dharaṇikośa 27.3.25
  • कोषकल्पतरु कपिलशुनि मुनिभिदि वह्नौ पुंसि पिङ्गेऽन्यवत्स्या- त्कपिल इह तु योषिच्छिंशपागोभिदोश्च । अनलदिगिभनार्यां रेणुकायां तथाथ त्रिषु पटलमुशन्ति ह्यूर्ध्वभागे गृहाणाम् ॥ ९९ ॥ Koṣakalpataru 6.28.56
  • शब्दरत्नावली कपिशआदर्शः पुंसि टीकायां दर्पणे प्रतिपुस्तके । कपिशः सिह्लके पिङ्गे माधव्यां कपिशी स्त्रियाम् ॥ Śabdaratnāvalī 7.30.13