All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
लिङ्गसङ्ग्रहः · नपुंसकाधिकारः
॥ इति स्त्रीलिङ्गाधिकारः ॥
नपुंसके नाम-धनान्धकार-वियद्धृषीकाम्बुरुहाम्बु-खानाम् ।रत्नान्त्र-सूक्ताशुभ-पुण्य-दुःख-सुखान्न-गासृक्पिशिताशनानाम् ॥ ७० ॥
4.3.70 · p. 104
उपजातिः
चित्र-वस्त्र-घुसृणागरु-हिङ्गु-गूथ-पिच्छ-दल-तालु-हलानाम् ।तुत्थदृङ्मरिचहृन्नलदानांयुद्ध-सिध्म-यकृदस्थि-फलानाम् ॥ ८० ॥
4.3.80 · p. 104
स्वागता
शैलेय-सृक्कत्त्वचभेषजानांस्थानाञ्जन-द्वार-शुकच्छदानाम् ।ह्रीबेर-पुष्पान्तिक धन्व-वल्क-कुसुम्भ-कल्कौमक-पद्मकानाम् ॥ ८१ ॥
4.3.81 · p. 104
उपजातिः
व्यञ्जनलवण सुवर्ण-प्रमुखानां सप्तलोहानाम् ।नान्तं लान्तं स्त्वन्तं तान्तं त्रान्तं च सामान्तम् ॥ ८२ ॥
4.3.82 · p. 104
metre not recognised
संयुक्तररुपविरामं द्व्यच्कं सान्तं न वेधआद्यं यत् ।मन्नन्तमप्यकर्तरि भावे कृत्वा क्त आ[अ?]नश्च ॥ ८३ ॥
4.3.83 · p. 104
metre not recognised
भावे च खल् युज्ल्युडिनुण्विरामाआत्वात्तु भावे ढगणञ्वुयच्छाः ।त्वान्ताश्च वृन्दे त्वणञौ च वुञ्खौठञ्णश्छ[227b]यञ्यत्सहिताष्ठगन्ताः ॥ ८४ ॥
4.3.84 · p. 104
इन्द्रवज्राmetre not read in every line
देशे विधल्भक्तलन्ता उक्ताद्याः स्वार्थिकाण्युताः ।द्वंद्वैकत्वाव्ययीभावौ क्रियाव्ययविशेषणैः ॥ ८५ ॥
4.3.85 · p. 104
अनुष्टुप्
स्वार्थे शीघ्रादयोऽदन्तैस्त्वेकार्थः प्रायशो द्विगुः ।स्यात्कर्मधारये भूमो यदि संख्यापरो न सः ॥ ८६ ॥
4.3.86 · p. 104
अनुष्टुप्
संख्यापूर्वं रात्रं पथस्तु संख्याव्ययप्रथमः ।नञ्कर्मधारयान्यस्तत्पुरुषो वक्ष्यमाणेषु ॥ ८७ ॥
4.3.87 · p. 105
metre not recognised
उपज्ञोपक्रमान्तं स्यात्तदादित्वप्रकाशने ।पाणिन्युपज्ञं नन्दोपक्रममित्यादयो यथा ॥ ८८ ॥
4.3.88 · p. 105
अनुष्टुप्
षष्ठ्या भूम्नि च्छाया कन्था तूशीनराह्वायाम् ।संघातार्था च सभा स्त्रीसंघे स्त्रीसभं हि यथा ॥ ८९ ॥
4.3.89 · p. 105
उपगीतिः
राजवर्जितराजाह्वा राक्षसादिपरा च सा ॥ ९० ॥
4.3.90 · p. 105
भाद्गणः शशतस्तूर्णा स्थूणा तु गृहतः परा ।शतादिकादन्तसंख्या विशेषेण न बाधिता ॥ ९१ ॥
4.3.91 · p. 105
अनुष्टुप्
कुतुक-कुलक-तोकानूक-हल्लीसकानित्रिक-रुचक-बुकाल्कालीक-शालूक-शल्कम् ।[228a]चिबुक-किबुक धान्याकाह्निकैडूक-शौका-लिक-कुहकयुतं च क्लान्तकं निःशलाकम् ॥ ९२ ॥
4.3.92 · p. 105
मालिनी
आतपत्रे पुण्डरीकं मूर्ध्नि कं च प्रकीर्णकम् ।उल्मुकं तित्तिडीकोपसूर्यकं च कदम्बकम् ॥ ९३ ॥
4.3.93 · p. 105
अनुष्टुप्
रतर्द्धिकं माक्षिक-गैरिके चमार्द्वीकवत्पुष्पक-रूपके च ।स्याच्चित्रकं किं च विशेषकार्थंस्याच्छीर्षकं षद्गुतु( ? )कारकं च ॥ ९४ ॥
4.3.94 · p. 105
उपजातिः
मौक्तिकं शौक्तिकं नाणकं नाटकंतोटकं खेटकं खं च लिङ्गं त्रिषु ।अङ्गपिङ्गप्रगं संप्रयोगं स्फिगंसर्वगं चोचवद्बीज-पिञ्जे द्विजम् ॥ ९५ ॥
4.3.95 · p. 105
स्रग्विणी
परञ्जं कटु स्यादकार्येऽट्ट-कष्टेविधौ दिष्टमह्नो मुखे व्युष्टमुक्तम् ।गिरि म्लिष्टमिष्टं क्रतोः कर्मणि स्या-ल्ललाटं करोटं कृपीटं च रिष्टम् ॥ ९६ ॥
4.3.96 · p. 105
भुजङ्गप्रयातम्
चीनपिष्टं च शृङ्गाट स्यात्फाण्टं मोरटं पिटम् ।तिरीटं पृष्ठ-गोष्ठे च क्ष्वेडं धामार्गवार्थकम् ॥ ९७ ॥
4.3.97 · p. 106
अनुष्टुप्
भाण्डाण्ड-तुण्डानि च चक्रवाडंगूढं च तीक्ष्ण-ग्रहणेरणानि ।द्राणं पुराणं द्रविणं शणेर्णेकल्याण-पल्याण-निरूपणा[228b]नि ॥ ९८ ॥
4.3.98 · p. 106
इन्द्रवज्राmetre not read in every line
घ्राणं कार्मण-कारणोष्ण-लवण-श्रीपर्ण-पारायणंशिङ्घाणं शरण-प्रमाण-करणक्षुस्माणदौर्वीणवत् ।श्राणं कौङ्कण-पूरणे च हरिणं स्याद्धोरणं बृंहणंप्रादेशान्तनितान्तवृत्तसुरतामन्तानि भूतं तथा ॥ ९९ ॥
4.3.99 · p. 106
शार्दूलविक्रीडितम्
वार्तं दुरितं पृषत्तु बिन्दौजगन्महत्सूनृत जृम्भिते च ।अङ्गारितं यातु च शीतमत्या-हितं च वाहित्थवदुक्थ-गूथे ॥ १०० ॥
4.3.100 · p. 106
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 4 रि (wrong syllable)
वृन्दं [श्वा]पदमत्थ(?)दं च विरुदं चाच्छोद-तुन्दाङ्गदंगोर्दं गोद-कुसीद-मेद-कुसिदं तद्वत्ककुत्स्या*तम् ।आनद्धं मुरजादिकेषु तिमिरेऽन्धं वृद्धमप्यद्रिजे-ऽवष्टब्धं च महौषधं निगदितं तुल्यें ऽशकेऽर्धं तथा ॥ १ ॥
4.3.1 · p. 106
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
कुक्षौ कृत्स्नं वाद्यभेदे घनं स्याद्द्युम्नं चिह्नं निम्नमह्ना ललाम ।कुनं(?) रोम स्याद्दृशानं च पर्ववर्त्म प्रोक्तं सक्थि धन्व स्थले च ॥ २ ॥
4.3.2 · p. 106
शालिनीmetre not read in every linenearly शालिनी: pāda 1, syllable 1 कु (wrong syllable)
तल्पं शयने शिल्पंपुष्पं कूर्पं त्रिविष्टपं रूपम् ।अविचयरिपं(?) शुम्बंनिकुरम्बं स्यात्कुरुम्बशुल्बे च ॥ ३ ॥
4.3.3 · p. 106
metre not recognised
प्रसभं तलभं च[229a]भं च शुष्मंकिलिमं कृत्रिमतिग्मधाममीर्मम् ।तलिमं च तोक्म-युग्मेस्तोमं सूक्ष्मं विलोमवत्प्रदिष्टम् ॥ ४ ॥
4.3.4 · p. 107
metre not recognised
द्रुवयं भयं त्रिसंध्यंकिसलय-शयनीय-साय-खेयानि ।********इन्द्रिय-धान्ये लवङ्गके दिव्यम् ।धर्मं दानादिकेऽध्यात्मं सीम स्यादुपशल्यके ।अनुमत्यां तथा कामं पद्मं च गजबिन्दुषु ॥ ५ ॥
4.3.5 · p. 107
अनुष्टुप्metre not read in every line
चित्यं चैत्यं माल्यं गद्यं पद्यं कवेः काव्ये ।क्षेत्रं सत्रं शिबिरं स्फारमगारं कलत्रमभ्रं च ॥ ६ ॥
4.3.6 · p. 107
उद्गीतिः
सिन्दूर-दूरोदर-नागराणितीरोत्तर-प्रान्तर-चामराणि ।कटीर-वैरारर-पुष्कराणिमण्डूर-कुस्तुम्बुरु-चत्वराणि ॥ ७ ॥
4.3.7 · p. 107
उपजातिः
अक्षरमजिरमुशीरंचीवर-चीरे तथैव काश्मीरम् ।जर्जर-कुटीर-वल्लरकर्बुर-कादम्बरोशीरम् ॥ ८ ॥
4.3.8 · p. 107
metre not recognised
शालारमात्रे च कटित्र-मित्रेगोत्रं पतत्रं सशिलीन्ध्ररेत्रम् ।अग्रं तथोपह्णरशार्वराणिपुरं गृहेऽङ्गे खपुरं घटे च ॥ ९ ॥
4.3.9 · p. 107
उपजातिः
न्याय्ये वरं सारमजस्रवास्रेवीरं तथा भ्रामरमृक्षरं च ।उलूखलं गुग्गुलुवाच्यथौ[229b]र्वेपातालमुक्तं खलमप्यवन्याम् ॥ १० ॥
4.3.10 · p. 108
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 उ (wrong syllable)
आलु शलालु शयालुशयौ स्या-त्कम्बलमम्भसि वाससि चेलम् ।पिप्पलमम्बुनि चाम्बरभेदेब्रह्मतरौ गगनेऽपि च तूलम् ॥ ११ ॥
4.3.11 · p. 108
दोधकम्
शीवल-शीतल-शैवल-बालंनिर्मल-संकुल-पिञ्जल-मालम् ।दायुफलं सकुतूहल-फालंवार्दलपाकल-भास्मनतूलम् ॥ १२ ॥
4.3.12 · p. 108
दोधकम्
ताम्बूलकेवल-दलामलयुक्तमालंस्युश्चक्रवालहरितालमहाबलानि ।नाभीलवद्बिदलजाङ्गुलजङ्गलोल-माभीलवद्दलशले च महाबलं च ॥ १३ ॥
4.3.13 · p. 108
वसन्ततिलका
तत्त्वं सान्त्वं सत्त्वमजन्तौविश्वं किण्वं चार्तवजीवे ।बाहवयौतव-परिपेलवव-त्स्तवमपि मुस्तानाम्नि दिवं च ॥ १४ ॥
4.3.14 · p. 108
metre not recognised
विश्वं जगत्येव गणे च वाडवंद्वंद्वं समासेतरवाचकं तथा ।शम्यां तथा शीतशिवं प्रकीर्तितंध्रुवं तथा निश्चय-तर्कयोर्मतम् ॥ १५ ॥
4.3.15 · p. 108
upajati 12
अर्पिश-पलिश-नृशानिस्युः पीयूषं मिषं शीर्षम् ।किल्बिषमृजीषवीक्षा-नुतर्षमन्दाक्षमर्पिष वीषिः(?) ॥ १६ ॥
4.3.16 · p. 108
metre not recognised
[230a]कासीस-साध्वस-महानस-साहसानिमत्सं बिसं च तरसं यवसं तथैव ।पुण्याहवन्निगदितं सुदि[ना]हमुक्तम्
4.3.39 · p. 109
वसन्ततिलकाmetre not read in every line