कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Bālaprabodhikā

बालप्रबोधिका Bālaprabodhikā

357 verses · 2,901 words tagged · 725 marked doubtful (dashed)

एकादशोपदेशः

इति नत्कीरविरचितायां बालप्रबोधिकायां दशमोपदेशः ।

नाकुर्घनाघतः शैलो जीमूतः पर्वतोऽपि च ।सानुमान् दुर्धरो वज्रिदुर्गमो दुरतिक्रमः ॥ १८५ ॥
11.185 · p. 83
अनुष्टुप्
ककीलस्तु च कुक्कीलो गोत्रो गोत्रघरोपि च ।कूटस्तु शिखरं शृङ्गं प्रपातस्तु तटो भृगुः ॥ १८६ ॥
11.186 · p. 83
अनुष्टुप्
दरी गुहा नितम्बश्च कन्दरः कटकोऽपि च ।पाषाण उपलोऽश्मा च प्रस्तरश्च शिला मणिः ॥ १८७ ॥
11.187 · p. 83
अनुष्टुप्
गण्डशैलास्तु पाषाणाः स्थूला वप्रगता गिरेः ।उपत्यका त्वघोभूमिरद्रेरूर्ध्वमधित्यका ॥ १८८ ॥
11.188 · p. 83
अनुष्टुप्
कुडुङ्गोऽपि निकुञ्जोऽपि कुञ्जो वृक्षलतान्तरे ।आकरस्तु खनिर्गञ्जा रुमा तु लवणाकरः ॥ १८९ ॥
11.189 · p. 83
अनुष्टुप्
गैरिकोऽपि तथा तु स्यात्कुनटी तु मनः शिला ।रोचनी रञ्जनी हृद्या रसनेत्रा महारसा ॥ १९० ॥
11.190 · p. 83
अनुष्टुप्
करवीरकरा विद्युत् नागमागाहिगन्धिका ।शिला मनोभिधा कालनागजिह्वा च ताः समाः ॥ १९१ ॥
11.191 · p. 83
अनुष्टुप्
रुक्मं कार्तस्वरं स्वर्णं कल्याणं भर्म कर्बुरम् ।धामीकरं जातरूपं वसु स्याच्छातकुम्भवत् ॥ १९२ ॥
11.192 · p. 83
अनुष्टुप्
सुवर्णं कनकं सर्वजीवनं लोकसाधनम् ।शृङ्गारं लोकसामान्यं राजार्हं लोभमूलकम् ॥ १९३ ॥
11.193 · p. 83
अनुष्टुप्
काञ्जनं रसबीजं च वेधार्हं रसवेधजम् ।वेणूदरसमुद्भूते वैणवं कर्णकारकम् ॥ १९४ ॥
11.194 · p. 84
अनुष्टुप्
त्रापुषं रजतं रूप्यं … चन्द्रभीरुकम् ।सौधाशुभीरुकं शूद्रं रर्जूरं वङ्गजिह्वनम् ॥ १९५ ॥
11.195 · p. 84
अनुष्टुप्metre not read in every line
ताम्रं शुल्वं मर्कटाख्यं रक्तव्यष्टं कनीयसम् ।म्लेच्छं वरिष्ठं म्लेच्छास्यं श्रेष्टकाम्यमुदुम्बरम् ॥ १९६ ॥
11.196 · p. 84
अनुष्टुप्
पीतलोहस्तु रीतिः स्यादारकूटन्तु रोमणम् ।आरं पित्तलमित्युक्ते कांस्यं घण्टास्वनं विदुः ॥ १९७ ॥
11.197 · p. 84
अनुष्टुप्
अथ सीसं च योगेष्टं यवेष्टं भुजगाह्वयम् ।धूर्तं सिंहाणमण्डूर … यः कान्ते त्वयोमणिः ॥ १९८ ॥
11.198 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शोणोपलः सूर्यकान्ते चन्द्रकान्ते रसोपलः ।गारुत्मतं मरकतं अश्मगर्भं हरिन्मणिः ॥ १९९ ॥
11.199 · p. 84
अनुष्टुप्
शोणरत्नं रोहितकं पद्मरागोऽरुणोपलः ।लतारत्नं प्रवाले स्याद्वज्रो हीरक इत्यपि ॥ २०० ॥
11.200 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रो (wrong syllable)
इन्द्रनीलं महारत्नं वैडूर्यं वालदायजम् ।कुरुविन्दस्तु कुल्माषो मौक्तिकं शौक्तिकं मतम् ॥ २०१ ॥
11.201 · p. 84
अनुष्टुप्