कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तार

tāraक्ली · neut.

In 21 kośas: 39 synonym verses, 18 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.163 · p. 41
स्याद्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकंखर्जूरं च हिमांशुहंसकुमुदाभिख्यं सुवर्णं पुनः ।स्वर्णं हेमहिरण्यहाटकवसून्यष्टापदं काञ्चनंकल्याणं कनकं महारजनरैगाङ्गेयरुक्माण्यपि ॥ १०४३ ॥कलधौतलोहोत्तमवह्निबीजान्यपि गारुडं गैरिकजातरूपे ।तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरकर्बुराणि ॥ १०४४ ॥जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् ।
metre not recognised
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.42 · p. 53
षड्ज ऋषभगान्धारा मध्यमः पञ्चमस्तथा ।धैवतो निषधः सप्त तन्त्रीकण्ठोद्भवाः स्वराः ॥ १४०१ ॥ते मन्द्रमध्यताराः स्युरुरःकण्ठशिरोद्भवाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ऋ (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1409 · p. 53
तारोऽत्युच्चैर्ध्वनिर्मन्द्रो गम्भीरो मधुरः कलः ॥ १४०९ ॥
अनुष्टुप्metre not read in every line
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.2
काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे ।कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु ॥ २ ॥नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः ।स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.140 · p. 17
उच्चैस्तरो ध्वनिस्तारो मन्द्रो गम्भीर उच्यते ।कलश्च मधुरोऽव्यक्तो विक्रुष्टो निष्ठुरो मतः ॥ १४० ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.172 · p. 21
सीसकं सीसपत्रं स्याद्वङ्गं च मधुकं त्रपु ।रजतं कलधौतं च रूप्यं तारं च कथ्यते ॥ १७२ ॥
अनुष्टुप्
genderक्लीneut.
ज्योत्स्नी च ज्यौत्स्निका ज्योत्स्ना ज्योत्स्नावत्यां निशि स्थिताः ।तारकं तारका तारा तारं च परिकीर्त्यते ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.112 · p. 18
मुक्ताभवः शुक्तिभवश्चाणिः शौक्तिक इत्यपि ।मौक्तिकं शौक्तिकेयं च विमलस्तार इत्यपि ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.48 · p. 137
जारिर्जरिर्देवधान्यं धवलेतरतण्डुलः ।नक्षत्रकूरस्तारः स्याद्वृत्तो मौक्तिकतण्डुलः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.543 · p. 193
दुर्वर्णं पुंसि वा रूप्यं रूपं रौप्यं यवीयसम् ।तारं लोहं वसुश्रेष्ठं रजतं रुचिरं पुनः ॥ ५४३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.595 · p. 198
तारोऽस्त्रियां शुक्तिमणिः स्यात् पुंसि च रसोपलः ।क्लीबे मुक्ताफलं स्वच्छं बिन्दुरत्नं च मौक्तिकम् ॥ ५९५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.68 · p. 351
संतारः संतरस्तारोऽप्यथ दुस्तारदुस्तरौ ।काष्ठाम्बुवाहिनी द्रोणी द्रोणिर्द्रुणिरपि द्रुणी ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.4 · p. 417
धैवतोऽपि ललाटोऽत्थो निषादः सर्वसंधिजः ।स्युर्मन्द्रमध्यताराख्या ग्रामाः स्थानस्थितिप्रदाः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.12 · p. 75
काकली च स्त्रियौ मंज्ञो(द्रो?) गम्भीरोऽसावुरोभवः ।उच्चैस्तरः स तारः स्याच्छिरोभूर्द्वाविमौ त्रिषु ॥ १२ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.57 · p. 132
रूप्यं च कलधौतं च तारं श्वेतं हिमांशु च ।खर्जुरं च भवेद्धंसाह्वयं च कुमुदाह्वयम् ॥ ५७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वतस्त्रिलिङ्गाधिकारः Koṣakalpataru 4.7.89 · p. 118
genderपुंस्त्रीक्लीm. f. n.
नाममालिका Nāmamālikā · भोज गगनादिनामधेयप्रकरणम् Nāmamālikā 2.3 · p. 6
आकाशकुसुमं तारं कोरकं कारकण्टकम् ।निरकं निर्मलं संग्यं नक्षत्रेषु निगद्यते ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.19 · p. 10
पादभूषार्हकं तारं वैढिकं विमलं स्मृतम् ।आरकूटे तु रीतिः स्त्री सुवर्णवलिनं स्मृतम् ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.322 · p. 44
रूप्यं च रजतं तारं श्वेतं दुर्वर्णकं पुनः ।हिमांशुहंसकुमुदाभिख्यं खर्जूरमप्यथ ॥ ३२२ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.294 · p. 88
ऋषभो मध्यमः पञ्चमो निषादोऽथ धैवतः ।तद्भेदा मन्द्रमध्याख्यताराः स्थानादिभेदतः ॥ २९४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.301 · p. 89
क्षीजनं वंशजे शब्दे टुट्टुरो भेरिसंभवे ।तारोऽत्युच्चैर्ध्वनिर्मन्द्रो गम्भीरो मधुरः कलः ॥ ३०१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.106 · p. 224
कनीनिकाभयोस्तारो मेरुजम्ब्वां सुदर्शना ।तरणिस्तु समुद्रार्कयष्ट्यंशुषु तथैव च ॥ १०६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.247 · p. 17
रूप्यं श्वेतम् दर्पणकं रजतं तारशुक्लगू ।उदुम्बरं म्लेच्छमुखं वरिष्ठं शुल्बताम्रके ॥ २४७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण भूम्यधिकारस्तृतीयस्सर्गः Śabdacandrikā 3.15 · p. 39
दुर्वर्णं तारकं तारं वैरिकं पादभूषणम् ।शुक्तिस्मृतं वज्रगर्भं चन्द्रभीरु निगद्यते ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.174 · p. 19
अष्टापदं भूरिचन्द्रो महारजतभूत्तमे ।दुर्वर्णं रजतं रूप्यं तारं खर्जूरमित्यपि ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संगीतवर्गः Śāradīyākhyanāmamālā 2.3.106 · p. 30
द्रुतं विलम्बितं मध्यमिति गीते त्रयो लयाः ।ग्रामा घोरमन्द्रतारास्तालाश्च चपुटादयः ॥ १०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1803 · p. 295
हंसाह्वयं हिमांशुश्च वङ्गं चन्द्राह्वयं वसु ।कलधौतं तथा तारं भीरुकं कुमुदाह्वयम् ॥ १८०३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2546 · p. 412
उरोजातः स्वरो मन्द्रो मध्यः कण्ठज उच्यते ।तारो मस्तकजः प्रोक्तः स्वरज्ञैः पण्डितर्जनैः ॥ २५४६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2558 · p. 414
क्षीजनं कीचकानां स्याद् भेर्या नादस्तु दद्रुरः ।तथाऽत्युच्चैर्ध्वनिस्तारः कथ्यते पण्डितैः किल ॥ २५५८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.210 · p. 15
तारकं तारका तारा नक्षत्रमुडु वा स्त्रियाम् ।भमृक्षं ज्योतिधिष्ण्यञ्च तारमित्यपि कुत्रचित् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.410 · p. 29
सूक्ष्मे कले काकली स्यात् कलः सुमधुरध्वनौ ।मन्द्रो गम्भीरेऽत्युच्चे तु तारस्त्रिषु कलादयः ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 रेऽ (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शब्दाध्यायः Śabdaratnākara 1.7.229 · p. 31
उच्चैःस्वरो ध्वनिस्तारः कलस्तु मधुरास्फुटः ।मन्द्रस्त्वत्यन्तगम्भीरस्त्रयोऽमी तद्वति त्रिषु ॥ २२९ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.662 · p. 85
तारो वराङ्गना ताली राजताल्यथ केतकी ।केतकोऽपि रजःपुष्पः स्त्रीप्रियः सर्पवेष्टितः ॥ ६६२ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात ॐ Tantrābhidhāna 2.1.1 · p. 5
ओङ्कारो वर्त्तुलस्तारो वामश्च हंसकारणम् ।मन्त्राद्यः प्रणवः सत्यं बिन्दुशक्तिस्त्रिदैवतम् ॥ १ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.2 · p. 35
ध्रुवस्तारस्त्रिवृद्ब्रह्म वेदाद्य(दि)स्तारकोव्ययः ।प्रणवश्च त्रिमात्रोऽपि ओङ्कारो ज्योतिरादिमः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.1 · p. 41
ध्रुवस्तारस्तथौङ्कारो मूलज्योतिः शिवोऽव्ययः ।वेदाद्यस्तारकोऽव्यक्तः शाखादिः प्रणवः स्मृतः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
ॐकारो वर्तुलस्तारो बिन्दुशक्तिस्त्रितत्त्वकम् ।प्रणवश्चन्द्र साद्यश्च पञ्चदेवो ध्रुवस्त्रिकः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.13 · p. 32
गंभीरे मन्द्र उच्चे तु तारो रम्यास्फुटे कलः ।समाहितस्तु निर्दोषवर्णे दोषयुताः परे ॥ १३ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.233 · p. 102
प्रयुक्तं धारणाद्येतत्त्रयमेकत्र संयमः ।ओंकारः प्रणवस्तारस्तारकं सर्वविन्मतिः ॥ २३३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.316
मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु ॥ १६६ ॥कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः ।
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.798 · p. 92
तेजस्यपि धाम स्यादाधारेऽप्याशयो घटा गोष्ठ्याम् ।कुल्या कुलस्त्रियामपि तारो मुक्तागुणेऽप्युक्तः ॥ ७९८ ॥
metre not recognised
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.24 · p. 182
तारोऽत्युच्चध्वनितरणयोः कीशमुक्ताविशुद्ध्यो-स्तारो रूप्ये स्फुरितकिरणे निर्मले तारमाहुः ।तारा ऋक्षे नयनकनिका बुद्धदेव्यां च तारातारा प्रोक्ता धिषणवनिता चापि सुग्रीवपत्नी ॥
मन्दाक्रान्ता
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.112 · p. 473
भकनीनिकयोस्तारो वराटो रज्जुशस्त्रयोः ।भेऽश्लेषहस्तश्रवणाः मेरुजम्ब्वां सुदर्शनः ॥ ११२ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.10 · p. 304
ना कुब्जवृक्षे गिरिशेऽथ षण्ढेमद्यस्य पात्रे परिकीर्तितश्च ।मुक्तादिशुद्धौ तरणे च तारःसन्मौक्तिके भे तु कनीनिकायाम् ॥ १० ॥
इन्द्रवज्रा
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.11 · p. 304
त्रये द्वयोनो रजते स्त्रियां तुस्याद्बुद्धदेव्यां धिषणाङ्गनायाम् ।सुग्रीवनार्यां परवत्पुनः स्या-दुच्चस्वरे भप्रभवेऽपि तद्वत् ॥ ११ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.523 · p. 87
अत्रोक्तस्थावराणां स्यात् कांस्यताल्यां तु तत् त्रये ।तारस्तु शुद्धमुक्तायां मुक्ताशुद्धौ च तारणे ॥ ५२३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.524 · p. 87
रदेऽपि सज्जनः प्राह तारा तु स्यान्नरस्त्रियोः ।नक्षत्रे नेत्रमध्ये च रजते तु नृशण्डयोः ॥ ५२४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.525 · p. 87
त्रिषु तूच्चैस्तरे शब्दे विशदेऽप्यथ पङ्कजे ।प्रणवे च नपि स्त्री तु तारा योषिति वालिनः ॥ ५२५ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तकारादयः Paramānandīyanāmamālā 5.15.218 · p. 190
तारा सुरगुरोः पत्नी बुद्धसुग्रीवपत्न्यपि ।तारं रूप्ये प्रधानेऽपि तारा नेत्रकनीनिका ॥ २१८ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तकारादयः Paramānandīyanāmamālā 5.15.219 · p. 190
नक्षत्रेऽथ मतस्तारः स्वरभेदे च मौक्तिके ।तन्त्रं शास्त्रे वशे वायसाधने सिद्धभेषजे ॥ २१९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.14 · p. 266
तारस्त्रिषूच्चनिनादमुक्तार्कशुद्धमुक्तयोः (?) ।ऋक्षाक्षिमध्ययोर्न ना रजते च नपुंसकम् ।स्त्रियां बुद्धदेवतायां वालिदेवगुरुस्त्रियोः ।ताम्रन्तु शुल्वारुणयोर्दरोऽस्त्रीभयगर्त्तयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्न (wrong syllable); pāda 3, syllable 4 द्ध (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1929 · p. 235
द्वारबन्धनयन्त्रे च वाद्यभेदे विलम्बिते ।कुञ्चिकायां च तारस्तु मुक्ताशुद्धावुडौ न ना ॥ १९२९ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1930 · p. 235
दृङ्मध्यरज्जुसुग्रीवजायासु स्त्री त्रिषूज्ज्वले ।तन्त्रं स्यादौषधे शास्त्रराष्ट्रचिन्तानवाम्बरे ॥ १९३० ॥
अनुष्टुप्
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.352 · p. 214
नदप्रभेदे वाद्ये च झर्झरोऽथ गुणध्वनौ ।प्रसिद्धावपि टङ्कारस्तारोऽत्युच्चस्वरे त्रिषु ॥ ३५२ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.353 · p. 215
तारिण्यङ्गदमात्रोः स्त्री न ना ऋक्षाक्षिमध्ययोः ।दृग्रोगे तिमिरं ध्वान्ते तोत्रे प्राजनवेणुके ॥ ३५३ ॥
अनुष्टुप्
उत्पलिनी Utpalinī · व्याडि Utpalinī 60 · p. 51
नक्षत्रे नेत्रमध्ये च तारा स्यात् तार इत्यपि ॥ ६० ॥
meanings
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.36 · p. 233
क्ली तुल्यदेशे तारस्तु मुक्ताशुद्धौ सुमौक्तिके ।उडुदृङ्मध्ययोरक्ली तुच्छं त्वसुखशून्ययोः ॥ ३६ ॥
अनुष्टुप्

तार as a meaning in nānārtha verses

  • धरणिकोश दधिवधूर्नवोढयोषायां स्नुषाभार्याङ्गनासु च । दधि क्षीरोद्भवं वस्तु तारे दधि च वासके ॥ Dharaṇikośa 18.2.3
  • कोषकल्पतरु रूप्यतारे तथा हेमनि चाहते स्यात् प्रशस्तरूपे तु विशेष्यलिङ्गम् । इभ्यस्तथाढ्ये त्रिषु, सल्लकीभ्यः स्त्रियां च लभ्यं तु किलोचिते स्यात् ॥ ३९ ॥ Koṣakalpataru 6.26.39
  • परमानन्दीयनाममाला कलधौतकलधौतं कलध्वाने तारकाञ्चनयोस्तथा । कालस्कन्धो जीवकद्रौ तमाले तिन्दुके पुनः ॥ १३५ ॥ Paramānandīyanāmamālā 5.7.135
  • तन्त्राभिधान ओंओङ्कारः प्रणवो ध्रुवश्च गिरिजे! तारश्च वेदादिको ह्रीं लज्जा गिरिजा च शक्तिरपि हृल्लेखा च माया परा । श्रींकारः कमला च विष्णुवनिता क्रोङ्कारबीजं शृणिः स्वाहा वह्निवधूः शिरोऽपि ठयुगं फट्कारमस्त्राक्षरम् ॥ ३२ ॥ Tantrābhidhāna 1.32