नक्षत्र
nakṣatraक्ली · neut.In 23 kośas: 24 synonym verses, 49 as a meaning of another word.
ज्योतिष्काः पञ्च चन्द्रार्कग्रहनक्षत्रतारकाः ।
अनुष्टुप्
genderक्लीneut.
नक्षत्रं तारका ताराज्योतिषी भमुडु ग्रहः ॥ १०७ ॥धिष्ण्यमृक्षमथाश्विन्यश्वकिनी दस्रदेवता ।अश्वयुग्वालिनी चाथ भरणी यमदेवता ॥ १०८ ॥
अनुष्टुप्
genderक्लीneut.
नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम् ।
अनुष्टुप्
genderक्लीneut.
भं नक्षत्रं तारकं तारका च,ज्योतिस्तारा धिष्ण्यमृक्षं तथोडु ।पुष्यस्तिष्यः स्याद्धनिष्ठा श्रविष्ठा,दाक्षायण्यः कीर्तिताश्चन्द्रदाराः ॥ ५१ ॥
शालिनी
genderक्लीneut.
ताराभं रात्रिजं धिष्ण्यं न ना नक्षत्रमित्यपि ।कुजारमङ्गलाङ्गाराः लोहिताङ्गो धरासुतः ॥ ४५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
धिष्ण्यं भमर्क्षनक्षत्रं तारका इति गद्यते ।
genderक्लीneut.
सप्तविंशति नक्षत्रं धिष्ण्यर्क्षोडुश्व कथ्यते ।दंता रदाश्च द्वात्रिंशत्संज्ञोक्ता मुनिसम्मतम् ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
तथैव प्रतिपन्मिश्रा सामावास्या कुहूः स्मृता ।नक्षत्रमृक्षभंप्रोक्तं प्रस्तावाद्राशिसंयुतम् ॥ ९८ ॥
अनुष्टुप्
genderक्लीneut.
तारा भं रात्रिजं भानुभीरु नक्षत्रमित्यपि ।नभोबीजं चन्द्रबिन्दुधिष्ण्यं सन्नुडुतारकम् ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
शशिप्रियं बिन्दुफलं नक्षत्रं शौक्तिकं च तत् ।शंखवंशाब्दशुक्तीनामुदरेभ्यश्च योनयः ॥ ५९७ ॥
अनुष्टुप्
genderक्लीneut.
विह्वलार्थं तु नीहारो वश्योऽवश्याय इत्यपि ।नक्षत्रं तारका तारा न पुमानुडु वा स्त्रियाम् ॥ १८१ ॥
अनुष्टुप्
genderक्लीneut.
भं नक्षत्रं धिष्ण्यमृक्षं तारावत्तारका त्रिषु ।न पुंस्युडु ग्रहोऽथ स्यात्तज्जे नाक्षत्रभे त्रिषु ॥ ७८-७९ ॥
अनुष्टुप्
genderक्लीneut.
उडूनि भानि तारर्क्षं नक्षत्रम् तत्पतिः निशा ।क्षणदा रजनी नक्तं दोषा श्यामा क्षिपाकरः ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
कला च षोडशो भागस्तारकाभोडवः पुनः ।नक्षत्रज्योतिषी धिष्ण्यं ग्रहऋक्षेऽप्यथाश्विनी ॥ १०३ ॥
अनुष्टुप्
genderक्लीneut.
हिमानी हिमराशौ स्यात्तद्गुणे सुष(षि?)मो जडः ।भं नक्षत्रं तारकं च तारका धिष्ण्यमुन्नतम् ॥ १२० ॥
अनुष्टुप्
genderक्लीneut.
नक्षत्रं तारका तारा भमृक्षमुडुरत्निका ।मङ्गलो भूमितनयो रक्ताङ्गो मेषवाहनः ॥ ३१९ ॥
अनुष्टुप्
genderक्लीneut.
चन्द्रिका गोमती ज्योत्स्ना बण्णला पथिकानलः ।नक्षत्रं रात्रिजं धिष्ण्यं तारकं रकमित्यपि ।आकाशकुसुमं बिन्दुर्भानुभीरुर्निगद्यते ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
नक्षत्रमृक्षं भं धिष्ण्यं तारा ज्योतिरुडुर्ग्रहः ।मयूखः किरणो भानुर्मरीचिर्दीधितिः करः ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
चन्द्रा अर्का ग्रहाश्चैवं नक्षत्राणि च तारकाः ।ज्योतिष्का देवताः पञ्च विश्वे विश्वप्रकाशकाः ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
नक्षत्रं तारका तारा ज्योतिषी भमुडुर्ग्रहः ।धिष्ण्यमृक्षं नवैव स्युरन्तर्भेदोऽपि ज्ञायताम् ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पि (wrong syllable)
genderक्लीneut.
तारकं तारका तारा नक्षत्रमुडु वा स्त्रियाम् ।भमृक्षं ज्योतिधिष्ण्यञ्च तारमित्यपि कुत्रचित् ॥
अनुष्टुप्
genderक्लीneut.
केतवो ब्रह्मपुत्राः स्युर्विकचा धूमजाश्च ते ।नक्षत्रमृक्षं भं ज्योतिः सन्ति तारोडुतारकाः ॥ १८८ ॥
अनुष्टुप्
genderक्लीneut.
राहुस्तु ग्रहकल्लोलः केतवः शिखिनः समाः ।समे नक्षत्रधिष्ण्ये द्वे दाक्षायण्योऽश्विनीमुखाः ॥ १७५८ ॥
अनुष्टुप्
genderक्लीneut.
तारा भं रात्रिजं धिष्ण्यं सन्नक्षत्रमुडुर्न ना ।मृगशीर्षं मृगशिरो मार्गायण्याग्रहायणी ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
नक्षत्र as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् हस्तहस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ । Amarakośa 3.3.116
- धरणिकोश स्वातिमाता गवि जनन्यां च ब्राह्मण्याद्याश्च मातरः । स्वातिर्देवप्रिया ख्याता स्वातिर्नक्षत्रखड्गयोः ॥ Dharaṇikośa 15.2.9
- कोषकल्पतरु विशाखावैशाखः पाखण्डे मन्थे मासप्रभेदे च । नक्षत्रे तु विशाखा क्लीबे गन्धे च गेहे च ॥ ८४ ॥ Koṣakalpataru 6.2.84
- कोषकल्पतरु भभृगुजे भो भा तु रुचौ भं नक्षत्रे भूर्भुवि स्थाने ॥ ३८ ॥ Koṣakalpataru 6.24.38
- नानार्थार्णवसंक्षेप खअथ क्लीबे खमाकाशे स्वर्गे छिद्रे गृहेऽभ्रके । नक्षत्रेन्द्रिययोर्ब्रह्मण्यथ हृच्चित्तवक्षसोः ॥ १ ॥ Nānārthārṇavasaṃkṣepa 1.3.1
- नानार्थार्णवसंक्षेप भसर्वेषु पूर्वोक्तार्थेष्वित्येवं प्राक्छब्द ईरितः । मेषादिराशौ नक्षत्रे वैयाकरणसंज्ञिनि ॥ १५ ॥ Nānārthārṇavasaṃkṣepa 1.5.15
- नानार्थार्णवसंक्षेप सत्शब्देऽपि कश्चित् सच्छब्दस्तस्य लिङ्गं विचार्यताम् । सज्जनस्त्वेनमाम्नासीन्नक्षत्रे तन्नपुंसकम् ॥ २२ ॥ Nānārthārṇavasaṃkṣepa 1.5.22
- नानार्थार्णवसंक्षेप क्षेत्रक्षेत्रं पृथिव्यामाकाशे शरीरे योनिवृन्दयोः । केदारदारागारेषु नक्षत्रे पुरि राशिषु ॥ १९ ॥ Nānārthārṇavasaṃkṣepa 2.3.19
- नानार्थार्णवसंक्षेप अश्विनीअश्वी त्वश्ववति त्रि स्याद् धनूराशौ तु पुंस्ययम् । दस्रयोश्चाश्विनी तु स्त्री नक्षत्रेऽश्वयुगाह्वये ॥ ६२ ॥ Nānārthārṇavasaṃkṣepa 2.5.62
- नानार्थार्णवसंक्षेप उडुउडुर्विप्रे द्वयोर्नप्स्त्री नक्षत्रेऽथो उरु त्रिषु । बृहत्युर्वी(तु?ति) तत्रापि स्त्र्यर्थे वा स्यादथ स्त्रियाम् ॥ १०२ ॥ Nānārthārṇavasaṃkṣepa 2.5.102
- नानार्थार्णवसंक्षेप ऋक्षऋक्षो द्वयोरच्छभल्ले गुण्डवृक्षे तु नाथ नप् । नक्षत्रेऽन्ये त्विन्द्रियेऽपि प्राहुर्निर्लोम्नि तु त्रिषु ॥ ११६ ॥ Nānārthārṇavasaṃkṣepa 2.5.116
- नानार्थार्णवसंक्षेप चित्रागोदुम्बाख्यलताजातौ सुभद्राधुनिभेदयोः । वेदशालिमुखे चापि नक्षत्रे चन्द्रदैवते ॥ ४१९ ॥ Nānārthārṇavasaṃkṣepa 2.5.419
- नानार्थार्णवसंक्षेप ज्योतिस्ज्योतिरात्मनि सूर्येऽग्नौ हविर्होमार्चिदीप्तिषु । ग्रहनक्षत्रतारासु नक्षत्रेऽपि विशेषतः ॥ ४९३ ॥ Nānārthārṇavasaṃkṣepa 2.5.493
- नानार्थार्णवसंक्षेप तारारदेऽपि सज्जनः प्राह तारा तु स्यान्नरस्त्रियोः । नक्षत्रे नेत्रमध्ये च रजते तु नृशण्डयोः ॥ ५२४ ॥ Nānārthārṇavasaṃkṣepa 2.5.524
- नानार्थार्णवसंक्षेप धिष्ण्यशुक्राङ्गारकयोः क्ली तु नक्षत्रे स्थानगेहयोः । अजयस्तु बलेऽप्येतत् स्वनिघण्टावचीकृतत् ॥ ६४६ ॥ Nānārthārṇavasaṃkṣepa 2.5.646
- नानार्थार्णवसंक्षेप मूलनक्षत्रभेदे पादे च भूरुहाणां वशीकृतौ । स्वीये च कारणे चाथ मूल्यं वेतनवस्नयोः ॥ १०१३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1013
- नानार्थार्णवसंक्षेप अश्वत्थअश्विनीसंज्ञनक्षत्रे स्यान्मुहूर्तान्तरेऽपि च । पौर्णमास्यां त्वाश्वयुज्यामश्वत्था स्यात् स्त्रियामियम् ॥ ६४ ॥ Nānārthārṇavasaṃkṣepa 4.64
- नानार्थार्णवसंक्षेप आश्लेषापुमानथ स्यादाश्लेषा नक्षत्रे सर्पदैवते । स्त्रीणां त्वालिङ्गनेऽथ स्यादास्फोता स्त्री वनोद्भवे ॥ १७६ ॥ Nānārthārṇavasaṃkṣepa 4.176
- नानार्थार्णवसंक्षेप तारकतारका त्वपुमानक्षितारानक्षत्रयोस्तथा । दैत्यभेदे तु ना क्ली तु तारकं सर्वविन्मतौ ॥ ८४५ ॥ Nānārthārṇavasaṃkṣepa 4.845
- नानार्थार्णवसंक्षेप भरणीक्रयादेर्भृणातेः स्यात् स्त्री तु नक्षत्रे यमदैवते । भरणी भूम्नि च प्राहुरन्येऽथो भल्लको द्वयोः ॥ १२६८ ॥ Nānārthārṇavasaṃkṣepa 4.1268
- नानार्थार्णवसंक्षेप पुनर्वसुपुनर्वसुर्वररुचौ पुमान्नारायणे तथा । अदितेस्त्वपि नक्षत्रे द्विवचोन्तः पुनर्वसू ॥ ४०० ॥ Nānārthārṇavasaṃkṣepa 6.400
- नानार्थार्णवसंक्षेप मृगशीर्षमृगशीर्षं पुनः क्लीबं नक्षत्रे सोमदेवते । पूर्ववत् स्यात् समासादि द्वयोस्तु स्यान्मृगादनः ॥ ५०५ ॥ Nānārthārṇavasaṃkṣepa 6.505
- नानार्थार्णवसंक्षेप मृगशिरस्अत्रापि पूर्ववत् सादि क्लीबे मृगशिरो भवेत् । मृगशीर्षाख्यनक्षत्रे तत्र जाते त्रिषु स्मृतम् ॥ ५०७ ॥ Nānārthārṇavasaṃkṣepa 6.507
- परमानन्दीयनाममाला ऋक्षऋतिः स्पर्धाघृणादेवमातृष्वपि गतावृतिः । ऋणं दुर्गे जले देये ऋक्षं नक्षत्रवाचकम् ॥ ७७ ॥ Paramānandīyanāmamālā 5.4.77
- परमानन्दीयनाममाला काव्यसमयेऽपि महाकाले काव्यो नक्षत्रशुक्रयोः । काव्याथ पूतनाबुद्ध्योः काव्यं ग्रन्थेऽपि कथ्यते ॥ ९६ ॥ Paramānandīyanāmamālā 5.7.96
- परमानन्दीयनाममाला ज्येष्ठाज्येष्ठो मासेऽग्रजे पूज्ये ज्येष्ठा स्थाद्गृहगोधिका । नक्षत्रेऽप्यौषधीभेदे जनो लोके पृथग्जने ॥ १९४ ॥ Paramānandīyanāmamālā 5.13.194
- परमानन्दीयनाममाला ज्योतिस्ज्योतिर्वह्नौ दिवानाथे नक्षत्रेऽक्षिप्रकाशयोः । जातिर्गोत्रामलक्योः स्याज्जन्मसामान्ययोरपि ॥ १९८ ॥ Paramānandīyanāmamālā 5.13.198
- परमानन्दीयनाममाला तारनक्षत्रेऽथ मतस्तारः स्वरभेदे च मौक्तिके । तन्त्रं शास्त्रे वशे वायसाधने सिद्धभेषजे ॥ २१९ ॥ Paramānandīyanāmamālā 5.15.219
- परमानन्दीयनाममाला तारकनक्षत्रेऽथासुरे नाविके च तारक उच्यते । त्रिशङ्कुर्नृपभेदे च बिडाले शलभे तथा ॥ २३१ ॥ Paramānandīyanāmamālā 5.15.231
- परमानन्दीयनाममाला धिष्ण्यधिष्ण्यं रश्मौ गृहे स्थाने वह्नौ नक्षत्रशुक्रयोः । धात्री क्षोण्यामलक्योश्च धातक्यामुपमातरि ॥ २५४ ॥ Paramānandīyanāmamālā 5.17.254
- शब्दरत्नावली तारकतक्षकः स्यान्नागराजे विश्वकर्मणि बर्धकौ । तारकः स्यात् कर्णधारे देत्ये ना न द्वयोर्हसि(?) । कणीनिकायां नक्षत्रे न पुमान् त्रातरि त्रिषु ॥ Śabdaratnāvalī 7.1.83
- शब्दरत्नावली सूतसूतः स्याद्वाहनणक्षत्रसुतपारदयोरपि । प्रसूते प्रेरिते तक्ष्णि नन्दिसारथिवन्दिषु ॥ Śabdaratnāvalī 7.16.68
- शब्दरत्नावली तिष्यजया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः । पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥ जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् । जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥ वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु । जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥ तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे । पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥ तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् । द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥ Śabdaratnāvalī 7.26.17
- शब्दरत्नावली चित्राकुम्भकारोपकरणे क्लीबं ना चक्रवाकके । चारो गतौ पियालद्रुबन्धापसर्पणेषु च ॥ चित्रा नक्षत्र गोडुम्बा नदी भिद्दन्तिकासु च । मायासर्पाखुपर्णीषु नाडीसुभद्रयोः स्त्रियाम् ॥ आलेख्यतिलकाश्चर्यकर्बुरेषु च न द्वयोः । चीरं वस्त्रान्तरे रेखागोस्तनलेखनेषु च ॥ Śabdaratnāvalī 7.27.11
- शब्दरत्नावली ऋक्षऋषिर्वेदे वशिष्ठादौ दीधितौ मत्स्यरूपिणि । ऋक्षं कैतवनक्षत्रधनेष्वपि नपुंसकम् ॥ Śabdaratnāvalī 7.31.4
- शब्दरत्नाकर ज्येष्ठाज्येष्ठा त्वलक्ष्मीर्नक्षत्रज्यायसी गृहगोलिका । जातिर्जन्मनि मालत्यां सामान्ये ब्राह्मणादिके ॥ १९२६ ॥ Śabdaratnākara 4.1.1926
- शब्दरत्नाकर मृगमृगस्तु हरिणे सौम्ये नक्षत्रेऽन्वेषणे गजे । मार्गो मृगशिरोमासान्वेषणाध्वसु याचने ॥ १९८१ ॥ Śabdaratnākara 4.1.1981
- शब्दरत्नाकर तारकतरणिः स्त्री हविर्मन्थे नावि पुंसि तु भास्करे । दृङ्मध्ये स्त्री पुमान् दैत्ये नक्षत्रे तारकं न ना ॥ २०९६ ॥ Śabdaratnākara 4.1.2096
- शब्दरत्नाकर रोहिणीनक्षत्रे कटुरोहिण्यां कन्यायां गवि रोहिणी । रुचको मातुलुङ्गे स्याद्भूषणे रदने मणौ ॥ २१५६ ॥ Śabdaratnākara 4.1.2156
- शब्दरत्नाकर विशाखापुंनपुंसकयोर्व्योम्नि विहायः पुंसि पक्षिणि । नक्षत्रे च खनित्र्यां च विशाखा षण्मुखे पुमान् ॥ २१७० ॥ Śabdaratnākara 4.1.2170
- तन्त्राभिधान भनक्षत्रं भ्रमणा दीप्तिर्व(र्भू)यो भूमिः पयो नभः । नाभिर्भद्रं महाबाहुर्विश्वमूर्तिर्विभा(तु)ण्डकः ॥ १३३ ॥ Tantrābhidhāna 2.41.133
- तन्त्राभिधान भवक्षःस्थले च बः प्रोक्तो गदायां समुदाहृतः । नक्षत्रं भं बुधैः प्रोक्तं भ्रमरे भः प्रकीर्त्तितः ॥ २६ ॥ Tantrābhidhāna 3.26
- त्रिकाण्डशेष रोहिणीनक्षत्रे रोहितायां च रणः क्वणनयुद्धयोः । लक्ष्मणा सारसी दाशरथिः श्रीमांश्च लक्ष्मणः ॥ १३७ ॥ Trikāṇḍaśeṣa 3.3.137
- त्रिकाण्डशेष ऋक्षभल्लूके शोणके चक्षो नक्षत्रे पुंनपुंसकम् । ऋषिर्वेदेऽपि कक्षस्तु दोर्मूले शुष्ककानने ॥ ४३६ ॥ Trikāṇḍaśeṣa 3.3.436
- उत्पलिनी तारानक्षत्रे नेत्रमध्ये च तारा स्यात् तार इत्यपि ॥ ६० ॥ Utpalinī 60
- वैजयन्ती भासन्तपृथुकश्चिपिटे बाले पृदाकुर्व्याघ्रसर्पयोः । भासन्तावर्कनक्षत्रे सूर्यश्चाग्निश्च भास्करौ ॥ ५८ ॥ Vaijayantī 7.1.58
- वैजयन्ती रोहिणीपथ्यायां गव्युमाकन्यालोहिनीषु च रोहिणी । नक्षत्रे कण्ठरोगे च वर्तनी वृत्तिमार्गयोः ॥ २१ ॥ Vaijayantī 7.2.21
- वैजयन्ती तारकान नाक्षिमध्ये नक्षत्रे द्विजिह्वौ सूचकोरगौ । दुर्वर्णं दुष्प्रभे रूप्ये देयभेदे तु दक्षिणा ॥ ४५ ॥ Vaijayantī 7.5.45
- वैजयन्ती खखमिन्द्रिये दिवि व्योम्नि रन्ध्रनक्षत्रयोरपि । Vaijayantī 8.3.21