कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुल्माष

kulmāṣaपुं · masc.

In 19 kośas: 30 synonym verses, 7 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.92 · p. 20
काञ्चिकं काञ्जिकं धान्याम्लारनाले तुषोदकम् ।कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ॥ ४१५ ॥चुक्रं धातुघ्नमुन्नाहं रक्षोघ्नं कुण्डगोलकम् ।महारसं सुवीराम्लं सौवीरं म्रक्षणं पुनः ॥ ४१६ ॥तैलं स्नेहोऽभ्यञ्जनं च वेषवार उपस्करः ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1175 · p. 46
आढकी तुवरी वर्णा स्यात्कुल्माषस्तु यावकः ॥ ११७५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर तिर्यक्काण्डः Abhidhānacintāmaśiloñcha 4.45 · p. 4
कुल्मासवत्कुल्माषोऽपि गवेधुका गवीधुका ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 धु (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.18
स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.39
आरनालकसौवीरकुल्माषाभिषुतानि च ।अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर एकादशोपदेशः Bālaprabodhikā 11.201 · p. 84
इन्द्रनीलं महारत्नं वैडूर्यं वालदायजम् ।कुरुविन्दस्तु कुल्माषो मौक्तिकं शौक्तिकं मतम् ॥ २०१ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.268 · p. 90
भङ्गः स्यान्मातुला … ।महासो दीर्घशूकः स्यात्स्वरूडश्च पवित्रकः ।यवः केवलकुल्माषौ यवकं तोयपुष्पिका ॥ २६८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.116 · p. 18
कुरुविन्दस्तु कुल्माषो रोहितं रजनीति च ।इन्द्रनीलस्तमोरत्नं महोपल इतीर्यते ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.62 · p. 139
नान्दीमुखो राजमाषश्चवलो वर्वरो स्त्रियाम् ।पावकश्चापि कुल्माषः श्वेतवर्णोऽपरा स्त्रियाम्॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.203 · p. 155
कुल्माषाभिषवोपि स्यादुन्नाहं कुण्डगोलिकम् ।रक्षोघ्नमपि कुल्माषं गृहाम्लं स्यान्महारसम् ॥ २०३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.64 · p. 468
उडीशकुशकोटीशकुल्माषाणां वृषस्य (च) ।यज्ञनिर्यूहकलहनिःकुहाहसनस्ततः ॥ ६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.50 · p. 276
स्याद्यावकस्तु कुल्माषः पुलाकस्तुच्छधान्यकम् ।;l[6535}बुषं बुसं तु न स्त्रियां कडंगरः कडंकरः ।कणस्तु सूक्ष्मतन्दुलस्तुषस्तु पुंसि तत्त्वचि ॥ ५० ॥
अनुष्टुप्two metres in one verseLatin letters: l
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.80 · p. 259
आरनालक-सौवीर-कुल्माषाभिषुतानि च ।अवन्तिसोममुन्नाहं सुवीराम्लं च कुञ्जलम् ॥ ८० ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.26 · p. 97
ऋषिः करीषज्वलने तु कर्षू-र्वृषश्च कुल्माष-तुषौ तरीषः ।निर्यूह-हाहा-कलहाश्च हूहूःस्यान्नग्नहूर्निष्कुह इत्यहान्ताः ॥ २६ ॥
उपजातिः
genderपुंmasc.
पल्लवशब्दः पुंसि भवति । अयं पल्लवः । इदं किशलयं प्रवालम् । लाक्षा स्त्रियां स्यात् । इयं लाक्षा जतु । ऋगादयः शब्दाः स्त्रियां भवन्ति । इयमृक् वेदावयवः । रोचना गोपित्त[त]म् । पि[पिं]डका शरायगम्? । कण्डूः खर्जूः । क्षपा रात्रिः ।कललकफपूयकुल्माषकल्ककल्पगेहमखलौहित्याः ।झर्झरपुङ्खचषालाश्च पुंसि कटाहमत्स्यौ च ॥ ५८ ॥
metre not recognised
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र धान्यकाण्डः Nighaṇṭuśeṣa 6.393 · p. 213
कुलत्थे तु कालवृन्तस्ताम्रवृन्ता कुलत्थिका ।आढक्यां तूवरी वर्णा स्यात् कुल्माषे तु यावकः ॥ ३९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.27 · p. 214
कुल्माषमाधवौ पक्षराशिदुन्दुभिरालयः ।निष्कुहः कलहो ज्ञातिपाणिवृष्ण्यविकुक्ष्यः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.431 · p. 81
कुल्माषो यावकश्चापि कुलुत्थे संप्रकीर्तितौ ।चणके हरिमन्थः स्यात्तिलपिञ्जस्तु निष्फले ॥ ४३१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.623 · p. 81
काञ्चिकं काञ्जिकं चुक्रं कुञ्जलं कुण्डगोलकम् ।कुल्माषाभिषुतः शुक्तं कुल्माषं तुषोदकम् ॥ ६२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2120 · p. 350
आढको तुवरी ख्याता वर्णा चेत्यपि मन्यते ।कुल्मासो यावकश्चैव कुल्माषोऽपि कथ्यते ॥ २१२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.36 · p. 140
गोधूमोऽपि च गोधूमं सुमनो म्लेच्छभोजनम् ।यवकः स्यात्तु कुल्माषः कुल्मासो यावकोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.53 · p. 192
कुल्माषाभिषुतं चैव कुल्माषं चार्घराद्धके ।माषादौ तु कुल्माषः स्यात् कुल्मासश्चाप्युपस्करे ॥ ५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कु (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.255 · p. 239
मुकुष्ठक-मयष्ठकौ वर्गाद्याप्तौ स-ठान्तिम ।मुकुष्ठः स्याद्, धान्यभेदे कुल्माषश्च कुल्मासवत् ॥ २५५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ष्ठ (wrong syllable); pāda 4, syllable 5 कु (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.148 · p. 20
प्रवालो विद्रुमः पुंसि कुल्माषः कुरुविन्दकः ।पद्मरागो लोहितकं हीरो ना वज्रमस्त्रियाम् ॥ १४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1418 · p. 171
व्रीहिभेदे त्वणुर्भङ्गा मातुलानी उभे समे ।कुल्माषो यावकस्तत्र चणको हरिमन्थकः ॥ १४१८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1439 · p. 174
आरनालकसौवीरगोलकुल्माषकुण्डकम् ।मधुसंधानधान्याम्लधान्याकसदनोकम् ॥ १४३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.40 · p. 44
इन्द्रनीलं महानीलं वैडूर्यं वालवायजम् ।कुरुविन्दास्तु कुल्माषा रत्नभेदास्तु मौक्तिकम् ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.53 · p. 127
यावके बलकुल्माषौ यवके तोयपर्णिका ।गोधूमस्तु म्लेच्छभोज्यः सुमनः श्लेष्मलो गुरुः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.72 · p. 164
पूपस्तु पिष्टकोऽपूपः कोकुन्दाः पिष्टपण्डिकाः ।उत्कारिका चूर्णपूपे कुल्माषा यवपिष्टकाः ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.82 · p. 165
अवन्तिसोमं रक्षोघ्नं शुक्ताभिषुतकुञ्जलम् ।गोलकुल्माषसन्धानान्यौदरो मधुरा न षण् ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.49 · p. 374
कल्माष उक्तो रजनीचरे नाकृष्णेऽन्यवन्मेचकपाण्डुरेऽपि ।कुल्मा[84b]ष उक्तो नरि यावकेऽर्द्ध-स्विन्ने च धान्येऽप्यथ काञ्जिकेऽन्त्ये ॥ ४९ ॥
इन्द्रवज्राmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.519 · p. 91
कुल्माषः कुरुविन्दाख्यमणौ व्रीह्यन्तरे च ना ।यवभेदे यावकाख्ये परे तु यवपिष्टके ॥ ५१९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.520 · p. 92
सूपभक्ते परेऽन्ये तु विदले क्ली तु काञ्चिके ।कुल्माषः पक्कमुद्गादिपिण्डे ना शबलाह्वये ॥ ५२० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.521 · p. 92
वर्णे च त्रि तु वर्णेन शबलाख्येन संयुते ।नागराजविशेषे तु कुहरः स्यान्नृलिङ्गकः ॥ ५२१ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र षत्रिः Śivakoṣa 26.2.519 · p. 47
कुल्माषं काञ्जिकेनार्धस्विन्नधान्ये यवे चणे ॥ ५१९ ॥
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.19 · p. 292
उत्प्रेक्षाऽवधारणे स्यात्काव्यालङ्कारभिद्यपि ।कल्माषो राक्षसे पुंसि कृष्णे च कृष्णपाण्डरे ॥कलुषं चाविले पापे किल्विषन्तु रुगागयोः ।कुल्माषः काञ्जिकायान्तु यावके रुग्विशेषके ॥गण्डूषा हस्तिहस्ताग्रे पुंसि वा मुखपूरणे ।प्रसृतोन्मितनीरादौ क्लीबलिङ्गञ्च कुत्रचित् ॥गवाक्षी शक्तवारुण्यां गवाक्षो जालके कपौ ।गोरक्षके नागरङ्गे पिच भवेत्पुमान् ।जिगीषा स्त्री जयेच्छायां व्यवसायप्रकर्षके ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.437 · p. 247
कक्षा वरत्रा प्रकोष्टस्पर्द्धोद्ग्रहणिकासु च ।कुल्माषं काञ्जिके ना तु यवके स्यादथाऽबिले ॥ ४३७ ॥
अनुष्टुप्

कुल्माष as a meaning in nānārtha verses