कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मुक्ता

muktāस्त्री · fem.

In 18 kośas: 24 synonym verses, 3 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1068 · p. 42
शुक्तिजं मौक्तिकं मुक्ता मुक्ताफलं रसोद्भवम् ॥ १०६८ ॥
metre not recognised
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.158
शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम् ॥ ९२ ॥मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम् ।
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.664 · p. 75
उक्ता मुक्ता मौक्तिकं शौक्तिकेयं,मुक्तास्फोटः शुक्तिराख्यायते च ।कम्बुः शङ्खः क्षुल्लकाः क्षुद्रशङ्खाः,शम्बूकास्ते स्युः कपर्दो वराटः ॥ ६६४ ॥
शालिनी
genderस्त्रीfem.
यौतवं पौतवं खारी खरिः खारश्च दृश्यते ।वण्टको वण्ट ऋक्थं स्याद्रिक्थं मुक्ता च मौक्तिकम् ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.111 · p. 18
वृत्तांतः शंखकंबू च महाशुक्तिरितीर्यते ।मुक्ता स्फोटो वक्रमुखः शुक्तिर्मुक्तामयोदरः ॥ १११ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.594 · p. 198
कुरुविन्दस्तु पीते स्यादतिरक्तेथ नीलके ।गन्धिनीलं चाथमुक्ता स्त्रियां सौम्यापि मुक्तिका ॥ ५९४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.611 · p. 200
मुक्ता मरकताद्यानि महारत्नानि सर्वतः ।विदूरजः प्रबालोऽपि गोमेदः पुष्परागकः ॥ ६११ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.21 · p. 463
त्रिवृता तृणता त्रेता मार्जिता सह मुक्तया ।लूता लता च लिखिता वार्ता सीता सिता तथा ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.78 · p. 134
मुक्ता स्त्री मौक्तिकं मुक्ताफलं * * * शुक्तिजे ।[18b]रसोपलमथाहेयं तत्सर्पस्य फणाभवम् ॥ ७८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.52 · p. 100
genderस्त्रीfem.
शीकरतुषारतुषबुद्बुदफेनौसत[तु]ण्डुला[ल]पूपाः पुंसि स्युः ।आलिमुक्ताजिदर्विसिकताः स्त्रिया[यां]मुदिताः ॥ ४६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
एते शब्दाः पुंसि स्युर्भवेयुरित्यर्थः । शीकरोऽम्बुकणः । तुषारो हिमसन्ततिः । तुषी धान्यबुषः कडङ्गरश्च । बुद्बुदो जलकङ्करः । फेनो जलस्य । समुद्रस्य ओसो अवश्यायः । तण्डुलो धान्यविशेषः । अपूपः पिष्टकस्य । एते शब्दाः स्त्रियामुदिताः कथिताः । इयमालिः पङ्क्तिः । मुक्ता रत्नम् । आजिर्युद्धम् । दर्विर्विभक्तसाधनी । सिकता वालुका ।अजिनाजिरशैवालनलमृणालतुहिनोडुपाज्यसस्यानि । द्वारास्पदकाष्ठानि च नपुंसकान्येव पटलं च ॥ ४७ ॥
metre not recognised
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 35 · p. 17
बन्धकी कुलटा मुक्ता पुनर्भूः पुंश्चली खला ।स्पर्शाऽभिसारिका दूती स्वैरिणी शम्फली तथा ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.343 · p. 47
रसोद्भवं शुक्तिजं च मुक्ता मुक्ताफलं स्मृतम् ।मौक्तिकं भूमिवर्गोऽयमुक्तः कायस्थभानुना ॥ ३४३ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.50 · p. 217
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.539 · p. 95
पद्मरागे लोहितकं कुरुविन्दं च लोहितम् ।मुक्ताफले मौक्तिकं स्यान्मुक्ता मुक्तोऽपि दृश्यते ॥ ५३९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.41 · p. 3
मनस्विनी बहुमना आर्य्योदारस्वभाविनी ।बन्धकी कुनटा मुक्ता पुनर्भूः पुंश्चली खला ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.299 · p. 21
शुक्तिर्मौक्तिकमञ्जूषा मुक्तास्फोटोऽम्बुसूर्पिका ।मौक्तिकं शौक्तिकं मुक्ता स्वातिबिन्दुसमुद्भवम् ॥ २९९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1852 · p. 302
मुक्ता मुक्ताफलं मौक्तिकं शुक्तिजं रसोद्भवम् ॥ १८५२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.178 · p. 149
पद्मरागः शोणरत्नं लोहितं कुरुविन्दकम् ।मुक्ता मुक्ताफलं शुक्तिवीजं हारी च मौक्तिकम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.34 · p. 310
अब्धिद्रोणीरसाला श्रुतिविरतिगुहाशुक्तिमुक्तावडभ्यः ।आदौ भूम्निस्थलीज्यानियतितरलिकावेदिभित्तिश्रुचोपि ।वल्यवल्लीविदारीत्रुटिधमनिशिखामल्लिकायूषिकात्वक् ।दृष्टिजिह्वाऽटवीद्राः सनिविकृतिकणादेहलीमृत्तिकाश्च ॥
स्रग्धराmetre not read in every line
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.89 · p. 225
स्फाटिकं च, शक्तिजे तु मुक्ता मुक्ताफलान्विता ।मौक्तिकं च मकुतिकं भवेन्मुकुतिकं तथा ॥ ८९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable); pāda 3, syllable 4 च (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.149 · p. 20
इन्द्रनीलमहनीलौ समौ मुक्ता तु मौक्तिकम् ।वराहशङ्खमत्स्याहिमेघद्विरदवेणवः ॥ १४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.56 · p. 152
त्रिरेखः षोडशावर्तस्स तु शंखनखोऽल्पकः ।मुक्तास्फोटोऽब्धिमंडूकी शुक्तिर्मुक्ता तु मौक्तिकम् ॥ ५६ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1006 · p. 129
मुक्ता स्त्री मौक्तिके त्रिस्तु विसृष्टेऽतीतसंसृतौ ।मुस्ता तु मुस्तके लिङ्गत्रये पुंशण्डयोः पुनः ॥ १००६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.39 · p. 216
मौक्तिके तु भवेन्मुक्ता मूर्तिः काठिन्यदेहयोः ।मूर्तं त्रिषु स्यात्कठिनमूर्छने मूर्तिमत्सु च ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.29 · p. 222
पुंश्चल्यां मौक्तिके मुक्ता कारासंयमयोर्यतिः ।गमने जीवने यात्रा रुजा रुग्भङ्गमृत्यवः ॥ २९ ॥
अनुष्टुप्

मुक्ता as a meaning in nānārtha verses

  • शब्दरत्नावली मणिमणिर्द्वयोरश्मजातौ मुक्तादौ स्यादलिञ्जरे ॥ Śabdaratnāvalī 7.15.12
  • शब्दरत्नावली मञ्जरमसूरा मसुरा वेश्यास्वथ व्रीहौ पुमानयम् । पापरोगे मसूरी स्यात्तथा मसुरिकेत्यपि ॥ मर्मरः पीतकाष्ठे स्याद्वस्त्रपर्णादिनिस्वने । मञ्जरं मञ्जरी च स्यान्मुक्तातिलकवल्लीषु ॥ मदिरा तु सुरायां स्त्री मदिरो मत्तखञ्जने । मुकुरः कुलवृक्षे स्याद्दर्पणे दण्डभिद्यपि ॥ मार्जार ओतौ खट्टासे मिहिरो वृद्धसूर्ययोः । मुदिरः कामुके मेघे मुहिरो मूर्खकामयोः ॥ Śabdaratnāvalī 7.27.96