कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

श्लेष्मण

śleṣmaṇaवि · adj.

In 9 kośas: 9 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.460 · p. 21
वातकी वातरोगी स्याच्छ्लेष्मलः श्लेष्मणः कफी ॥ ४६० ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.60
उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी ॥ ६० ॥
अनुष्टुप्
genderविadj.
छर्दिः सान्ता च छर्दिः स्यात् छर्दिका छदिरित्यपि ।अतिसारोऽप्यतीसारः श्लेष्मनः श्लेष्मणः समौ ॥ १७१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.52 · p. 223
शिरःस्थस्तर्पकोऽथामाशयस्थः क्लेदकः कफः ।श्लेषकः संधिसंस्थानः श्लष्मलः श्लेष्मणः कफी ।त्रिष्वथासृङ्मलः पित्तमाग्नेयं पललज्वरः ॥ ५२ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.124 · p. 117
कफिनि श्लेष्मलः प्रोक्तः श्लेष्मणः क[64]फरोगिणि ।अर्शोयुगर्शसश्चापि मूर्च्छालो मूर्च्छितः समः ॥ १२४ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.704 · p. 96
सातिसारस्तथैवाऽतीसारकी चातिसारकी ।वातकी वातरोगी स्यात् श्लेष्मणः श्लेष्मलः कफी ॥ ७०४ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.247 · p. 99
श्लेष्मणः श्लेष्मलोऽपि स्यात् कफी चातिकफान्विते ॥
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.83 · p. 195
सातिसारेऽतिसारक्यतीसारकी, कफान्विते ।श्लेष्मणः श्लेष्मलः, क्लिन्ननेत्रे तद्वति पिल्लयुक् ॥ ८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1104 · p. 136
श्लेष्मलमाहुः श्लेष्मणमर्शसमर्शोयुतं तथाश्मश्रुम् ।तूबरमल्पशरीरं पृश्निं खर्वस्तु वामनो ह्रस्वः ॥ ११०४ ॥
गीतिः
genderविadj.