कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

श्लेष्मल

śleṣmalaवि · adj.

In 11 kośas: 11 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.460 · p. 21
वातकी वातरोगी स्याच्छ्लेष्मलः श्लेष्मणः कफी ॥ ४६० ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.60
उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी ॥ ६० ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.606 · p. 68
वातकी वातरोगी स्यात्सातिसारोऽतिसारकी ।सिध्मश्लेष्मार्शसंयोगात्सिध्मलः श्लेष्मलोऽर्शसः ॥ ६०६ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.52 · p. 223
शिरःस्थस्तर्पकोऽथामाशयस्थः क्लेदकः कफः ।श्लेषकः संधिसंस्थानः श्लष्मलः श्लेष्मणः कफी ।त्रिष्वथासृङ्मलः पित्तमाग्नेयं पललज्वरः ॥ ५२ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.124 · p. 117
कफिनि श्लेष्मलः प्रोक्तः श्लेष्मणः क[64]फरोगिणि ।अर्शोयुगर्शसश्चापि मूर्च्छालो मूर्च्छितः समः ॥ १२४ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.704 · p. 96
सातिसारस्तथैवाऽतीसारकी चातिसारकी ।वातकी वातरोगी स्यात् श्लेष्मणः श्लेष्मलः कफी ॥ ७०४ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.247 · p. 99
श्लेष्मणः श्लेष्मलोऽपि स्यात् कफी चातिकफान्विते ॥
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.83 · p. 195
सातिसारेऽतिसारक्यतीसारकी, कफान्विते ।श्लेष्मणः श्लेष्मलः, क्लिन्ननेत्रे तद्वति पिल्लयुक् ॥ ८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1104 · p. 136
श्लेष्मलमाहुः श्लेष्मणमर्शसमर्शोयुतं तथाश्मश्रुम् ।तूबरमल्पशरीरं पृश्निं खर्वस्तु वामनो ह्रस्वः ॥ ११०४ ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.53 · p. 127
यावके बलकुल्माषौ यवके तोयपर्णिका ।गोधूमस्तु म्लेच्छभोज्यः सुमनः श्लेष्मलो गुरुः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.146 · p. 185
श्लेष्मसूः श्लेष्मलः खेटी सातिसारोऽतिसारकी ।किलासी सिध्मलो वृद्धनाभौ तुण्डिभतुण्डिलौ ॥ १४६ ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1854 · p. 209
पूगवृक्षे सुवेषे तु त्रिरथो श्लेष्मलः पुमान् ।गोधूमधान्ये त्रिषु तु श्लेष्मवच्छ्लेष्मकारिणोः ॥ १८५४ ॥
अनुष्टुप्