तूबर
tūbaraवि · adj.In 7 kośas: 8 synonym verses, 5 as a nānārtha head word.
असूर्क्षणं सूर्क्षणं चासूर्क्षणाऽसूर्क्षणे अपि ।तुबरं तूबरं चाहुरम्लमम्ब्लं च कोविदाः ॥ ५६ ॥
अनुष्टुप्
genderक्लीneut.
लवणः स्यात्सर्वरसः * * पटुरथास्य मृट् (?) ।कटूषण-कटोलाश्च मुखभेदी तु तिक्तकः ।तीक्ष्णः क्षारश्च सकटु लवणात्मक उच्यते ।तुबरस्तूबरश्चास्त्री कषायस्तद्वति त्रिषु ॥ ४९ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
वज्राङ्गारविहारचीरसमरा ? केदारमाडम्बरंवप्रोशीरकुलीरदार्दु[233b]र-रिवत्कुस्तुंबरुर्गह्वरः ।नेत्रोपह्वरशेखरातिखरवत्स्याच्छिग्रुरार्द्रं शुनी-रः स्याद्वासर-तूबरौ सतुबरौ तद्वत्सहस्रं भवेत् ॥ ६२ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंक्लीm. n.
सुस्वादो मधुरो मिष्टः चुक्रोऽम्लः कटुकः कटुः ।कषायस्तूबरः क्षारी लवणः तिक्ततीक्ष्णकौ ॥ ३०६ ॥
अनुष्टुप्
genderविadj.
गुल्ये, दन्तशठेऽम्लोऽम्ल्वः, कखाये तुबरस्तथा ।तूबरः कुबरोऽपि स्यादाद्यौ द्वौ तौबरोऽपि च ॥ १३ ॥
अनुष्टुप्
genderविadj.
अनड्वान् भग्नशृङ्गे तु तस्मिन् कूटश्च तूबरः ।शोणो नीलवृषः श्वेतपुच्छशृङ्गः खुराण्डकः ॥ ७५९ ॥
अनुष्टुप्
genderपुंmasc.
श्लेष्मलमाहुः श्लेष्मणमर्शसमर्शोयुतं तथाश्मश्रुम् ।तूबरमल्पशरीरं पृश्निं खर्वस्तु वामनो ह्रस्वः ॥ ११०४ ॥
गीतिः
genderविadj.
बाले तु बर्करः सूता तूबरः शृंगवर्जितः ।हिंस्रो व्याघ्रादिको व्यालः श्वापदो मरुलः शरिः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
धूसरः पाण्डुरे रासभे पुंस्यसौकूबरः कुब्जके सम्मतश्चारुणि ।अस्त्रियां स्यन्दनाङ्गान्तरेऽथो वृषेशृङ्गहीने नरे तूबरोऽश्मश्रुणि ॥ ६२ ॥
स्रग्विणी
व्यञ्जनोने तथा ना कषाये र[58b]सेकेसरः स्त्री न किञ्जल्कवाची यदि ।पुंसि पुंनागके चम्पके शारदेस्याच्च सिंहच्छटावाचकस्तादृशः ॥ ६३ ॥
स्रग्विणीmetre not read in every line
doubtful
तूबरस्तु पुमान् कालेऽप्यजातश्मश्रुपूरुषे ।वैजयन्त्यां तु कथितं भेद्यलिङ्गं त्रिषु त्वदः ॥ ८८४ ॥
अनुष्टुप्
कालेऽप्यजातशृङ्गे स्यात् पशौ शुष्कतृणे पुनः ।तृफलं शुष्कपर्णे च क्ली लतायां तु सा स्त्रियाम् ॥ ८८५ ॥
अनुष्टुप्
doubtful
तानितं तूलितपटे गुणवादित्रभाण्डयोः ।छिन्नपुच्छे वृषे पुंसि निःश्मश्रावपि तूबरः ॥ २१०० ॥
अनुष्टुप्