कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

संदंश

saṃdaṃśaपुं · masc.

In 6 kośas: 8 synonym verses.

कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.66 · p. 209
स्यात्संदंशः कङ्कमुखं यन्त्रं कुन्दं भ्रमुः पुमान् ।तैजसावर्त्तनी मूषा मूषिका मूष इत्यपि ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.22 · p. 296
तैजसावर्तनी मूषा कुन्दं तर्क-भ्रमौ नरि ।आस्फोटनी वेधनिका संदंशः कङ्कवक्त्रकः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.241 · p. 39
संदंशः स्यात्कन्दमुखः काणा मूषा बुका स्त्रियाम् ।विध्यते येन मण्यादिराविधोऽसौ निधोऽपि च ॥ २४१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.423 · p. 154
स्यात्कङ्कमुखः संदंशे भ्रमः कुन्दं च यन्त्रकम् ।मणिकारे वैकटिकस्ताम्रकुट्टकशौल्विकौ ॥ ४२३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 खः (wrong syllable); pāda 3, syllable 5 वै (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1532 · p. 243
निकषस्तु कषः शाणः कषपाषाण उच्यते ।कङ्कमुखश्च संदंशः संदंशस्य हि कथ्यते ॥ १५३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मु (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.116 · p. 16
भेदाः स्युरस्य तपनानलतप्तकुम्भ-संदीपनक्रिमिशरौरवतप्तलोहाः ।संघातपूयवहसूकरलो हशङ्कु-संदंशतालमलभोजनकालसूत्राः ॥ ११६ ॥
वसन्ततिलका
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1525 · p. 184
संदंशः स्यात् कङ्कमुखो घनः कूटोऽप्ययोधनः ।यत्र निक्षिप्य कूटेन हन्यतेऽयोनिघातिका ॥ १५२५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1813 · p. 220
स्थानीयं तु महाग्रामे ग्रामार्धे खेटमस्त्रियाम् ।ब्रह्मस्थली वास्तुमध्यं संदंशो वास्तुकोणभूः ॥ १८१३ ॥
अनुष्टुप्
genderपुंmasc.