All kośas › Nāmamālikā
नाममालिका Nāmamālikā
314 verses · 2,274 words tagged · 502 marked doubtful (dashed)
भूम्यादिनामधेयप्रकरणम् (3/3)
संदंशः स्यात्कन्दमुखः काणा मूषा बुका स्त्रियाम् ।विध्यते येन मण्यादिराविधोऽसौ निधोऽपि च ॥ २४१ ॥
3.241 · p. 39
अनुष्टुप्
आस्फोटनी वेधनिका भ्रमा कुण्डलयन्त्रकम् ।चण्डिलः क्षुरमर्दी स्यान्नापितोऽन्तवसाय्यपि ॥ २४२ ॥
3.242 · p. 39
अनुष्टुप्
क्षुरोऽस्य वपनं शस्त्रं कर्तिका कर्तनीत्यपि ।शल्यस्कन्दिनी धार्या त्वक्ष्णाक्षूर्नखकृन्तनम् ॥ २४३ ॥
3.243 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 श (syllables merged)
कुम्भकारः कुलालः स्याच्चक्री भार्गव इत्यपि ।आपाकः पुटपाणः स्यात्पचनं पाकमण्डलम् ॥ २४४ ॥
3.244 · p. 39
अनुष्टुप्
धूसरश्चाक्रिकस्तैली पिण्याकस्तिलकस्तिली ।आभीरस्तु महाशूद्रो गोपा गोसंख्यगोदुहौ ॥ २४५ ॥
3.245 · p. 39
अनुष्टुप्
गोपालो वल्लबश्चाथ वत्सीयस्त्रिषु तत्स्थिते ।जापालः स्यादजाजीवो लम्बनस्तु क्षपालकः ॥ २४६ ॥
3.246 · p. 39
अनुष्टुप्
अथ स्याद्दाण्डिको दण्डः काणोऽपि लकुटो लकुः ।सन्दानं दामनी दामा रज्जुः स्याद्वलिनीति च ॥ २४७ ॥
3.247 · p. 39
अनुष्टुप्
गुणो वराटो रज्जुः स्त्री नना शुल्बा वटी त्रयम् ।ग्रन्थिर्बन्धो व्रजो गोष्ठं गोष्ठीनं तु पुराव्रजः ॥ २४८ ॥
3.248 · p. 40
अनुष्टुप्
मन्थानं मन्थनं मन्था मन्थ्या मन्थनिकापि च ।वैशाखोऽप्यस्य दण्डे तु वैशाखकविशाखकौ ॥ २४९ ॥
3.249 · p. 40
अनुष्टुप्
कुठारो मदविष्कम्भो मन्थपात्रं तु गर्गरी ।कलशः कलशी चापि पारिकुम्भी च कुम्भिका ॥ २५० ॥
3.250 · p. 40
अनुष्टुप्
घोष आभीरपल्ली स्यात्पक्कणोऽस्र्यन्तजातयः ।मालाकारो माल्यजीवी मालिकः प्रतिहारिकः ॥ २५१ ॥
3.251 · p. 40
अनुष्टुप्
जायाजीवस्तु शैलषः शैलाली भरतो नटः ।यो यष्टिरज्जुखड्गेषु प्रनृत्यति स पूरकः ॥ २५२ ॥
3.252 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ल (wrong syllable)
करांस्तु तालं कृत्वा ये नृत्तं गानं च कुर्वते ।ते तालवचनाः प्रोक्ता इति शास्त्रविशारदैः ॥ २५३ ॥
3.253 · p. 40
अनुष्टुप्