कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तपन

tapanaपुं · masc.

In 25 kośas: 34 synonym verses, 8 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.98 · p. 7
आदित्यः सवितार्यमा खरसहस्रोष्णांशुरंशू रवि-र्मार्तण्डस्तरणिर्गभस्तिररुणो भानुर्नभोऽहर्मणिः ।सूर्योऽर्कः किरणो भगो ग्रहपुषः पूषा पतङ्गः खगोमार्ताण्डो यमुनाकृतान्तजनकः प्रद्योतनस्तापनः ॥ ९५ ॥ब्रध्नो हंसश्चित्रभानुर्विवस्वान्सूरस्त्वष्टा द्वादशात्मा च हेलिः ।मित्रो ध्वान्तारातिरब्जांशुहस्तश्चक्राब्जाहर्बान्धवः सप्तसप्तिः ॥ ९६ ॥दिवादिनाहर्दिवसप्रभाविभाभासः करः स्यान्मिहिरो विरोचनः ।ग्रहाब्जिनीगोद्युपतिर्विकर्तनो हरिः शुचीनौ गगनाद्ध्वजाध्वगौ ॥ ९७ ॥हरिदश्वो जगत्कर्मसाक्षी भास्वान्विभावसुः ।त्रयीतनुर्जगच्चक्षुस्तपनोऽरुणसारथिः ॥ ९८ ॥
शार्दूलविक्रीडितम्
आदित्यपुंसवितृपुंअर्यमन्पुंखरांशुपुंसहस्रांशुपुंउष्णांशुपुंअंशुपुंरविपुंमार्तण्डपुंतरणिपुंगभस्तिपुंअरुणपुंभानुपुंनभोमणिपुंअहर्मणिपुंसूर्यपुंअर्कपुंकिरणपुंभगपुंग्रहपुषपुंपूषन्पुंपतङ्गपुंखगपुंमार्ताण्डपुंयमुनाकृतान्तजनकपुंप्रद्योतनपुंतापनपुंब्रध्नपुंहंसपुंचित्रभानुपुंविवस्वत्पुंसूरपुंत्वष्टृपुंद्वादशात्मन्पुंहेलिपुंमित्रपुंध्वान्तारातिपुंअब्जहस्तपुंअंशुहस्तपुंचक्रबान्धवपुंअब्जबान्धवपुंअहर्बान्धवपुंसप्तसप्तिपुंदिवाकरपुंदिनकरपुंअहस्करपुंदिवसकरपुंप्रभाकरपुंविभाकरपुंभास्करपुंमिहिरपुंविरोचनपुंग्रहपतिपुंअब्जिनीपतिपुंगोपतिपुंद्युपतिपुंविकर्तनपुंहरिपुंशुचिपुंइनपुंगगनध्वजपुंगगनाध्वगपुंहरिदश्वपुंजगत्कर्मसाक्षिन्पुंभास्वत्पुंविभावसुपुंत्रयीतनुपुंजगच्चक्षुस्पुंतपनपुंअरुणसारथिपुं
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.10 · p. 1
अगस्त्ये विन्ध्यकूटः स्याद्दक्षिणाशारतिर्मुनिः ॥ १६ ॥सत्याग्निर्वारुणिः क्वाथिस्तपनः कलसीसुतः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.31
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः ।भास्कराहस्करब्रध्नप्रभाकरविभाकराः ॥ २८ ॥भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः ।विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥ २९ ॥द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः ।विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥ ३० ॥भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा ॥कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः ।प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः ॥इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः ।माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः ॥ ३१ ॥
अनुष्टुप्
सूरपुंसूर्यपुंअर्यमन्पुंआदित्यपुंद्वादशात्मन्पुंदिवाकरपुंभास्करपुंअहस्करपुंब्रध्नपुंप्रभाकरपुंविभाकरपुंभास्वत्पुंविवस्वत्पुंसप्ताश्वपुंहरिदश्वपुंउष्णरश्मिपुंविकर्तनपुंअर्कपुंमार्तण्डपुंमिहिरपुंअरुणपुंपूषन्पुंद्युमणिपुंतरणिपुंमित्रपुंचित्रभानुपुंविरोचनपुंविभावसुपुंग्रहपतिपुंत्विषांपतिपुंअहर्पतिपुंभानुपुंहंसपुंसहस्रांशुपुंतपनपुंसवितृपुंरविपुंपद्माक्षपुंतेजसांराशिपुंछायानाथपुंतमिस्रहन्पुंकर्मसाक्षिन्पुंजगच्चक्षुस्पुंलोकबन्धुपुंत्रयीतनुपुंप्रद्योतनपुंदिनमणिपुंखद्योतपुंलोकबान्धवपुंइनपुंभगपुंधामनिधिपुंअंशुमालिन्पुंअब्जिनीपतिपुंचण्डांशुपुंमाठरपुंपिङ्गलपुंदण्डपुं
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नरकवर्गः Amarakośa 1.9.2
स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।तद्भेदास्तपनावीचिमहारौरवरौरवाः ॥ १ ॥सङ्घातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः ।प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.35 · p. 5
आदित्यः सविता सहस्रकिरणः प्रद्योतनो भास्कर-स्तिग्मांशुस्तरणिस्तथा दिनमणिर्भास्वान्विवस्वान्हरिः ।मार्तण्डस्तपनो विकर्तन इनः पूषा पतङ्गो भगः,सूर्यो गोपतिरर्यमा दिनकरः सूरोंऽशुमाली रविः ॥ ३५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वितीयोपदेशः Bālaprabodhikā 2.40 · p. 69
शिंशुमाराग्रनिलयः तपनः पद्मबान्धवः ।तस्य जाया यामवती सुतस्तस्य सुरोत्तमः ॥ ४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
genderपुंmasc.
ते च मूर्धन्यषे आहुः केचित्तालव्यशे अपि ।सूरः शूरोऽपि (सुरोऽपि?) सूर्ये स्यात् तपनस्तापनस्तथा ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त भुवनसञ्ज्ञा Gaṇitanāmamālā 6.54 · p. 3
सहस्रकिरणः पूषा प्रद्योतनो दिवाकरः ।पतङ्गस्तपनो मित्रो मार्त्तण्डस्तरणिर्भगः ॥ ५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.162 · p. 266
नादेय्यनन्तापि च सा वैजयन्त्यथ तत्र तु ।क्षुद्राग्निमन्थस्तपनस्त्र्यरणिर्गणिकारिका ॥ १६२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.20 · p. 319
वनेचरो लम्बमुखो वृक्षावासोऽथ लोमशः ।सुगन्धिमूत्रः पूतीकस्तपनो मारजातकः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नारकादिप्रकाण्डः Kalpadrukośa 1.17.1 · p. 367
नारको नरकोऽपि स्यान्निरयो दुर्गतिः स्त्रियाम् ।तद्भेदा स्तपनावीचिमहारौरवरौरवाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.219 · p. 404
दक्षिणर्षिर्वारुणिः स्यात्सत्याग्निर्मान्य इत्यपि ।मानसूनुश्च तपनो मैत्रावरुणिरित्यपि ॥ २१९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.3 · p. 436
तापनस्तपनो विष्णुः कर्मसाक्षी विकर्त्तनः ।मार्त्तण्डो मिहिरो भानुर्हंसो वेदोदयः पुनः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.28 · p. 29
सूर्यः स्यादरुणः सहस्रकिरणो भास्वान्विवस्वान्रविर्-भातुर्भानु-दिवाकरौ दिनमणिः प्रद्योतनो भास्करः ।आदित्यः सविताऽर्यमा यमपिता पीतुः पतंगः खगःपारुः पेरुरिनो हरिश्च तपनोऽर्क्कस्तापनः स्वर्मणिः ॥ २८ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.174 · p. 94
विकृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् ।चकितं हसितं केलिरित्यष्टादश शीलजाः ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.189 · p. 96
नयनं प्रियविश्लेषे स्मरावेगोत्थचेष्टितम् ।अज्ञानादिव या पृच्छा प्रतीतस्यापि वस्तुनः ॥ १८९ ॥
अनुष्टुप्
genderक्लीneut.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.24 · p. 145
क्रन्दनं चारुष्करस्तु तपनोऽग्निमुखो द्वयोः ।अरुष्को वीरवृक्षः स्याद्रक्षोघ्नो रञ्जनो धनुः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नारकवर्गः Koṣakalpataru 3.2.3 · p. 305
तपनः स्यादवीचिस्तु द्वंद्वे संहार-रौरवौ ।स्यान्महारौरवः कालसूत्रं तामिस्रमित्यपि ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.139 · p. 25
ऋषिस्त्रिकालदर्शः स्यान्मौनी वाचंयमी मुनिः ।तपनः कुम्भपुत्रः स्यादगस्त्यः पीतसागरः ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 49 · p. 26
तरणिस्तपनो भानुर्ब्रध्नः पूषाऽर्यमा रविः ।तिग्मः पतङ्गो द्युमणिर्मार्तण्डोऽर्को ग्रहाधिपः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.86 · p. 16
मार्तण्डोऽहर्पतिर्भानुः पतंगश्चक्रबान्धवः ।अर्यमा तपनः सूरो भास्वान्खरकरोऽपि च ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
संसारावर्त Saṃsārāvarta · विक्रमादित्य Saṃsārāvarta 11 · p. 467
तपनस्तापनो रविः ॥ ११ ॥
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.6 · p. 42
अगस्तिः कलशीपुत्रोऽगस्त्यो वातापिसूदनः ।तपनः पीतजलधिः प्रमाणपुरुषः शिवः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.61 · p. 7
अर्कः सूरः खगः पूषा पतंगो भास्करो भगः ।तपनस्तरणिर्मित्रश्चित्रभानुस्त्रयीतनुः ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.81 · p. 13
अर्कः पूषा पतङ्गश्च खगः प्रद्योतनस्तथा ।तपनस्तापनः सूरः विवस्वान् मिहिरोऽरुणः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.234 · p. 17
अहर्पतिर्ग्रहपतिः पद्मबन्धुर्विरोचनः ।ज्योतिष्मानव्यथेशस्तु तपनस्तापनोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.5 · p. 177
तुविर्भुविश्च द्वौ सान्तौ तपनस्तापनो भगः ।भर्गो हरिर्हरिद्भानु-भानू पेरुश्च पारुवत् ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.116 · p. 16
भेदाः स्युरस्य तपनानलतप्तकुम्भ-संदीपनक्रिमिशरौरवतप्तलोहाः ।संघातपूयवहसूकरलो हशङ्कु-संदंशतालमलभोजनकालसूत्राः ॥ ११६ ॥
वसन्ततिलका
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.163 · p. 22
हरिदश्वविश्वचक्षुर्मिहिरसहस्रांशुमित्रखद्योताः ।दिनमणिसवितृद्युमणिप्रद्योतनतपनभास्वरादित्याः ॥ १६३ ॥
गीतिः
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 33 · p. 533
हेलिर्हंसं सहस्रांशुस्तपनस्तापनो रविः ॥ ३३ ॥
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.9 · p. 35
रेचिका दक्षनासा च भारभूतिस्त्रिविक्रमः ।देवमाता रिपुघ्नश्च ऋ-कारस्तपनः स्मृतः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
निधिः शेषो गुह्यकर्त्ता तपनः पञ्चमस्तथा ।वीरभद्रा च सावित्री कालरात्रिः पुरारिहा ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.11 · p. 17
सप्तसप्तिः पद्मबन्धुस्तपनोऽनूरुसारथिः ।द्युमणिर्हरिदश्वोऽद्रिरशीतांशुर्विकर्तनः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.151 · p. 95
अगस्त्यः कलशीपुत्रस्तपनः पीतसागरः ।और्वशेयः कुंभयोनिरगस्तिर्विन्ध्यकूटकः ॥ १५१ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.29 · p. 113
हसनं [57]हासमिच्छन्ति हसन्यंगारधानिका ।तपनं तापमादित्यं वदन्ति नरकान्तरम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.11 · p. 248
दन्तेऽद्रिशृङ्गे दशनोऽथ वर्म-ण्यन्तेऽथ भानौ तपनोऽथ तापे ।भल्लातके स्यान्नरकान्तरेऽन्त्येऽथापायदान्त्योः कदनं तथैव ॥ ११ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.91 · p. 19
तमालो वरुणे खड्गे तापिञ्छे तिलकेऽपि च ।तपनस्तु रवौ चन्द्रे घर्मेऽपि च पशावपि ॥ ९१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.824 · p. 119
तपनस्तु पुमानग्नौ सूर्ये च नरकान्तरे ।भल्लातकतरौ ग्रीष्मे क्लीबलिङ्गं तु मन्वते ॥ ८२४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.825 · p. 119
तप्तावथ पुमान् सर्पराजभेदे हि तक्षकः ।तक्ष्णि चाथो तक्षितरि त्रिस्त्वक्सारस्तु पुंस्ययम् ॥ ८२५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.56 · p. 237
जननी स्त्री दयामात्रोर्जननं जन्मवंशयोः ।जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च ।जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् ।जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके ।तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् ।तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु ।त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् ।तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.241 · p. 174
शूरे दातरि च त्यागी व्रतिशोच्यौ तपस्विनौ ।तपनो नरके भानौ विरलेऽल्पे कृशे तनुः ॥ २४१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.29 · p. 241
तपनो भास्करे ग्रीष्मे त्रिदिवो व्योम्नि दिव्यपि ।त्रिशंकू तार्क्ष्यमार्जारौ त्रिधामा केशवेऽनले ॥ २९ ॥
अनुष्टुप्

तपन as a meaning in nānārtha verses