कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

खण्ड

khaṇḍaपुंक्ली · m. n.

In 21 kośas: 33 synonym verses, 9 as a nānārtha head word, 22 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.404 · p. 20
गुड इक्षुरसक्वाथः शर्करा तु सितोपला ॥ ४०२ ॥सिता च मधुधूलिस्तु खण्डस्तद्विकृतिः पुनः ।मत्स्यण्डी फाणितं चापि रसालायां तु भार्जिता ॥ ४०३ ॥शिखरिण्यथ यूर्यूषो रसो दुग्धं तु सोमजम् ।गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ॥ ४०४ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.89 · p. 54
खण्डेऽर्धशकले भित्तं नेमशल्कदलानि च ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.18
भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके ।
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.324 · p. 38
किलाटः कूर्चिका चेति क्षीरस्य विकृती उभे ।फाणितविकृतिर्गौडी मत्स्यण्डी खण्डशर्कराः ॥ ३२४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.713 · p. 82
कृत्स्नं समग्रं सकलं समस्तं,सर्वं च विश्वं निखिलाखिले च ।खण्डार्धनेमाः शकलं च भित्तं,सामीत्यसम्पूर्णसमानसंज्ञाः ॥ ७१३ ॥
इन्द्रवज्रा
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.182 · p. 152
खण्डं द्राविडकं क्षारं कृतकं धूर्तमासुरम् ।सुपाक्यमथ शुभ्रं तु महारम्भं च संवरम् ॥ १८२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.214 · p. 156
विकारः फाणितगुडमत्स्यण्डी खण्डशर्करः ।शिशुप्रियोरुणः खण्डो रसजः फाणितं तु षण् ॥ २१४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.47 · p. 240
फालिः फाली स्त्रियां छेदे खण्डोऽस्त्री रदनं रदः ।विधूननं विधुवनं धुवनं च विधूवने ॥ ४७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.178 · p. 399
पूर्णा पूर्णामृता चेति षोडश स्युरथास्त्रियाम् ।बिम्बः खण्डं च वा पुंसि पुंस्यर्द्धोऽर्द्धं समेंशके ॥ १७८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.63 · p. 33
अमा महाकला बिम्बस्त्वस्त्री स्यान्मण्डलं त्रिषु ।नेमो ना खण्ड-शकल-खण्डलानि न योषिति ॥अर्द्धस्त्रिषु समेंऽशेऽर्द्धं भित्तं शल्कं दलं समम् ।स्त्री फालिरर्द्धा तज्जादावथार्द्धपरिमाणके ॥अर्द्धिकः स्त्री त्वार्द्धिकास्या भवेच्चान्द्रार्द्धिकाह्नि च ॥ ६३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.83 · p. 259
विकाराः फाणित-गुड-मत्स्यण्डी-खण्ड-शर्कराः ।गुड इक्षुरसक्वाथो मत्स्यण्डी पल्लिकापि सा ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.84 · p. 280
मीनाण्डी मधुधूलिस्तु खण्डः स्यात्पिण्डश[132a]र्करा ।शर्करा सिकता श्वेताहिच्छत्रा च सितोपला ॥ ८४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.43 · p. 112
genderपुंक्लीm. n.
पामाशब्दः स्त्रियां कथितः । इयं पामा विचर्च्चिका कच्छूः । वेमादयः पुंसि भवन्ति । अयं वेमा तन्तुवायस्य । कुणपो मृतशरीरम् । कूर्चः श्मश्रु । अयं कन्दरः पर्वतस्यैकदेशः । यूथः सङ्घातः । प्रोथोऽश्वस्य नासिकाविवरयोरुपरिदेशः । वंशो वेणुः । रेणुः पांसुः । ध्वजः केतुः ।केदारखण्डप्रशमाश्च पुंसि नित्यं कपाटाश्च ।हेलाकाञ्चीला[ली]लासुधायुधाः स्युः स्त्रि[स्त्री]यां प्रवेणी च ॥ ७४ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.222 · p. 36
लोभाख्यं श्यामवल्ली च त्र्यूषणं कटुकत्रयम् ।क्षारो गुडोऽस्य विकृतौ मत्स्या स्यात्खण्ड [ शर्करा ] ॥ २२२ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.223 · p. 36
फणितं क्षुद्रखण्डं च चत्कुलीखण्डमस्त्रियाम् ।मधूकं तु मधुरस्त्री मधुकं तत्पुरातनम् ॥ २२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)
genderपुंक्लीm. n.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 187 · p. 88
समस्तं सकलं सर्वं कृत्स्नं विश्वं तथाऽखिलम् ।शकलं विकलं खण्डं शल्कं लेशं लवं विदुः ॥ १८७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.323 · p. 92
भित्तं नेमं दलं शल्कं खण्डार्धशकलानि तु ।भागो वण्टस्तथांशोऽपि तुर्यांशः पादसंज्ञकः ॥ ३२३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.137 · p. 228
genderपुंक्लीm. n.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.55 · p. 39
खण्डस्तु मधुधूलिः स्यान्मत्स्यण्डी फाणितं वरा ।सितोपला शर्करा च सिताथेक्षुरसो गुडः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.601 · p. 78
सिता च मधुधूलिस्तु खण्डं खण्डोऽपि कथ्यते ।मत्स्यण्डिका तु मत्स्यण्डी मत्स्याण्डिका च फाणितम् ॥ ६०१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्डि (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2607 · p. 420
अधश्च शकलं शल्कं खण्डश्च खण्डलं दलम् ॥ २६०७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.46 · p. 192
सितोपला मधुधूलौ खण्डो वर्गद्वितीयखः ।फाणिते स्यात्तु मत्स्याण्डी मत्स्यण्डिश्च मत्स्यण्ड्यपि ॥ ४६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable); pāda 4, syllable 5 म (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.37 · p. 252
शकलं शक्लं खण्डं च खण्डलं चाऽपि, भागके ।अंसस्तालव्यदन्त्यान्तः, भागेऽर्थेऽष्टम आष्टमः ॥ ३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्लं (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.178 · p. 24
अभिज्ञानं कलङ्काङ्कौ प्रसादः स्यात्प्रसन्नता ।भित्तमर्धः पुमान् खण्डमस्त्रियां शकलं त्रिषु ॥ १७८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1456 · p. 176
त्रिकूटं त्रिकुटं खण्डं कटं च लवणेऽब्धिजे ।अक्षीबं वशिरस्तस्मिन् कनिष्ठं क्षेत्रमूषजम् ॥ १४५६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1491 · p. 180
फाणितं क्षुद्रकं खण्डमस्त्रियां शर्करा सिता ।बर्हिः पुष्पं ग्रन्थिपर्णं स्थौणेयं कुक्करं शुकम् ॥ १४९१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कर्को दर्पणभेदे स्यात् स्वर्णे वर्ण इतीर्यते ।शर्करायां तु वलयं शकलं खण्डमित्यपि ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.9 · p. 87
लेशस्तूपपदं गन्धोऽनुबन्धेषत्करावपि ।छेदः खण्डोऽस्त्रियां गलिः शपनं शमनं शमः ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ग (wrong syllable)
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.119 · p. 132
अब्धिजे लवणे खण्डं त्रिकूटं त्रिकुटं कुटम् ।भोजनीयं कटकटमणु प्रवरवारिजे ॥ ११९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.134 · p. 134
फाणितं क्षुद्रकं खण्डं न स्त्र्यथो शर्करा सिता ।मधूलं तु मधुर्न स्त्री मधुकं तत्पुरातनम् ॥ १३४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.56 · p. 177
भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके ।अस्त्री चरणमंघ्रिर्ना पत् पादः क्रमणं पदम् ॥ ५६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.86 · p. 208
अखण्डकृत्स्ननिः शेषपूर्णविश्वसमानि च ।खण्डनेमोनविकलाः पूर्णे भरितपूरितौ ॥ ८६ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास डपादः Dharaṇikośa 12.1.1 · p. 43
अण्डं पेश्यां च मुष्के च खण्डौ काननगोपती ।पण्डः क्लीबे मतिः पण्डा व्याडः पन्नगहिंस्रयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ डान्ताः Koṣakalpataru 6.12.73 · p. 189
वीर्ये च मुष्के शकले तु खण्डो-ऽस्त्री रत्नदोषेक्षुविकारयोश्च ।चण्डस्तु दैत्येऽन्तकसेवके चस्यात्तिन्त्रिणीपादपकोपनेषु ॥ ७३ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.302 · p. 68
यादोभेदे च मकरसंज्ञेऽथो खण्डमस्त्रियाम् ।अर्धे गुडविकारे च कश्चित् स्वादुद्रवेऽभ्यधात् ॥ ३०२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.303 · p. 68
अब्धिजे लवणे क्लीबं भेद्यलिङ्गं तु खण्डिते ।खषो व्रात्याच्छूद्रपूर्वक्षत्रियाजे नरान्तरे ॥ ३०३ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास खकारादयः Paramānandīyanāmamālā 5.8.146 · p. 180
खटः कफे तुणे कृपे खर्ज्जू रोगेक्षुभिद्यपि ।खण्डोऽर्धे मणिदोषेऽप्यैक्षवे खर्वस्तु वामने ॥ १४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 कृ (wrong syllable)
शिवकोष Śivakoṣa · शिवदत्तमिश्र डद्विः Śivakoṣa 10.1.146 · p. 14
खण्डः स्यादिक्षुविकृतौ विश्वदेव्यां तु योषिति ।गुडः फाणौ गुडा हारहूरायां वज्रकण्टके ॥ १४६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश डान्ताः Śabdaratnāvalī 7.13.8 · p. 204
क्रोडोऽङ्कवक्षसोरस्त्री शनिशूकरयोः पुमान् ।खण्डोऽस्त्री शकले पुंसि मणिदोषेक्षुपाकयोः ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.112 · p. 129
खण्डोऽस्त्री शकले नेक्षुविकारमणिदोषयोः ।गण्डः कपोले पिटके श्रेष्ठे गण्डकयोगयोः ॥ ११२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.25 · p. 232
अर्धे गुडविकारे च खण्डोऽस्त्री खण्डिते त्रिषु ।खलं भूस्थानकल्केषु खलो नीचः खलेत्वरी ॥ २५ ॥
अनुष्टुप्

खण्ड as a meaning in nānārtha verses