सिकता
sikatāस्त्री · fem.In 15 kośas: 20 synonym verses, 6 as a nānārtha head word, 6 as a meaning of another word.
सिकता वालुका बिन्दौ पृषत्पृषतविप्रुषः ॥ १०८९ ॥
अनुष्टुप्
genderस्त्रीfem.
सैकतं पुलिनं द्वीपं सिकता वालुका स्मृता ।मध्ये द्वीपमन्तरीपं ह्रदस्तोयाशयो मतः ॥ ६७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
genderस्त्रीfem.
शार्करः शर्करावांश्च देशे चान्यत्र च त्रिषु ।सिकता स्त्री बहुत्वे वा देशे सिकतिलस्त्रिषु ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
सैकतः सिकतावांश्च देशे चान्यत्र च त्रिषु ।स्त्रियां वा भूम्नि सिकता वालुका वालिकापि च ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
विकाराः खण्डजाश्चाथ सिकता तु सितोपला ।अहिच्छत्रो पलाकास्याद्विकारा इक्षुजा अमी ॥ २२० ॥
अनुष्टुप्
genderस्त्रीfem.
प्रणाली जलपर्यायपदवी सिन्धुसंगमे ।संभेदोऽथ स्त्रियां भूम्नि सिकता अपि वालुकाः ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
वा बहुत्वे त्वप्सरसः सिकताः सुमनः समाः ।गायत्र्युष्णिक्प्रभृतयश्छन्दोभेदास्तथाष्टकाः ॥ ११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्व (wrong syllable)
genderस्त्रीfem.
सिकताः प्रायशो भूम्नि स्त्रियां ता यदि पादयोः ।वेधिन्यः स्युस्तदा पद्यास्तथा दृश्यपदा अपि ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
भवेच्छार्करकं वाथ देशे तद्वति योषितौ ।शर्करा-सिकते शर्करिलः सिकतिलस्त्रिषु ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
मीनाण्डी मधुधूलिस्तु खण्डः स्यात्पिण्डश[132a]र्करा ।शर्करा सिकता श्वेताहिच्छत्रा च सितोपला ॥ ८४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शीकरतुषारतुषबुद्बुदफेनौसत[तु]ण्डुला[ल]पूपाः पुंसि स्युः ।आलिमुक्ताजिदर्विसिकताः स्त्रिया[यां]मुदिताः ॥ ४६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
एते शब्दाः पुंसि स्युर्भवेयुरित्यर्थः । शीकरोऽम्बुकणः । तुषारो हिमसन्ततिः । तुषी धान्यबुषः कडङ्गरश्च । बुद्बुदो जलकङ्करः । फेनो जलस्य । समुद्रस्य ओसो अवश्यायः । तण्डुलो धान्यविशेषः । अपूपः पिष्टकस्य । एते शब्दाः स्त्रियामुदिताः कथिताः । इयमालिः पङ्क्तिः । मुक्ता रत्नम् । आजिर्युद्धम् । दर्विर्विभक्तसाधनी । सिकता वालुका ।अजिनाजिरशैवालनलमृणालतुहिनोडुपाज्यसस्यानि । द्वारास्पदकाष्ठानि च नपुंसकान्येव पटलं च ॥ ४७ ॥
metre not recognised
genderस्त्रीfem.
[सिकता?] वालुकाः प्रोक्ता बिन्दवः पृषतः प्रषत् ।विप्रुषोऽप्यथ जम्बालचिकिलौ कर्दमः पुमान् ॥ ३६९ ॥
अनुष्टुप्
genderस्त्रीfem.
वालुका सिकता नाम वालुकायाश्च कथ्यते ॥ १९०३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
जलप्रायप्रदेशः स्यादनूपः कच्छ इत्यपि ।शर्करा स्त्रीकर्परांशे सिकता वालुका स्मृता ॥
अनुष्टुप्
genderस्त्रीfem.
शार्करिलः सैकतिलः शर्करा सिकता अपि ।देश एव चतुष्कं स्यादित्याह मधुमाधवः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 र्क (wrong syllable)
genderविadj.
सिकता, नद्यां ह्रदिनी ह्रादिनी च धुनी धुनिः ।आपगाऽथाप्यपगा श्रोतो दन्त्य-तालव्यगादितम् ॥ १०० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्यां (wrong syllable)
genderस्त्रीfem.
वालुका स्त्री स्त्रियां भूंम्नि सिकताः सिकतावति ।त्रिषु देशे सिकतिलं भ्रमाः सलिलनिर्गमाः ॥ ३२२ ॥
अनुष्टुप्
genderस्त्रीfem.
{लिङ्गादिसङ्ग्रहेऽनुक्तममरेणाऽभिदध्महे ।}स्त्रियामाजिर्दरज्जातिः पूरुभाद्राः समाः शरत् ।सिकताद्या बहुत्वेऽपि विंशत्याद्येकवागपि ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
अस्त्री द्वीपोऽन्तरीपं क्ली पुलिनं तज्जलोत्थितम् ।सैकतं सिकताप्रायं सिकता भूम्नि वालुकाः ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
सिकता वालुकायां स्याद्देशे च सिकतान्विते ।महती नारदी वीणा महत्त्वेनान्विता च या ॥
अनुष्टुप्
वत्सान्तरस्य सन्धानात् सन्धिनीत्यपरे विदुः ।सिकतास्तु बहुष्वेकैर्वालुकायामुदीरिता ॥ १०३ ॥
अनुष्टुप्
meaningsवालुका
सिकतावति देशे च तथैव ब्रुवते परे ।सिंहिका तु जनन्यां स्याद् राहो किञ्च महार्णवम् ॥ १०४ ॥
अनुष्टुप्
meaningsसिकतावद्देश
सिकता as a meaning in nānārtha verses
- धरणिकोश वालुका[8] वालुका सिकता प्रोक्ता वालुकं चैलवालुकम् । नीलिका क्षुद्ररोगः स्यान्नीली शेफालिकापि च ॥ Dharaṇikośa 1.2.45
- कोषकल्पतरु वालुकाझिल्लिका सिह्लके झिल्ल्यां विलेपनमलेऽपि च । वालुका सिकतासु स्त्री द्वयोनं त्वेलवालुके ॥ १९ ॥ Koṣakalpataru 6.1.19
- नानार्थार्णवसंक्षेप वालिकावालकं त्वस्त्रियां ज्ञेयं वलयेऽप्यङ्गुलीयके । ह्रीबेरे तु नपि स्त्री तु वालिका सिकतासु च ॥ १६६८ ॥ Nānārthārṇavasaṃkṣepa 4.1668
- नानार्थार्णवसंक्षेप वालुकावालुका तु स्त्रियामुक्ता सिकतासु नपि त्वदः । एलावालुकसंज्ञे स्याद् भेषजेऽपि विषान्तरे ॥ १६७८ ॥ Nānārthārṇavasaṃkṣepa 4.1678
- शब्दरत्नावली बालुकाबालुका सिकतायान्तु क्लीबं स्यादेलबालुके । भस्मकं व्याधिभेदे च विडङ्गेऽपि च काञ्चने ॥ Śabdaratnāvalī 7.1.114
- त्रिकाण्डशेष बालिकापिञ्जे ना सिकताकर्णभूषाकन्यासु बालिका । शिवमल्ल्यां बकः कह्वे राज्ञि भट्टारकः सुरे ॥ ३५ ॥ Trikāṇḍaśeṣa 3.3.35