पयस्
payasक्ली · neut.In 22 kośas: 32 synonym verses, 9 as a nānārtha head word, 10 as a meaning of another word.
गुड इक्षुरसक्वाथः शर्करा तु सितोपला ॥ ४०२ ॥सिता च मधुधूलिस्तु खण्डस्तद्विकृतिः पुनः ।मत्स्यण्डी फाणितं चापि रसालायां तु भार्जिता ॥ ४०३ ॥शिखरिण्यथ यूर्यूषो रसो दुग्धं तु सोमजम् ।गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ॥ ४०४ ॥
अनुष्टुप्
genderक्लीneut.
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशंतोयं जीवनजीवनीयसलिलार्णांस्यम्बु वाः संवरम् ।क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसीकीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९ ॥कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।
शार्दूलविक्रीडितम्
genderक्लीneut.
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
ऊधस्यं क्षीरं स्याद्दुग्धं स्तन्यं पयश्च पीयूषम् ।दधिसारं नवनीतं ब्रुवते हैयङ्गवीनं च ॥ २७४ ॥
metre not recognised
genderक्लीneut.
आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
मन्दाक्रान्ता
genderक्लीneut.
तत्समूहे झरा तु स्याझ्झरीति परिकीर्तितः ।पयः कीलालममृतं पुष्करं सर्वतोमुखम् ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
दुग्धं प्रस्रवणं धारि सौम्यमूधस्यमित्यपि ।पयोमृतं तन्नारीणां दुग्धे स्तन्यमतः परम् ॥ २२७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
गोधूमजं पिष्टिकोत्थं पवनं तण्डुलोद्भवम् ।वनगोदुग्धजं चापि पयः क्षीरमथापि च ॥ ३६८ ॥
अनुष्टुप्
genderक्लीneut.
स्त्रियामापो वारो बहुषु सलिलं वारि सरिलंजलं पाथः पीथं दकमुदकमम्भोऽम्बु च पयः ।कबन्धं कं पाथं घृतममृतमर्णो जनहितंकृपीटं पानीयं जलदकुसुमं पावन-वने ॥ १ ॥
शिखरिणी
genderक्लीneut.
गव्यं त्रिषु गवां सर्वं पयस्यं तु पयोभवम् ।अस्त्री क्षीरपयः सूमं सोमजोधस्यनामकम् ॥ १६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सुमनस् अप्सरस् इत्येताभ्यां विरहितमुज्झितमित्यर्थः । अस् अन्ते यस्य तदिदमसन्तं पुंसि भवेदित्यर्थः । अयमङ्गिराः चन्द्रमाः स्थूलशिराः । पुरूरवाः उच्चैःश्रवाः दुर्वासाः पृथुयशा इत्यादयः । सुमनसोऽप्सरसश्च स्त्र्यधिकारात्स्त्रियां प्रवृत्तिः । इमाः सुमनसः कुसुमानि । इमा अप्सरसो देवस्त्रियः । द्व्यच्कमसन्तं नपुंसकं भवति । इदमोजः तेजः वर्चः शिरः यशः छन्दः श्रोतः चेतः पयः तपः अम्भः । जरस्शब्दस्यापि नपुंसकता स्यादित्यत आहान्यत्र वै जरसः । नपुंसकात्प्रकृताच्च पुंल्लिङ्गादन्यस्मिन् जरस् शब्दो भवति । स्त्रियाम् । इयं जरा वृद्धभावः ।पुंसि क्षुरखुरबिन्द्विक्षुपायुमणिकीलकेलिबलयः ।निघसङ्घोद्घोपघ्नौघविघ्नघर्मार्घवर्णाश्च ॥ २५ ॥
metre not recognisedimpossible sibilant cluster: जरस्शब्दस्यापि
अङ्गिरस्पुंचन्द्रमस्पुंस्थूलशिरस्पुंपुरूरवस्पुंउच्चैःश्रवस्पुंदुर्वासस्पुंपृथुयशस्पुंसुमनस्स्त्रीअप्सरस्स्त्रीओजस्क्लीतेजस्क्लीवर्चस्क्लीशिरस्क्लीयशस्क्लीछन्दस्क्लीस्रोतस्क्लीचेतस्क्लीपयस्क्लीतपस्क्लीअम्भस्क्लीजरस्स्त्रीजरास्त्रीक्षुरपुंखुरपुंबिन्दुपुंइक्षुपुंपायुपुंमणिपुंकीलपुंकेलिपुंबलिपुंनिघपुंसङ्घपुंउद्घपुंउपघ्नपुंओघपुंविघ्नपुंघर्मपुंअर्घपुंवर्णपुं
genderक्लीneut.
रक्षितं तूद्धृतं स्नेहान्मथितात्तु प्रमाथितम् ।पयो दुग्धं च पीतं च स्तन्यं पुंसवनं रसः ॥ २२७ ॥
अनुष्टुप्
genderक्लीneut.
वार्वारि कं पयोऽम्भोऽम्बु पाथोऽर्णः सलिलं जलम् ।सरं वनं कुशं नीरं तोयं जीवनमब्विषम् ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
सक्तोऽक्षद्यूतपानेषु विचित्रा शब्दपद्धतिः ।सर्पिर्हैयङ्गवीनाज्यं दुग्धं क्षीराऽमृतं पयः ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.
कीलालं यादसां वासः कुशं क्लीबे पयः पुनः ।दकोदके वनं क्षीरं भवनं कमलं समे ॥ ३४५ ॥
अनुष्टुप्
genderक्लीneut.
यूर्यूषरससंज्ञा हि रससब्दाः प्रकीर्तिताः ।क्षीरदुग्धे पयःपुंसवने सोमजमित्यपि ॥ ७२ ॥
अनुष्टुप्
genderक्लीneut.
कमन्धश्च कबन्धश्चोदः कं चाप्युदकं तथा ।करं च पुष्करं चापि पाथः पाश्चार्ण इत्यपि ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.doubtful
रसालाह्वा शिखरिणी पयस्यं दधि द्रप्सकम् ।दुग्धं पयः क्षीरसञ्ज्ञं क्वथिका तक्रमण्डिका ॥ २७३ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 धि (wrong syllable)
genderक्लीneut.
अमृतं जीवनं वारि सलिलं भुवनं पयः ।कबन्धमर्णोम्भस्त्योयमुदकं ककुशं शरम् ॥ २८० ॥
अनुष्टुप्
genderक्लीneut.
नीरं वारि जलं तोयं पानीयं सलिलं कुशम् ।अम्भोऽर्णोऽम्बु पयः पाथः शम्बरं जीवनं वनम् ॥ ११० ॥
अनुष्टुप्
genderक्लीneut.
गोकुलं तु व्रजो घोषो गोष्ठं गोपास्तु बल्लवाः ।दुग्धं पयोऽमृतं क्षीरं गोरसः क्षीरजं दधि ॥ ५० ॥
अनुष्टुप्
genderक्लीneut.
पयश्चेत्यादि नामानि दुग्धस्य कथ्यते बुधैः ।पयस्यं दधि दुग्धोत्थं वस्तुजातं निगद्यते ॥ ६०५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
genderक्लीneut.
पयो यादोनिवासश्च घनरसस्तथोदकम् ।इरा दिव्यं विषं सेव्यं षड्रसं घृतमऽरङ्कुरम् ॥ १८५७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderक्लीneut.
त्रिषु गव्यं गवां सर्वं स्त्री गोविड्गोमयोऽस्त्रियाम् ।शुष्के तस्मिन् करीषोऽस्त्री क्षीरदुग्धपयांसि च ॥
अनुष्टुप्
genderक्लीneut.
अम्भःपुष्करवारितोयजलवाःपाथोवनार्णःपयः-पनीयोदकमेघपुष्पसलिलक्षीराम्बुनीरामृतम् ।कीलालं भुवनं कबन्धकमले तज्जीवनं शम्बरंनारः पुंसि कमव्यये धनरसो नापस्तु भूम्नि स्त्रियाम् ॥ ३१८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 1 प (wrong syllable)
genderक्लीneut.
दुग्धं तु क्षीरमूधस्यं पयः स्तन्यं नवं तु तत् ।पीयूषोऽथ हविः सर्पिर्घृतमाज्यं समार्थकम् ॥ ७६९ ॥
अनुष्टुप्
genderक्लीneut.
इः सूक्ष्मा शाल्मली विद्या चन्द्रः पूषा सुगुह्यकः ।सुमित्रं सुन्दरो वीरः कोटर काटरः पयः ॥ १२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderक्लीneut.
द्वीपाः सप्ताथ सप्तैव समुद्रा अपि कीर्तिताः ।लवणेक्षुसुरासर्पदधिदुग्धपयोमयाः ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
अवदाहः पयः क्षीरं प्राग्गाढं श्रीधनं दधि ।कद्वरं तु दधिस्नेहो जग्धिर्भोजनभक्षणे ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
पयो दुग्धं च पीथं च स्तन्यं पुंसवनं सरम् ।गव्यं ज्येष्ठं मधु क्षीरं योग्यं सोमरसोद्भवम् ॥ १४५ ॥
अनुष्टुप्
genderक्लीneut.
सलिलं मलिनं तोयं मरुलं मेघजं कतम् ।नीरं वारि पयोंऽभोऽर्णो मेघपुष्पं कुलीनसम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
पयस् as a meaning in nānārtha verses
- धरणिकोश अमृतअमृतं पयोघृतजले त्वयाचिते त्रिदशान्नयज्ञविशेषमुक्तिषु । अमृतो दिवौकसि च तच्चिकित्सके- ऽप्यमृताभयामृतकं त्रिकास्वपि ॥ Dharaṇikośa 15.3.30
- कोषकल्पतरु शुण्डापीडा स्यादथ षट्क्षणीव्रणभिदोः स्याद्गण्डदूर्वाशिरा- व्याजेर्यासु च नालयन्त्रभिदि * योक्त्री च नाडी मता । रण्डा मूषिकपर्णिका मृतधवा[276b] स्त्री चाथ रुण्डोऽकरे बन्धक्यां मदनिर्भरे तु परवत्स्त्री दन्तिनः स्यात्करे । वेश्यामद्यसरोजिनीषु पयसश्चेभ्यां च शुण्डा मता- Koṣakalpataru 6.12.15
- कोषकल्पतरु घृतरतं घृतं त्वाज्यपयःसु न स्त्री दीप्तेऽन्यवत्स्यादृतमुञ्छवृत्तौ । सत्ये च तोये परवत्प्रदीप्त- सपूज्ययोश्चाथ कृतं युगे स्यात् ॥ ३ ॥ Koṣakalpataru 6.16.3
- कोषकल्पतरु अमृतधन्वन्तरौ स्वर्गिषु चामृतो ना क्लीबे पयस्यम्भसि यज्ञशेषे ॥ ६९ ॥ Koṣakalpataru 6.16.69
- नानार्थार्णवसंक्षेप स्तीप्तिसीतायामपि साधौ स्यात् कृष्टभूमितलेऽपि च । अथ प्रख्यापने स्त्रीप्तिः स्त्री नभःपयसोः (भके ?) ॥ १५२५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1525
- नानार्थार्णवसंक्षेप मोरकप्रसवादिकसप्ताहादूर्ध्वदुग्धे पयस्यदः । त्रि तु मोरितरि ज्ञेयः स च सवेष्टकः स्मृतः ॥ १४५६ ॥ Nānārthārṇavasaṃkṣepa 4.1456
- शिवकोष रसायनवररसायनवरा धात्रीजीवन्तीत्रिफलासु च । पुनर्नवाकाकमाच्योः क्लीबं पयसि सर्पिषि ॥ ४३६ ॥ Śivakoṣa 22.6.436
- तन्त्राभिधान औअधोदन्तश्च कण्ठोष्ठौ सङ्कर्षणः सरस्वती । आज्ञा चोर्ध्वमुखी शान्तो व्यापिनी प्रकृतः पयः ॥ ४७ ॥ Tantrābhidhāna 2.15.47
- तन्त्राभिधान भनक्षत्रं भ्रमणा दीप्तिर्व(र्भू)यो भूमिः पयो नभः । नाभिर्भद्रं महाबाहुर्विश्वमूर्तिर्विभा(तु)ण्डकः ॥ १३३ ॥ Tantrābhidhāna 2.41.133
- वैजयन्ती पीथपोत्रं मुखाग्रदेशे स्यात्सूकरस्य हलस्य च । नवनीतं पयः पीथं बर्हं पर्णशिखण्डयोः ॥ २२ ॥ Vaijayantī 6.3.22