कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सुभट

subhaṭaपुं · masc.

In 7 kośas: 3 synonym verses, 6 as a meaning of another word.

नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 193 · p. 90
ऊर्जस्फूर्जस्वी तरस्वी तेजस्वी च मनस्व्यपि ।भास्वरो भासुरः शूरः प्रवीरः सुभटो मतः ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.31 · p. 105
विक्रान्तसुभटौ वीरः शूरचारभटौ स्मृतौ ।कातरो भीरुको भीतश्चकितो भीरुभीलुकौ ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.18 · p. 36
शूरो वीरश्चारभटो विक्रान्तः सुभटो बली ।कातरो भीरुको भीरुः कांदिशीको भयद्रुतः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.

सुभट as a meaning in nānārtha verses