All kośas › Śāradīyākhyanāmamālā
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā
462 verses · 4,677 words tagged · 226 marked doubtful (dashed)
तृतीयः काण्डः · राजवर्गः
॥ इति ब्रह्मवर्गः ॥
क्षत्रियो बाहुजः क्षत्रं राजन्यो राजवंशजः ।राजा राट् पार्थिवः क्ष्माभृन्महीक्षिन्नृपतिर्नृपः ॥ ७ ॥
3.2.7 · p. 35
अनुष्टुप्
प्रजापतिः क्षितिपतिर्नरदेवो नराधिपः ।भूपः क्षितीशो भूपालः क्षोणीनाथो नरेश्वरः ॥ ८ ॥
3.2.8 · p. 35
अनुष्टुप्
नरेन्द्रो भूपतिर्भूभुक् सम्राट् तु शास्ति यो नृपः ।चक्रवर्ती सार्वभौमः सर्वदेशाधिपो हि यः ॥ ९ ॥
3.2.9 · p. 35
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
नाथः प्रभुः पतिः स्वामी विभुः परिवृढोऽधिपः ।ईश्वरो नायको नेता भर्तेन्द्र इन ईशिता ॥ १० ॥
3.2.10 · p. 35
अनुष्टुप्
राजचिह्नं त्वातपत्रं छत्रमातपवारणम् ।चामरं वालव्यजनं सिंहासनं नृपासनम् ॥ ११ ॥
3.2.11 · p. 35
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ल (syllables merged)
सभा समज्या परिषत्संसच्च समितिः सदः ।गोष्ठ्यास्थानी समाजश्च पर्षत्सभ्याः समाजिकाः ॥ १२ ॥
3.2.12 · p. 35
अनुष्टुप्
अन्तःपुरं च शुद्धान्तोऽवरोधो नृप [ति?] स्त्रियः ।महिषी पट्टराज्ञी स्यात्सौविदल्लश्च कञ्चुकी ॥ १३ ॥
3.2.13 · p. 35
अनुष्टुप्
परिवारः परिकरः परिबर्हः परिच्छदः ।प्रतिहारो द्वारपालो दौवारिकश्च वेत्रभृत् ॥ १४ ॥
3.2.14 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)
अवसर्पः स्पशश्चारो हेरिकः प्रण(णि)धिश्चरः ।संदेशहारको दूतः पान्थस्तु पथिकोऽध्वगः ॥ १५ ॥
3.2.15 · p. 36
अनुष्टुप्
सेवकः किंकरो भृत्योऽनुजीव्यनुचरोऽनुगः ।दासः प्रेक्षो भृतकश्च चेटः कर्मकरोऽपि च ॥ १६ ॥
3.2.16 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
पत्तिः पदातिः पदगः पुरोगामी पदातिकः ।भटा योधाश्च योद्धारः सैन्याश्च सैनिका अपि ॥ १७ ॥
3.2.17 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
शूरो वीरश्चारभटो विक्रान्तः सुभटो बली ।कातरो भीरुको भीरुः कांदिशीको भयद्रुतः ॥ १८ ॥
3.2.18 · p. 36
अनुष्टुप्
पराक्रमः पौरुषं च बलं शौर्यं च विक्रमम् ।ओजः प्राणस्तरः स्थाम शक्तिर्वीर्यं तथोर्जवत् ॥ १९ ॥
3.2.19 · p. 36
अनुष्टुप्
अरिर्वैरी रिपुः शत्रुर्विपक्षो द्विट् द्विषत्परः ।प्रत्यर्थी प्रत्यवस्थाता सपत्नः शात्रवोऽहितः ॥ २० ॥
3.2.20 · p. 36
अनुष्टुप्
परिपन्थी प्रत्यनीको दस्युदुर्हृदरातयः ।अनीकं कटकं सैन्यं चक्रं दण्डो बलं चमूः ॥ २१ ॥
3.2.21 · p. 36
अनुष्टुप्
वाहिनी ध्वजिनी सेना पृतना च वरूथिनी ।अनीकिन्यक्षौहिणी च स्कन्धावारः पताकिनी ।हस्त्यश्वरथपद्भिश्च चतुरङ्गं बलं स्मृतम् ॥ २२ ॥
3.2.22 · p. 36
अनुष्टुप्
स्यात्सेनाक्षौहिणी नाम खागाष्टैकद्विकै(२१८७०)र्गजैः ।रथैश्चैभ्यो हयैस्त्रिघ्नैः(६५६१०) पञ्चघ्नैश्च(१०९३५०) पदातिभिः ॥ २३ ॥
3.2.23 · p. 36
अनुष्टुप्
आधोरणो हस्तिपको माहामात्रो निषाद्यपि ।यन्ता सादी त्वश्ववारो नियन्ता सूतसारथी ॥ २४ ॥
3.2.24 · p. 36
अनुष्टुप्
संनाहः कवचं दंशस्तनुत्रं वर्म कङ्कटः ।सारसनं त्वधिकाङ्गं वारवाणस्तु कञ्चुकः ॥ २५ ॥
3.2.25 · p. 36
अनुष्टुप्metre not read in every line
शिरस्त्राणं तु शीर्षण्यं जालिका त्वङ्गरक्षिका ।शस्त्रमायुधमस्त्रं च हेतिः प्रहरणं स्मृतम् ॥ २६ ॥
3.2.26 · p. 37
अनुष्टुप्
धनुः कोदण्डमिष्वासश्चापो धन्व शरासनम् ।कार्मुकं जीवा प्रत्यञ्चा ज्यामौर्वीसिञ्जिनीगुणाः ॥ २७ ॥
3.2.27 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
निषङ्गस्तूणतूणीरावुपासङ्गस्तथेषुधिः ।इषुर्बाणः शरः पत्री काण्डो विशिख आशुगः ॥ २८ ॥
3.2.28 · p. 37
अनुष्टुप्
पृषत्कः सायको रोपः कङ्कपत्रः शिलीमुखः ।कलम्बाजिह्मगखगा नाराचश्च क्षुरप्रवत् ॥ २९ ॥
3.2.29 · p. 37
अनुष्टुप्
खेटकः पलकं चर्म शस्त्रिका तु कृपाणिका ।असिधेनुरसिपुत्री छुरिका क्षुरिका च सा ॥ ३० ॥
3.2.30 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable)
करवालासिनिस्त्रिंशकृपाणतरवारयः ।मण्डलाग्रश्चन्द्रहासः खङ्गकौक्षेयरिष्टयः ॥ ३१ ॥
3.2.31 · p. 37
अनुष्टुप्
कुन्तः प्रासस्तथा भल्लो द्रुघणो मुद्गरो घनः ।कुठारः परशुः पर्शुः सुधितिश्च परश्वधः ॥ ३२ ॥
3.2.32 · p. 37
अनुष्टुप्
संग्रामः समरं युद्धं प्रघनं संयुगं रणम् ।जन्यमायोधनं संख्यमाहवः संपरायकम् ॥ ३३ ॥
3.2.33 · p. 37
अनुष्टुप्
संयत्समितिराजिर्युध् द्वंद्वमास्कन्दनं मृधम् ।राटिः समीकं संस्फोटो विग्रहः कलहः कलिः ॥ ३४ ॥
3.2.34 · p. 37
अनुष्टुप्
वैतालिका बोधकरा बन्दिनः स्तुतिपाठकाः ।देशो जनपदो राष्ट्रं नीवृद्विषयमण्डले ॥ ३५ ॥
3.2.35 · p. 37
अनुष्टुप्
पूः पुरं नगरं द्रङ्गो निवेशो नगरी पुरी ।स्थानीयं निगमो ग्रामः पत्तनं पुटभेदनम् ॥ ३६ ॥
3.2.36 · p. 37
अनुष्टुप्
वप्रः शालः कोट्टदुर्गौ प्राकारो वरणश्चयः ।प्रतोली विशिखा रथ्या पुरद्वारं च गोपुरम् ॥ ३७ ॥
3.2.37 · p. 37
अनुष्टुप्
तुरुष्का यवना म्लेच्छाः पारसीकाः शकास्तथा ।प्रष्टाना मुद्गलाश्चैव स साहिस्तेषु योऽधिपः ॥ ३८ ॥
3.2.38 · p. 38
अनुष्टुप्
सीतापतिर्दाशरथिः काकुत्स्थो भरताग्रजः ।रघुनाथो रामचन्द्रः स्यात्सौमित्रिस्तु लक्ष्मणः ॥ ३९ ॥
3.2.39 · p. 38
अनुष्टुप्
वैदेही मैथिली सीता जानकी पृथिवीसुता ।पौलस्त्यो रावणो रक्षो लङ्केशो दशकन्धरः ॥ ४० ॥
3.2.40 · p. 38
अनुष्टुप्
धर्मात्मजोऽजातशत्रुः शल्यारिश्च युधिष्ठिरः ।भीमोऽरिर्बककीचकयोर्वायुपुत्रो वृकोदरः ॥ ४१ ॥
3.2.41 · p. 38
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 चक (syllable split)
धनंजयोऽर्जुनः पार्थ इन्द्रपुत्रः कपिध्वजः ।श्वेताश्वः फाल्गुनो जिष्णुः सव्यसाची च कर्णजित् ॥ ४२ ॥
3.2.42 · p. 38
अनुष्टुप्
प(पा)ञ्चाली द्रौपदी कृष्णा याज्ञसेनी च वेदिजा ।हनूमानञ्जनीपुत्रो मारुतिर्वज्रकङ्कटः ॥ ४३ ॥
3.2.43 · p. 38
अनुष्टुप्