कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

महावीर

mahāvīraपुं · masc.

In 13 kośas: 18 synonym verses, 8 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.30 · p. 5
अरिष्टनेमिस्तु नेमिर्वीरश्चरमतीर्थकृत् ।महावीरो वर्धमानो देवार्यो ज्ञातनन्दनः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.836 · p. 34
होमाग्निस्तु महाज्वालो महावीरः प्रवर्ग्रवत् ॥ ८३६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.14 · p. 9
भरतः कैकयीपुत्रः सुमित्रापुत्रसेवितः ।लवणघ्नो महावीरः शत्रुघ्नोऽमितविक्रमः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.78 · p. 77
भेदाः स्युरस्या अङ्गानां प्रणीतस्तु सुसंस्कृतः ।महावीरः समूह्यः स्यात्परिचाय्योपचाय्यकौ ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.97 · p. 79
घर्माग्निस्तु महाज्वालो महावीरः प्रवर्गवत् ।वेदपाठश्च होमश्चातिथ्यर्चा पितृतर्पणम् ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.303 · p. 282
सितपुष्पोऽप्येकवीरो महावीरः सुवीरकः ।रोहितेयो रौहतः स्यात्तद्वद्रौहित इत्यपि ॥ ३०३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.7 · p. 318
रक्तजिह्वो महावीरो दशमीस्थः सुगन्धिकः ।तथैव श्वेतपिङ्गश्च श्वापदो गर्जितासहः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव भूस्थदेवप्रकाण्डः Kalpadrukośa 2.2.13 · p. 378
अग्निहोत्रो महावीरः पशुपर्यायतः पतिः ।जलेन्धनोऽब्धिकुक्ष्यग्निरौर्वश्च वडवानलः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.50 · p. 456
कश्यपापत्यपर्याय उलूतीशो रसायनः ।स्वर्णपक्षः सुमुखसूर्महावीरः खगार्थकः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.54 · p. 236
हवनी होमकुण्डं स्याद्धुतं त्रिषु वषट्कृतम् ।होमाग्निस्तु महाज्वालो महावीरः प्रवर्गकः ।होमधूमस्तु निगणो होमभस्म तु वैष्टुतम् ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 115 · p. 58
सन्मतिर्महतिर्वीरो महावीरोऽन्त्यकाश्यपः ।नाथान्वयो वर्धमानो यत्तीर्थमिह साम्प्रतम् ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.14 · p. 3
नेमिः पार्श्वो महावीरो भवादवतु वः सदा ।एतस्यामवसर्पिण्यां चतुर्विशतिरर्हताम् ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1394 · p. 220
दर्वी दर्विस्तथैवाऽस्ति नामेह घृतलेखनी ।महाज्वालो महावीरो होमाग्निश्च प्रवर्गवत् ॥ १३९४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.28 · p. 112
हवनी होमकुण्डोऽस्त्री महावीरो मखाग्निषु ।होमधूमो निगरणो वैष्णवं होमभस्मनि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि प्रथमः काण्डः Śabdaratnākara 1.7 · p. 176
महावीरः स वीरश्च, तुर्यार्हन्तस्य वप्तरि ।दन्त्यादिः संवरः, कुन्थुबप्पे शूरश्च सुरयुक् ॥ ७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 सु (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.378 · p. 51
पल्लवकेरलपाण्ड्याश्चेदिमहावीरदारददशार्णाः ।भल्लाटभोजसौकरहेलाहिच्छत्रभौरिकविदर्भाः ॥ ३७८ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1189 · p. 146
महावीरः पात्रभेदे होमधेनुररुन्धती ।दर्भैरग्निपरिस्तारः परिधिर्होम आहुतिः ॥ ११८९ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव ब्रह्मवर्गः Trikāṇḍaśeṣa 2.7.6 · p. 57
क्रतूत्तमश्चाऽथ चान्द्रायणमिन्दुव्रतं स्मृतम् ।हवनी होमकुण्डं स्यान्महावीरो मखानलः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.22 · p. 334
अस्त्री वतंसेऽथ प[63a]वौ च तार्क्ष्येसिंहे पिके कर्कटके च शूरे ।मखानले किञ्च जराटके चबुधा महावीरमिह स्मरन्ति ॥ २२ ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 अ (wrong syllable); pāda 2, syllable 1 सिं (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.449 · p. 64
महावीरो महादेवे पावके गरुडे च ना ।सोमवंशसमुद्भूते वृहद्रथसुते नृपे ॥ ४४९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.450 · p. 65
प्रवर्ग्यपात्रे सुभटे वीरे वज्रेऽप्यथ त्रिषु ।प्रवरे द्वे तु हंसे च श्वेताश्वे च खगेऽपि च ॥ ४५० ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.141 · p. 276
विन्दुतन्त्रः शारिफले प्रशस्तनुरगेऽपि च ।महावीरः सिंहशूरयज्ञाग्निगरुडेषु च ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.142 · p. 276
सञ्चानपक्षिणि श्वेतघोटके च धनुर्द्धरे ।लक्ष्मीपुत्रः स्मरे चाश्वे स्यात्कुशे चैव लवेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.367 · p. 220
विषे स्वादौ च मधुरं मल्लिकायाञ्च माधुरम् ।मखाग्नौ च महावीरो मक्षिकायाञ्च मत्सरः ॥ ३६७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.20 · p. 278
ओतौ चारौ धौतिदेशे मार्जालीयोंऽगशोधने ।महावीरो यज्ञपात्रे गरुडे सुभटे खगे ॥ २० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.21 · p. 278
वज्रेऽश्वे तनये हंसे शूरेऽग्नौ प्रवरे हरौ ।राजादनं प्रियाले ना क्षीरिकायां पलाशके ॥ २१ ॥
अनुष्टुप्
doubtful

महावीर as a meaning in nānārtha verses