कलि
kaliपुं · masc.In 18 kośas: 31 synonym verses, 10 as a nānārtha head word, 8 as a meaning of another word.
प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौर्यौजसीशुष्मं शुष्म च शक्तिरूर्जसहसी युद्धं तु संख्यं कलिः ।संग्रामाहवसंप्रहारसमरा जन्यं युदायोधनंसंस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥ ७९६ ॥द्वन्द्वं समाघातसमाह्वयाभिसंपातसम्मर्दसमित्प्रघाताः ।आस्कन्दनाजिप्रधनान्यनीकमभ्यागमश्च प्रविदारणं च ॥ ७९७ ॥समुदायः समुदयो राटिः समितिसंगरौ ।अभ्यामर्दः संपरायः समीकं सांपरायिकम् ॥ ७९८ ॥आक्रन्दः संयुगश्चाथ नियुद्धं तद्भुजोद्भवम् ।
शार्दूलविक्रीडितम्
प्राणपुंस्थामन्क्लीतरस्क्लीपराक्रमपुंबलक्लीद्युम्नक्लीशौर्यक्लीओजस्क्लीशुष्मक्लीशुष्मन्क्लीशक्तिस्त्रीऊर्जस्क्लीसहस्क्लीयुद्धक्लीसंख्यक्लीकलिपुंसंग्रामपुंआहवपुंसंप्रहारपुंसमरपुंजन्यक्लीयुध्स्त्रीआयोधनक्लीसंस्फोटपुंकलहपुंमृधक्लीप्रहरणक्लीसंयत्स्त्रीरणपुंविग्रहपुंद्वन्द्वक्लीसमाघातपुंसमाह्वयपुंअभिसंपातपुंसंमर्दपुंसमित्स्त्रीप्रघातपुंआस्कन्दनक्लीआजिस्त्रीप्रधनक्लीअनीकक्लीअभ्यागमपुंप्रविदारणक्लीसमुदायपुंसमुदयपुंराटिस्त्रीसमितिस्त्रीसंगरपुंअभ्यामर्दपुंसंपरायपुंसमीकक्लीसांपरायिकक्लीआक्रन्दपुंसंयुगक्लीनियुद्धक्ली
genderपुंmasc.
वीरपानं तु यत्पानं वृत्ते भाविनि वारणे ।युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् ।अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥सम्प्रहाराभिसम्पात कलिसंस्फोट संयुगाः ।अभ्यामर्द समाघात संग्रामाभ्यागमाहवाः ॥ १०५ ॥समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः ।
अनुष्टुप्
वीरपानक्लीयुद्धक्लीआयोधनक्लीजन्यक्लीप्रधनक्लीप्रविदारणक्लीमृधक्लीआस्कन्दनक्लीसंख्यक्लीसमीकक्लीसांपरायिकक्लीसमरपुंक्लीअनीकपुंक्लीरणपुंक्लीकलहपुंविग्रहपुंसम्प्रहारपुंअभिसम्पातपुंकलिपुंसंस्फोटपुंसंयुगपुंअभ्यामर्दपुंसमाघातपुंसंग्रामपुंअभ्यागमपुंआहवपुंसमुदायपुंसंयत्स्त्रीसमितिस्त्रीआजिस्त्रीसमिद्स्त्रीयुध्स्त्री
genderपुंmasc.
सङ्ग्रामः समितिः समिच्च समरं संख्यं समीकं रणं,युद्धं युत्प्रधनं मृधं समुदयः संयत्कलिः संयुगम् ।द्वन्द्वायोधनसम्प्रहारकलहाक्रन्दाहवाभ्यागमाः,संस्फोटप्रविदारणप्रहरणानीकाजयः सङ्गरः ॥ ४५३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
हरीतक्यभया पथ्या धात्री चामलकी शिवा ।कलिरक्षो विभीतः स्यात्त्रितयं त्रिफला स्मृता ॥ ६१८ ॥
अनुष्टुप्
genderपुंmasc.
किसलः स्यात् किसलयः प्रवालप्रवलौ समौ ।कलिः कली च कलिका जालका जालिकापि च ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
समाघातोभिसंपातः संस्कारो दुर्दरः कलिः ।अत्यामर्दश्च सम्मर्दो विमर्दः संयुगोऽस्त्रियाम् ॥ ३४७ ॥
अनुष्टुप्
genderपुंmasc.
विस्तारविटपावस्त्री कलिकोत्कलिके स्त्रियौ ।कलिः कली उभे तद्वत् क्षारको जालिजालके ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
चित्राङ्गदश्चित्ररथश्चित्रसेनोऽङ्गिराः कलिः ।ऊर्णायुरग्रजः सोम उग्रसेनो हहा हुहुः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
द्वापरो यज्ञियः पुंसि क्लीबे कर्मयुगं कलिः ।तिष्यो झर्झरकोऽथैषां वर्षसंख्या क्रमादिमाः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
नरासिराशिवमतिदुन्दुभीनामृषेरपि ।वृष्णिपाण्यञ्जलिज्ञातिगिरीणां कलिना सह ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
[33b]त्रेता स्त्री द्वापरः पुंसि कलिस्तिष्यश्चतुर्युगी ।मनुष्याणां सुराणां तु तयैकं युगमुच्यते ॥ ११० ॥
अनुष्टुप्
genderपुंmasc.
बिभीतकस्त्रिषु पुमानक्षस्तुषफलः कलिः ।संवर्तकः पिशाचद्रुर्मधुजीवो विभेदकः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
संग्रामः समुदाय-संगर-समाघाताभिसंपात-सं-स्फोटारालि-समाह्वया अभिमरोमाराङ्कपुग्विग्रहः ।संस्फेटः कलहः कलिः समुदयः प्राह-प्रघाताहवा-क्रन्दाभ्यागम-संप्रहार-समिधाभ्यामर्द्द-सम्मर्द्दकाः ॥ ५२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
एते शब्दाः[ब्दा] पुंसि भवन्ति । तद्यथा । अयं क्षुरः नापितोपकरणः । अयं खुरः पशुपादः । अयं बिन्दुः विसर्जनीयावयवः । अन्यच्च । अयमिक्षु सस्यजातिः । अयं पायुः अपानम् । अयं मणिः रत्नम् । कीलः शङ्कुः प्रहरणविशेषः । अयं केलिः हासः ॥। अयं के[क]लिः कलहः । अयं बलिर्दैत्यः राजगृह्यदेवतोपहारौ च ।
metre not recogniseddoubled daṇḍa: ॥।
genderपुंmasc.
संग्रामसमरे युद्धं द्वन्द्वसङ्ख्ये कलिः समित् ।अजन्यायोधने संयद्रणो विग्रह इत्यपि ॥ ३९४ ॥
अनुष्टुप्
genderपुंmasc.
वह्न्यग्निदीदिविग्रन्थिकृमयो वमतिस्तथा ।गिरिजायू दृतिः शिश्रुरर्दनिः कलिरञ्जलिः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
युद्धे युद्धं सायुधं युदाजिः संपात इत्यपि ।जन्यं संख्यं मृधं कल्पं कलिरास्कन्दनं तथा ॥ ३८४ ॥
अनुष्टुप्
genderपुंmasc.
संयत्समितिराजिर्युध् द्वंद्वमास्कन्दनं मृधम् ।राटिः समीकं संस्फोटो विग्रहः कलहः कलिः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
आजिरास्कन्दनं द्वन्द्वं प्रधनं प्रविदारणम् ।आहवः सम्प्रहारो युत् प्रहरणं कलहः कलिः ॥ १३२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 प्रह (syllable split)
genderपुंmasc.
युगांशको मासमानः कालग्रन्थिश्च तर्वटः ।सत्यं त्रेता द्वापरश्च कलिरेवं चतुर्युगम् ॥
अनुष्टुप्
genderपुंmasc.
कृतं सत्यं सत्ययुगं त्रेता यज्ञियमेव च ।द्वापरः पार्थनीयश्च (?) झर्झरः कर्मजः कलिः ॥
अनुष्टुप्
genderपुंmasc.
जालिका कोषिका जालं जालकं क्षारकोऽपि च ।कलिः कली च कलिका कोरकोऽङ्कुरितोन्मुखम् ॥
अनुष्टुप्
genderपुंmasc.
अभ्यामर्दः सम्प्रहारो विग्रहः कलहः कलिः ।अभ्यागमोऽभिसम्पातसंग्रामाहवसंयुगाः ॥
अनुष्टुप्
genderपुंmasc.
प्रसूतकं प्रसूतं च प्रफुल्लं फुल्लवत् सुमम् ।कुसुमं कलिकायां तु कलिः स्यात्कोर-कौरकौ ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
अभ्यागमः संप्रहारः संस्फोटः संयुगः कलिः ।महाभीतिकरी वीराशंसनं समरक्षितिः ॥ १३७८ ॥
अनुष्टुप्
genderपुंmasc.
कृतं सत्ययुगं त्रेताऽग्नायी द्वापरयज्ञियौ ।कलिर्झर्झरकः कर्मयुगं पापं तु पातकम् ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
पुंस्त्वे हाहा हूहू-र्ग्रन्थिः पाणिः कलिर्दृतिर्मौलि ।अञ्जलिङ्घ्रिः कुक्षिर्लावकलोकोत्तरासङ्गाः ॥ २ ॥
metre not recognised
genderपुंmasc.
द्वापरे यज्ञियाग्नेयौ पुष्यो झईरकः कलिः ।त्रियुगं तु युगासारं द्व्यायोगं तु युगद्वयम् ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 झ (wrong syllable)
genderपुंmasc.
सुगन्ध्यल्पफला मोचा साष्ठी काष्ठी कदल्यसौ ।विभीतकस्त्रिलिंगः स्यात्कलिस्तिष्यः कलिद्रुमः ॥ १७५ ॥
अनुष्टुप्
genderपुंmasc.
आयोधनं रणं संख्यं प्रथनं प्रविदारणम् ।संप्रहारसमाघातकलिसंस्फोटसंयुगाः ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
कृतं त्रेता द्वापरं च कलिश्चेति यथाक्रमम् ।जायाजीवस्तु शैलूषः शैलाली भरतो नटः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
पर्याप्तेऽपि कृतं स्यादाहवनीयादिषु त्रिषु त्रेता ।सन्देहेऽपि द्वापरमाहुः कलहेऽपि कलिशब्दम् ॥ ७८९ ॥
आर्या
meaningsकलह
विवादमात्रे त्वजयः कलिशब्दमभाषत ।युगे चतुर्थे चालक्ष्म्यां कलरूपेषु धातुषु ॥ २६ ॥
अनुष्टुप्
कलि as a meaning in nānārtha verses
- धरणिकोश कलहवहो वाहे गवां स्कन्धे गृहा दारा गृ[107]हा गृहम् । वैदेही पिप्पली सीता वाराही च महौषधी । निरूहः स्नेहने तर्के कलहः कलियुद्धयोः ॥ Dharaṇikośa 32.1.2
- कोषकल्पतरु रक्तरेणुस्याद्रक्तरेणुर्युजि नागरक्ते पलाशकल्युद्गमने च तद्वत् । उत्क्षेपणं तु व्यजने च धान्य- विमर्दवस्तुन्युदितः प्रवीणैः ॥ ५१ ॥ Koṣakalpataru 6.15.51
- कोषकल्पतरु तिष्यस्यात्तैजसद्रव्यविशेषके च मत्स्यो विराटे नरि राशिभेदे । मीने तथा यादवमुख्यके च तिष्यस्तु पुष्ये कलिनामकश्च ॥ ४५ ॥ Koṣakalpataru 6.26.45
- शब्दरत्नावली कटुसमये हस्तिगण्डेऽपि पिप्पल्याञ्च स्त्रियां कटी । कटुर्ना रसमात्रेऽस्त्री रोहिणीकलिराजिषु ॥ Śabdaratnāvalī 7.11.4
- शब्दरत्नावली तिष्यजया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः । पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥ जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् । जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥ वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु । जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥ तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे । पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥ तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् । द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥ Śabdaratnāvalī 7.26.17
- शब्दरत्नावली झर्झरझर्झरो नदभिद्वाद्यभेदयोस्तु भवेत्कलौ । टहरी स्यान्मृषावाचिझम्पापटहवाद्ययोः ॥ टङ्कारः शिञ्जिनीध्वाने प्रसिद्धौ विस्मये पुमान् । डिङ्गरो डङ्गरे क्षेपे खले धूर्ते च चोरके ॥ Śabdaratnāvalī 7.27.75
- वैजयन्ती तिष्यतर्काः कांक्षावितर्कोहास्त्वष्टा तक्ष्णि द्युशिल्पिनि । मणिदोषे भये त्रासस्तिष्यः पुष्ये कलौ युगे ॥ २५ ॥ Vaijayantī 6.1.25
- वैजयन्ती कृष्णअयोघनेऽनृते फाले दंभे निश्चलयन्त्रके । कृष्णं सीसाघलोहेषु कृष्णो नीले नले कलौ ॥ १४ ॥ Vaijayantī 6.5.14