कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कातर

kātaraवि · adj.

In 14 kośas: 14 synonym verses, 2 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.365 · p. 18
शूरश्चारभटो वीरो विक्रान्तश्चाथ कातरः ।दरिद्रश्चकितो भीतो भीरुभीरुकभीलुकाः ॥ ३६५ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.26
अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः ॥ २६ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.354 · p. 42
शूरो वीरश्च विक्रान्तो भटश्चारभटो भवेत् ।दरितश्चकितो भीतस्त्रस्तो भीरुश्च कातरः ॥ ३५४ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.366 · p. 129
कांदिशीको भयत्रस्तोऽप्यथ भेलस्तु कातरः ।पलङ्कटश्च हरिणपर्यायहृदयार्थकः ॥ ३६६ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.367 · p. 129
अधीरः कातरो भीरुर्भीलुश्चकित इत्यपि ।दरितश्चकिलो भीतस्त्रस्तस्त्रसित इत्यथ ॥ ३६७ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.77 · p. 8
पतिघ्नी पाणिरेखा स्यात्पित्तघ्नं पित्तनाशनम् ।हस्तिघ्नो हस्तिघाती स्याज्जनौः स्याज्जनरक्षकः ॥ओजायमान उक्तोऽसावोजस्वीवाचरेद्धि यः ।अधीरः कातरस्त्रस्नुर्भीरुर्भीरुक-भीलुकौ ॥ ७७ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.31 · p. 105
विक्रान्तसुभटौ वीरः शूरचारभटौ स्मृतौ ।कातरो भीरुको भीतश्चकितो भीरुभीलुकौ ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.651 · p. 111
उपप्लुते स्याद्व्यसनी चोपावृत इति द्वयम् ।अधीरे कातरस्त्रस्नुर्भीरुको भीलुकोऽपि च ॥ ६५१ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.18 · p. 36
शूरो वीरश्चारभटो विक्रान्तः सुभटो बली ।कातरो भीरुको भीरुः कांदिशीको भयद्रुतः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.541 · p. 69
अथ स्याद्भीरुको भीरुः भीतश्च भीलुकस्तथा ।कातरश्चकितस्त्रस्तः त्रस्नुश्च दरितस्तथा ॥ ५४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.83 · p. 42
कातरः कातलोऽपि स्याद् राजीवो राजहासकः ।एते मत्स्यविशेषाः स्युर्यादांसि जलजन्तवः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.32 · p. 160
धृष्टो धृष्णुर्वियातश्च तथा धर्षित इत्यपि ।स्याद्विनीते तु निभृतः प्रश्रितोऽपि निगद्यते ॥स्याद्विलक्षो विलक्ष्यश्च विस्मयान्वित इत्यपि ।अधीरः कातरोऽपि स्यात् द्वयं धैर्यविवर्जिते ॥स्यात् त्रस्नुर्भीरुको भीरुर्भीलुर्भीलुक इत्यपि ।स्यादाशंसुक आशंसुर्भवेदाशंसिता च सः ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1576 · p. 190
त्रस्तश्चकितो दरितो भीतो विग्नो विशङ्कितस्त्रस्नुः ।कातरभीरुकभीलुकभीरव एकादशाधीरे ॥ १५७६ ॥
आर्याmetre not read in every line
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.18 · p. 202
अधीरे कातरत्रस्नुभीरुभीरुकभीलुकाः ।दरिते भीतचकितत्रस्ताः स्निग्धस्तु वत्सलः ॥ १८ ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.445 · p. 85
भीरौ स्यात् षण्डके त्वेष पुमान् स्याद्भेद्यवत् पुनः ।कालेयः कालसम्बन्धिन्यर्थे सर्वत्र नप् पुनः ॥ ४४५ ॥
अनुष्टुप्
doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.32 · p. 259
कातरः पण्डके त्रस्नौ क्षेत्रज्ञावात्मशिक्षितौ ।कुसीदमृणवृद्धौ क्ली वाच्यवद्वृद्धिजीविनि ॥ ३२ ॥
अनुष्टुप्

कातर as a meaning in nānārtha verses