हिंस्रपशु
hiṃsrapaśuपुं · masc.In 5 kośas: 3 synonym verses, 3 as a meaning of another word.
शरभः स्यादूर्ध्वपादः शार्दूलोऽष्टापदोऽपि सः ।अथ हिंस्रपशुर्व्यालो हिंसको हिंस्रकः शिविः ॥
अनुष्टुप्
genderपुंmasc.
श्वापदा हिंस्रपशवः सिंहः पारीन्द्र इत्यपि ।व्याघ्रो वरोत्कटस्तुल्यौ वराहस्तु बहुव्रजः ॥ १८०४ ॥
अनुष्टुप्
genderपुंmasc.
अथ हिंस्रपशुर्व्याडः श्वापदः शिबिरित्यपि ।बाघ्नीणसस्त्वेकचरो गणोत्साहश्च गण्डकः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
हिंस्रपशु as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) व्यालअर्थव्ययसहे व्यालस्तथा हिंस्रपशौ स्मृतः । पोत्रमित्युच्यते प्राज्ञैर्हलशूकरयोर्मुखम् ॥ ८३२ ॥ Abhidhānaratnamālā (Halāyudha) 5.832
- कोषकल्पतरु व्याडिजडोऽन्यवन्मूर्खहिमातुरेषु शूकस्य शिम्बी गदिता जडेति । ग्रन्थौ तु पृष्ठस्य गडुश्च कुब्जे व्याडिस्तु हिंस्रेऽपि पशौ भुजंगे ॥ ६९ ॥ Koṣakalpataru 6.12.69
- शब्दरत्नावली व्याडवण्डा स्त्रियां पांशुलायां हस्तादिवर्जिते त्रिषु । व्याडो विषधरे हिंस्रपशौ शतमखेऽपि च । शुण्डा तु जलहस्तिन्यां हस्तिहस्ते सुरागृहे ॥ Śabdaratnāvalī 7.13.25