कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वराह

varāhaपुं · masc.

In 21 kośas: 25 synonym verses, 6 as a nānārtha head word, 17 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1288 · p. 49
खड्गी वाध्रीणसः खड्गो गण्डकोऽथ किरः किरिः ।भूदारः सूकरः कोलो वराहः क्रोडपोत्रिणौ ॥ १२८७ ॥घोणी घृष्टिः स्तब्धरोमा दंष्ट्री किट्यास्यलाङ्गलौ ।आखनिकः शिरोमर्मा स्थूलनासो बहुप्रजः ॥ १२८८ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 नि (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.2
वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः ।दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.226 · p. 28
कोलः क्रोडः शूकरः स्याद्वराहः,पोत्री दंष्ट्री घृष्टिरुक्तः किरिश्च ।व्याघ्रो द्वीपी पुण्डरीकस्तरक्षुः,शार्दूलः स्याच्चित्रकायो मृगारिः ॥ २२६ ॥
शालिनी
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.308 · p. 94
सूकरो वज्रदंष्ट्रश्च वराहश्च जलप्रियः ।आमरूपी स्तब्धरोमा पीनस्कन्धोऽलसेक्षणः ॥ ३०८ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 56 · p. 5
शार्दूलश्चन्द्रिकापादो मृगादो हिंसकस्तथा ।वराहः सानुजश्च स्यात्कुमुद्वलशयोऽपि च ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम सिंहाधिकारश्चतुर्थस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 4.2 · p. 25
अच्छभल्लस्तु भल्लाटो वराहः स्याज्जलप्रियः ।खड्गस्तु गण्डकी खड्गी महिषो गद्गदस्वरः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.111 · p. 226
सिंहशार्दूलवृषभपुण्डरीकवृषा अपि ।वराहधुर्यधौरेयाः सपर्यायाः क्रमादमी ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.26 · p. 320
वली दन्तायुधः क्रोडः स्तब्धरोमा जलप्रियः ।वराहः सूरिको घृष्टिः सूचीरोमा बहुप्रजः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.30 · p. 321
ध्वजोऽतिभारगो मिश्रशब्दोऽप्यथ महामृगाः ।वराहमहिषन्यङ्कुरुरुरोहितवारणाः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.11 · p. 168
वराहः पूर्णको[47b]ष्टश्च भद्रहंसोऽपरः पुनः ।नादेयः पिण्डमुस्तः स्यान्नागरः पिठरं च सः ॥ ११ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.7 · p. 189
कोलः किटिः स्तब्धरोमा दंष्ट्री पोत्री च रोमशः ।वराहश्च मदारः [64b] स्याच्छिरोमर्मा बहुप्रजाः ॥ ७ ॥
metre not recognised
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 91 · p. 46
क्रोडो वराहो दंष्ट्री च घृष्टिः पोत्री च शूकरः ।उष्ट्रो मयः शृंखलिकः कलभः शीघ्रगामुकः ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.59 · p. 59
मुस्तं मेघो वराहोऽब्दो नादेयो नागरः पृथक् ।पर्पटस्तु रजो रेणुः कवचो ब्रह्मसण्टकः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.128 · p. 9
गण्डाः कटः मदो दानं कलभः करिशावकः ।पोत्री कोलो घृणीर्द्दंष्ट्री वराहो भूमिदारकः ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.163 · p. 18
वराहः शूकरः कोलो गर्दभो रासभः खरः ।कुक्कुरः सारमेयः श्वा भषणः श्वानमण्डलः ॥ १६३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1853 · p. 302
हस्तिनः शिरसि दन्तौ दंष्ट्रा शुनवराहयोः ।मेघो मत्स्यो भुजङ्गमो वेणुर्मौक्तिकयोनयः ॥ १८५३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable); pāda 3, syllable 7 ङ्ग (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2327 · p. 377
वराहो वक्रदंष्ट्रश्च भूदारः सलिलप्रियः ।गृष्टिर्घृष्टिस्तथा घोणी दंष्ट्रीस्तथाऽऽस्यलाङ्गलः ॥ २३२७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.5 · p. 82
अथ शूकरभूदारवराहाः स्थूलनासिकः ।दन्तायुधः स्तब्धरोमा घोणी कोलः किरिः किटिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.149 · p. 20
इन्द्रनीलमहनीलौ समौ मुक्ता तु मौक्तिकम् ।वराहशङ्खमत्स्याहिमेघद्विरदवेणवः ॥ १४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.340 · p. 45
जलौकसः स्त्रियां भूम्नि जलूका रक्तपा च सा ।तन्तुनागो वराहः स्याद् ग्राहो वरुणपाशकः ॥ ३४० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.677 · p. 87
वराहः सूकरः क्रोडः कोलभूदारघोणिनः ।घृष्टिः किटिः किरिर्द्रंष्ट्री स्तब्धरोमा च पोत्रिणि ॥ ६७७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1804 · p. 219
श्वापदा हिंस्रपशवः सिंहः पारीन्द्र इत्यपि ।व्याघ्रो वरोत्कटस्तुल्यौ वराहस्तु बहुव्रजः ॥ १८०४ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.51 · p. 39
नभो वराहो नकुली हृदो वामपदः स्थितः(तिः) ।सदाशिवोऽरुणः प्राणो हयग्रीवो ह-कारकः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
मेघनादो नभः प्राणो हृदो वामपदस्थितः ।हयग्रीवोऽरुणोऽनन्तो वराहो नकुली शिखा ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.5 · p. 65
वराहः सूकरो घोणी वक्रदंष्ट्रो जलप्रियः ।पीनस्कन्धः स्तब्धरोमा कामरूपी तलेक्षणः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास हार्धश्लोकः Dharaṇikośa 32.2.9 · p. 229
प्रवाहो जलवेगेऽपि पारम्पर्यानुवर्तने ।वराहः शूकरे विष्णौ मानभेदेऽम्बुदे गिरौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ हान्ताः Koṣakalpataru 6.32.48 · p. 387
अर्वादिकप्रग्रहवाचकोऽथअब्दे वराहोऽच्युतपोत्रिणोश्च ।स्यान्मानके भूधरमुस्तयोश्चनवाह उक्तः प्रतिपत्तिथौ ना ॥ ४८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1611 · p. 188
श्रेष्ठे नपुंसकं त्वन्ये वराहस्तु पुमान् गिरौ ।मेघेऽङ्गिरःसु प्रवरेऽप्यहनि द्वे तु सूकरे ॥ १६११ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र हत्रिः Śivakoṣa 28.2.537 · p. 49
किणिह्यश्वखुरे मार्गे वराहः किटिमुस्तयोः ।वैदेही रोचनाशौण्ड्योः सुवहा शल्लकीद्रुमे ॥ ५३७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश हान्ताः Śabdaratnāvalī 7.33.24 · p. 298
प्रवाहस्तु प्रवृत्तौ स्यान्नीरस्रोतसि पुंस्ययम् ।वराहः शूकरे मुस्ते मावभेदाब्दसूरिषु ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.460 · p. 256
वराहः सूकरे मेघे मुस्तकेऽप्यथ मूर्च्छने ।अविद्यायाञ्च मोहः स्याद्वृषस्कन्धेऽनिले वहः ॥ ४६० ॥
अनुष्टुप्

वराह as a meaning in nānārtha verses