कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शार्दूल

śārdūlaपुं · masc.

In 20 kośas: 29 synonym verses, 4 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1285 · p. 49
अरण्यजेऽस्मिन्गवलः सिंहः कण्ठीरवो हरिः ॥ १२८३ ॥हर्यक्षः केसरीभारिः पञ्चास्यो नखरायुधः ।महानादः पञ्चशिखः पारीन्द्रः पत्यरी मृगात् ॥ १२८४ ॥श्वेतपिङ्गोऽप्यथ व्याघ्रो द्वीपी शार्दूलचित्रकौ ।चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः ॥ १२८५ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.96 · p. 54
स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः ।सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिका ॥ १४४० ॥मचर्चिका प्रकाण्डोद्घौ प्रशस्यार्थप्रकाशकाः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.1
शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः ॥ १ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.59
स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ।सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.226 · p. 28
कोलः क्रोडः शूकरः स्याद्वराहः,पोत्री दंष्ट्री घृष्टिरुक्तः किरिश्च ।व्याघ्रो द्वीपी पुण्डरीकस्तरक्षुः,शार्दूलः स्याच्चित्रकायो मृगारिः ॥ २२६ ॥
शालिनी
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.307 · p. 94
व्याघ्रो मृगारिः शार्दूलो हिंसारुचन्द्रकी मृगात् ।चित्राङ्गस्तु महाद्वेष्टः पिण्डारस्तु न रोटकः ॥ ३०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 56 · p. 5
शार्दूलश्चन्द्रिकापादो मृगादो हिंसकस्तथा ।वराहः सानुजश्च स्यात्कुमुद्वलशयोऽपि च ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.111 · p. 226
सिंहशार्दूलवृषभपुण्डरीकवृषा अपि ।वराहधुर्यधौरेयाः सपर्यायाः क्रमादमी ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.9 · p. 318
व्याघ्रः पञ्चनखो व्याडः शार्दूलोऽपि गुहाशयः ।तीक्ष्णदंष्ट्रः पुण्डरीको द्वीपी द्वीपिल इत्यपि ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.3 · p. 189
मृगराजः पञ्चनखः शार्दूलः श्वेतपिङ्गलः ।व्याघ्रो द्वीपी द्वीपिनोऽस्त्री हिंसीरोऽप्यथ चित्रकः ॥ ३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.67 · p. 18
स्युरुत्तरपदे व्याघ्र-पुंगवर्षभ-कुञ्जराः ।सिंह-शार्दूल-नागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.70 · p. 16
सिंहः सुगन्धिः पारीन्द्रः शार्दूलः श्वेतपिङ्गलः ।कण्ठीरवो महानादो हरिः शार्दूलविक्रमः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.71 · p. 16
शार्दूलो हिंसरुश्चन्द्रश्चन्द्रकी दृङ्मृगादनः ।पिण्डारकस्तु चित्राङ्गो महादंष्ट्रो वरोटकः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 90 · p. 45
नागाद्यरिः कण्ठी(ण्ठि)रवो मृगेन्द्रः केसरी हरिः ।व्याघ्रश्चमूरः शार्दूलः शरभोऽष्टापदोऽष्टपात् ॥ ९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण्ठी (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.189 · p. 75
मृगारिः केसरी चापि मृगात्पतिरपीक्ष्यते ।हर्यक्षो व्याघ्र इत्येवं द्वीपिशार्दूलचित्रकाः ॥ १८९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.329 · p. 93
स्यात्पूर्वपदतो योगश्चैषां मुख्यार्थवाचिनाम् ।शार्दूलसिंहनागोद्धमचर्चिकामतल्लिकाः ॥ ३२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्चि (wrong syllable)
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.687 · p. 116
स्युरुत्तरपदे चन्द्रपुङ्गवर्षभनायकाः ।मत्तेभव्याघ्रशार्दूलनागराजमुखादयः ॥ ६८७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.126 · p. 9
हर्यक्षः केसरी सिंहो हरिः पञ्चाननः सटी ।द्वीपी व्याघ्रो वर्त्तुलाक्षः शार्दूलो मृगमांसभुक् ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.153 · p. 17
द्वीपी व्याघ्रश्चित्रकायः शार्दूलः शरभोऽष्टपाद् ।गजो मतङ्गजो हस्ती मातङ्गः कुञ्जरः करी ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2322 · p. 376
व्याघ्रो द्वीपी च शार्दूलश्चित्रकायश्च चित्रकः ।पुण्डरीकश्च नामानि व्याघ्रस्य प्रथयन्ति वै ॥ २३२२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2618 · p. 422
सिंहशार्दूलनागाद्या उत्तमार्थे भवन्ति वै ।वृन्दारकस्तल्लजश्च मतल्लिका मचर्चिका ॥ २६१८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल्लि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.3 · p. 82
शरभः स्यादूर्ध्वपादः शार्दूलोऽष्टापदोऽपि सः ।अथ हिंस्रपशुर्व्यालो हिंसको हिंस्रकः शिविः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.4 · p. 82
व्याघ्रो द्वीपी च शार्दूलो हिंसारुः श्वापदोऽपि च ।अथ तक्षुस्तरक्षुश्च मृगादनतरक्षकौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.11 · p. 164
श्रेष्ठार्थवाचकाः पुंसि स्युरुत्तरपदेष्वमी ।शार्दूलसिंहनागाद्याः कुञ्जरर्षभपुङ्गवाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.676 · p. 86
सिंहः पञ्चमुखो हरिर्मृगपतिः कण्ठीरवः केसरीहर्यक्षो नखरायुधोऽथ कुठरः स्यादल्पकण्ठीरवः ।सिंहारिः शरभोऽष्टपादथ समाः शार्दूलपिण्डारक-व्याघ्रद्वीपितरक्षुचित्रतनवः स्युः पुण्डरीकोऽप्यमी ॥ ६७६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1574 · p. 190
ऋषभः कुञ्जरः सिंहः शार्दूलो व्याघ्रपुंगवौ ।नाग इत्यादयः पुंसि श्रेष्ठार्थाः स्युः पदात् परे ॥ १५७४ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सिंहादिवर्गः Trikāṇḍaśeṣa 2.5.2 · p. 43
मरुत्प्लवश्च नादोऽस्य चुक्कारः क्ष्वेडितं च तत् ।उत्पादकस्तु शरभः शार्दूलोऽष्टापदश्च सः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.1 · p. 65
सिंहो मृगेन्द्रः पञ्चास्यः पारीन्द्रः श्वेतपिंगलः ।व्यादीर्णास्यो महानादः शार्दूलस्तुल्यविक्रमः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.3 · p. 65
व्याघ्रो मृगारिः शार्दूलो हिंसारुश्चन्द्रकी मृगात् ।हुण्डश्चाल्पस्त्वयं द्वीपी चुलुको भेलमेहिनौ ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास लार्धश्लोकः Dharaṇikośa 27.2.40 · p. 196
पातालं नागलोके स्यात्पातालं वाडवानले ।शार्दूलो द्वीपिनि श्रेष्ठे पशुपक्षविशेषयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.50 · p. 352
दोहदवत्यां श्राद्धे त्रिष्वथ रात्रिंचरे व्याघ्रे ।शार्दूलः पशुभेदे पदोत्तरस्थस्त्रिषु श्रेष्ठे ॥ ५० ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1822 · p. 206
व्याघ्रे सिंहे च शार्दूलो ना भागोत्तरवर्धिनाम् ।हिङ्वादीनां दशानां स्याच्चूर्णेऽथो पुंसि शाबरः ॥ १८२२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.96 · p. 283
शार्दूलो राक्षसे व्याघ्रे पशुभेदे पुमानयम् ।स्यादुत्तरपदस्थोऽयं श्रेष्ठ एव निगद्यते ॥
अनुष्टुप्

शार्दूल as a meaning in nānārtha verses