कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शरभ

śarabhaपुं · masc.

In 17 kośas: 17 synonym verses, 3 as a nānārtha head word, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.102 · p. 49
शरभः कुञ्जरारातिरुत्पादकोऽष्टपादपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.11
कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ।गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥गन्धर्वः शरभो रामः सृमरो गवयः शशः ।इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 5 · p. 1
शिवः पुराणाधिपतिः शितिकण्ठः पुरान्तकः ।शरभः केशवपतिः शिवाङ्गः सर्वतोमुखः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.15 · p. 371
ध्रुवो मिताशनः शक्तिः क्रीडनोऽन्यादृशो मुनिः ।एतादृगीदृक् शरभो धातुरूपो विराड्गयः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.2 · p. 189
हर्यक्ष-पञ्चास्य-गभीरनादाः स्याच्छ्वेतपिङ्गश्च स केसरी च ।अष्टापदस्तूर्ध्वचतुष्पदः स्यादूर्ध्वेक्षणः स्याच्छरभो हरिद्विट् ॥ २ ॥
इन्द्रवज्रा
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.39 · p. 192
सिंहादीनां स्त्रियां जातौ सिंही व्याघ्री च शूकरी ।वानरी हरिणी च स्याच्छम्बरी गवयीति दिक् ॥कडंकरं त्वर्हति यः कडंग(क)र्यः स भेद्यवत् ।पशुः कडंग(क)रोऽपि स्याच्चारिः स्त्री पशुभोजनम् ॥मृगेन्द्राद्या गवाद्याश्च सर्वे स्युः पशुजातयः ।रोमन्थो ना पशूनां यद्भवेच्चर्वितचर्वणम् ॥स रोमन्थायमानो यो हनुना व[67a]र्तयत्यमुम् ।गन्धर्वः शरभो रामः सृमरो गवयः शशः ॥ ३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.80 · p. 18
मृगाद्याः कृष्णसाराद्यास्त एव पशवः स्मृताः ।अष्टपादो गजारातिः शरभस्तूत्पदो रविः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 90 · p. 45
नागाद्यरिः कण्ठी(ण्ठि)रवो मृगेन्द्रः केसरी हरिः ।व्याघ्रश्चमूरः शार्दूलः शरभोऽष्टापदोऽष्टपात् ॥ ९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण्ठी (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.191 · p. 75
-----------------------अष्टपाच्छरभो मतः ।उत्पादकः कुञ्जरारिर्गोसदृग्गवयः स्मृतः ॥ १९१ ॥
metre not recognised
genderपुंmasc.doubtful
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.153 · p. 17
द्वीपी व्याघ्रश्चित्रकायः शार्दूलः शरभोऽष्टपाद् ।गजो मतङ्गजो हस्ती मातङ्गः कुञ्जरः करी ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2323 · p. 376
शरभः कुञ्जरारातिश्चाष्टापदस्तथाऽष्टपाद् ॥ २३२३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.3 · p. 82
शरभः स्यादूर्ध्वपादः शार्दूलोऽष्टापदोऽपि सः ।अथ हिंस्रपशुर्व्यालो हिंसको हिंस्रकः शिविः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.145 · p. 147
उष्ट्रः क्रमेलशरभौ करभः कण्टकाशनः ।तोलिर्बहुकरो वक्रग्रीवो धकरुद्वीपाः(?) ॥मय-वासन्त-लम्बोष्ठमहाङ्गाश्च क्रमेलकः ।उष्ट्रस्य शिशवो ये स्युः करभाः करभाश्च ते ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.676 · p. 86
सिंहः पञ्चमुखो हरिर्मृगपतिः कण्ठीरवः केसरीहर्यक्षो नखरायुधोऽथ कुठरः स्यादल्पकण्ठीरवः ।सिंहारिः शरभोऽष्टपादथ समाः शार्दूलपिण्डारक-व्याघ्रद्वीपितरक्षुचित्रतनवः स्युः पुण्डरीकोऽप्यमी ॥ ६७६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सिंहादिवर्गः Trikāṇḍaśeṣa 2.5.2 · p. 43
मरुत्प्लवश्च नादोऽस्य चुक्कारः क्ष्वेडितं च तत् ।उत्पादकस्तु शरभः शार्दूलोऽष्टापदश्च सः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
उत्पलिनी Utpalinī · व्याडि Utpalinī 7 · p. 46
अपुत्रो ब्राह्मणः कुम्भः कल्माषः पिण्डिजातकम् ।अधिमुख्यं श्रेष्ठिजातं दमयन्ती महाकपिः ।बोधिर्ब्रह्मा महाबोधिर्वानरः शरभो रुरुः ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.32 · p. 67
गन्धर्वः स्याद्गोलपुसो रामस्तु वृकधोरणः ।शरभस्तु गजारातिरुत्पाश्चाष्टपादपि ॥ ३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ बान्ताः Koṣakalpataru 6.24.46 · p. 277
कनिष्ठिकान्ते मणिबन्धनात्स्यात्तथोष्ट्रशावे करभः प्रदिष्टः ।अष्टापदे स्याच्छरभो नृलिङ्गोमृगप्रभेदेप्यृषभो वृषे स्यात् ॥ ४६ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1771 · p. 201
शरभः सिंहशत्रौ स्यादष्टपात्संज्ञके मृगे ।मृगान्तरे च रभसः करभे चोक्तवानमुम् ॥ १७७१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भान्ताः Śabdaratnāvalī 7.24.13 · p. 252
वल्लभोऽध्यक्षदयितशुभलक्षपावाजिषु ।वर्षाभूः स्त्री तु शोथघ्न्या भूवल्ली भेकयोः पुमान् ॥विष्कम्भः प्रतिबन्धे च विस्तारयोगभेदयोः ।योगिबन्धभेदेऽर्गलारूपकाङ्गप्रभेदयोः ॥विस्रम्भः प्रणये केलिकोपविश्वासयोरपि ।विष्टभ्यो रोगभेदे स्यात्प्रतिबन्धे भवेत्पुमान् ॥वैदर्भं वाक्यवक्तत्वे वेदर्भी रीतिभिद्यपि ।शरभः पशुभेदे स्यात्करमे वानरेऽपि च ॥सनाभिः सदृशे पुंसि ज्ञातौ स्नेहयुतेऽपि च ।सुरभिः शल्लकीमातृसुरागोष्वपि च स्त्रियाम् ॥वसन्ते चम्पके जातीफलगन्धफले पुमान् ।क्लीबं गन्धाश्मनि स्वर्गे सुगन्धिकान्तयोस्त्रिषु ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 पा (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्धि (wrong syllable)

शरभ as a meaning in nānārtha verses