कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वैणव

vaiṇavaक्ली · neut.

In 12 kośas: 21 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र पृथ्वीकायः Abhidhānacintāmaṇipariśiṣṭa 4.1.161 · p. 6
सुवर्णे लोभनं शुक्रं तारजीवनमौजसम् ।दाक्षायणं रक्तवर्णं श्रीमत्कुम्भं शिलोद्भवम् ॥ १६० ॥वैणवं तु कर्णिकारच्छायं वेणुतटीभवम् ॥ १६१ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.18
आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदम्फले ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.726 · p. 84
वैणवो लगुडो रम्भो दण्डो यष्टिश्च कथ्यते ।गतिर्वीखा विहारः स्यात्परिसर्पः परिक्रमः ॥ ७२६ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर एकादशोपदेशः Bālaprabodhikā 11.194 · p. 84
काञ्जनं रसबीजं च वेधार्हं रसवेधजम् ।वेणूदरसमुद्भूते वैणवं कर्णकारकम् ॥ १९४ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.74 · p. 14
वैणवो वेणुसम्भूतः शमनो दार्विकः स्मृतः ।पवित्रं च कराग्निः स्यात्पैतृकः कव्यवाहनः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.18 · p. 70
औदुम्बरः स आषाढो वर्णः सोपि च वैणवः ।रम्भाभङ्गो गृहस्थानां व्रते स्याद्व्रतिनामपि ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.539 · p. 192
द्युम्नं स्त्रियौ रा रयी ना कोशोर्थो विभवोऽपि च ।शोभोजनं वैणवं च दीप्तं दीप्तकमुज्ज्वलम् ॥ ५३९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.45 · p. 253
आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदादि च ।बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.19 · p. 407
सन्ध्यानां त्रितये चापि वैणवं च त्रिसन्ध्यकम् ।पुंसि त्रिसन्धिश्चाथ स्याच्चतुर्थ्यां प्रहरावधि ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.45 · p. 138
प्लाक्षं शैग्रव[22a]माश्वत्थं नैयग्रोधं च बार्हतम् ।वैणवं चैङ्गुदं च स्यात्फलं प्लक्षादिसंभवम् ॥ ४५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.7 · p. 184
वेणुबीजं वेणुयवो वैणवं वेणुसंभवम् ।इक्षुमूलं मोरटं स्यादिक्ष्वाली चेक्षुबालिका ।रक्तेक्षुरित्कटः सूक्ष्मपत्रः कक्कटिका(?)पि सः ॥ ७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.41 · p. 15
इह लोके भवादौ स्यात्सुखादावैहलौकिकम् ।वेत्रकीयं तु वेत्रस्य वेणुकीयं तु वैणवम् ।यौष्माकीणं युष्मदीयं यौष्माकं च त्रयं समम् ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण भूम्यधिकारस्तृतीयस्सर्गः Śabdacandrikā 3.20 · p. 39
तत्तु चिन्तामणिर्वेणौ सम्भवे वैणवं स्मृतम् ।गजकुम्भतलोद्भूते त्वणिराणिरितीर्यते ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1356 · p. 215
प्रोक्तावाषाढपालाशौ व्रतपालाशदण्डके ।राम्भस्तु वैणवोऽपि स्याद् दण्डो वंशस्य वै व्रतेः ॥ १३५६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1808 · p. 295
औजसमर्जुनं चन्द्रो दाक्षायणञ्च वैणवम् ।रक्तवर्णं हिरण्यं च हेम हेमञ्च हाटकम् ॥ १८०८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.455 · p. 60
शैग्रवं वैणवं च स्युरश्वत्थादिफले क्रमात् ।फले स्वलिङ्गा व्रीह्याद्या हरीतक्यादयस्तथा ॥ ४५५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1516 · p. 183
तक्षा तु करणाज्जातो माहिष्याद्वैणवस्तथा ।आयोगवाच्चर्मकारो मागधात्ताम्रजीवकः ॥ १५१६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.21 · p. 42
वैणवं कर्णिकाराभं वेणूतटजकाञ्चनम् ।सुवर्णद्वीपजास्वर्णशुक्तिकाभ्रकसन्निभाः ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.22 · p. 46
अश्वत्थमैंगुदं प्लाक्षं नैयग्रोधं च बार्हतम् ।वैणवं शैग्रवं चाथ जम्बूः स्त्री जम्बु जांबवम् ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.38 · p. 75
विप्रा नाविकमंबष्ठादस्मिन् क्वापि श्वपाकवाक् ।वैणवं सैव माहिष्याद्रजकं पारधेनुकात् ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.18 · p. 84
सौत्री तु धटिनी रंभा दण्डस्तु दमयन्तिका ।पालाशो दण्ड आषाढो व्रते रांभस्तु वैणवः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1759 · p. 200
तवाहंसोमवर्गस्य साम्नोः प्रथमयोः स्मृतम् ।वैणवस्तु द्वयोर्मर्त्यजातिभेदे यदुद्भवः ॥ १७५९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1760 · p. 201
ब्राह्मण्यां तत्र माहिष्यात् त्रिस्तु वेणुविकारके ।क्ली तु स्वर्णविशेषे स्याद् वेणूतटसमुद्भवे ॥ १७६० ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1761 · p. 201
कर्णिकारंप्रभेऽथो ना शम्बरो गिरिमेघयोः ।दैत्यभेदे च विज्ञेयो यो बिभर्त्युरसा स्त्रियम् ॥ १७६१ ॥
अनुष्टुप्
doubtful