कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मलय

malayaपुं · masc.

In 17 kośas: 21 synonym verses, 7 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.143 · p. 40
क्रौञ्चः क्रुञ्चोऽथ मलय आषाढो दक्षिणाचलः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र पृथ्वीकायः Abhidhānacintāmaṇipariśiṣṭa 4.1.156 · p. 6
मलयश्चन्दनगिरिः स्थाल्लोहे धीनधीवरे ॥ १५६ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.7 · p. 22
मलयस्त्रिकलाषाढौ भद्राचल इतीर्यते ।श्रीखण्डाद्रिश्चन्दनाद्रिः पाटीराद्रिरितीर्यते ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पर्वतादिप्रकाण्डः Kalpadrukośa 1.13.12 · p. 342
अपि किष्किन्धकिष्किन्ध्यौ वानराणां गिरौ द्वयम् ।दक्षिणाचल आषाढो माल्यवान्मलयोऽस्त्रियाम् ॥ १२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.173 · p. 480
हिरण्यारण्यसख्यानां राजसूयकषाययोः ।स्याद्वाजपेयमलयशल्यानां वलयस्य च ॥ १७३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.5 · p. 127
मेनका तस्य कान्ताथ क्रौञ्चः क्रुञ्चोऽपि कौञ्चवत् ।मलयोऽस्त्री दक्षिणाद्रिराषाढे जकुटोऽस्त्रियाम् ॥ ५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.11 · p. 128
महेन्द्र-शुक्ति-मलय-पारियात्रक-ऋक्षकाः ।सह्यो विन्ध्य इमे सप्त कुलशैलाः प्रकीर्तिताः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 152
हिमं महार्हं मलयं श्वेतं स्याच्चन्द्रकान्तकः ।हरिचन्दनमस्त्री स्याद्गोशीर्षं तैलपर्णिकः ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.58 · p. 114
genderपुंक्लीm. n.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.30 · p. 11
परापरश्चक्रवालो लोकान्तो लोकवीक्षणः ।मलयस्त्रिकलाषाढौ विन्ध्यस्तु जलवालकः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.308 · p. 42
मैनाको हिमवत्पुत्रे सुनाभोऽष्टापदे त्वथ ।स्फटिकाद्रिरथ कैलासे रजतोऽद्रिर्मलये त्वथ ॥ ३०८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.151 · p. 229
मैरेयराजसूयौ च शल्यकुल्याव्ययान्यपि ।हिरण्यारण्यसंख्यानि मलयो वलयोऽपि च ॥ १५१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शैलमरीचिः Pañcatattvaprakāśa 1.2.118 · p. 9
अस्तशैलः पश्चिमाद्रीरस्ताद्रीर्वारुणी गिरिः ।भुजगाद्रिर्गन्धशैलो मलयश्चन्दनाचलः ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1775 · p. 290
चन्दनगिरिराषाढो मलयो दक्षिणाचलः ॥ १७७५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शैलवर्गप्रकाशः Śabdaratnāvalī 3.3.8 · p. 55
ब्रह्मयोनिर्ब्रह्मगिरिः कोलः क्रौञ्चोऽपि मन्दरः ।चन्दनाद्रिस्तथाषाढो मलयो मलयाचलः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्ब्र (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.376 · p. 50
काश्मीरावन्तिमद्रद्रमिडमगधसौवीरकर्णाटलाटाःपाञ्चालाङ्गत्रिगर्ताः कुरुमलदकलिङ्गोत्कलाः कामरूपाः ।लम्पाकाश्चीनगौडा मरुकुकुरमहाराष्ट्रसौराष्ट्रसाल्वाःवङ्गा भङ्गालसुह्माः शकमलभ(य?)विदेहान्ध्रनेपालपुण्ड्राः ॥ ३७६ ॥
स्रग्धरा
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.408 · p. 54
हिमवांश्चन्दनशैलो मलयस्त्रिककुत् त्रिकूटगिरिः ।प्रस्रवणमाल्यवन्तौ मन्दरमन्थानभूधरौ च समौ ॥ ४०८ ॥
उद्गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.410 · p. 55
महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ।विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ ४१० ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव शैलवर्गः Trikāṇḍaśeṣa 2.3.3 · p. 35
पूर्वाद्रिर्दिनमूर्धा स्यादस्ताद्रिश्चरमाचलः ।चन्दनाद्रिस्त मलयः कौञ्चः क्रौञ्चश्च माल्यवान् ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव शैलवर्गः Trikāṇḍaśeṣa 2.3.4 · p. 35
महेन्द्रो मलयः सह्यः शुक्तिमान् गन्धमादनः ।विन्ध्यश्च पारियात्रश्च सप्तैते च कुलाचलाः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.3 · p. 41
लोकालोकश्चक्रवालो लोकांताद्रिः पराचलः ।मलये त्रिकलाषाढौ विन्ध्यस्तु जलवालकः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास यार्धश्लोकः Dharaṇikośa 25.2.19 · p. 153
चैत्यमायतनं विद्याच्चैत्यमुद्देशपादपः ।मलयो देश आरामे चन्दने पर्वतान्तरे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.58 · p. 295
वलयः करकङ्कणे गणेगदितोऽस्त्री नरि कण्ठरुग्भिदि ।मलयस्तु वने च कृत्रिमेगिरिभेदेऽपि धरांशदेशयोः ॥ ५८ ॥
वियोगिनी
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1339 · p. 164
महोग्रा भेद्यवत् तु स्यादत्युग्रेऽथ नृशण्डयोः ।मलयः शैलभेदे स्याद् देशेऽप्यवयचे गिरे ॥ १३३९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1340 · p. 164
आरामे चाप्यर्थ ज्ञेयं मञ्जुलं त्रिषु सुन्दरे ।द्वयोस्तु पक्षिभेदे स्याज्जलरङ्काह्वयेऽप्यथ ॥ १३४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्य (wrong syllable)
meaningsआराम
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र यत्रिः Śivakoṣa 21.2.356 · p. 33
पयस्या दुग्धिकावीराकाञ्चनक्षीरिणीषु च ।मलया त्रिवृताभेदे मलयः श्वेतचन्दने ॥ ३५६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.46 · p. 261
पानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् ।पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् ।वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः ।भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके ।स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥मलयो ना चलारामदेशेषु स्त्री तथौषधे ।मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च ।अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च ।रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् ।विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि ।विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 सू (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 3, syllable 7 द्भ (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.63 · p. 262
उद्याने मलयं ना तु गिर्यंशगिरिभेदयोः ।मत्सरोऽन्योदयद्वेषे तद्वत्कृपणयोस्त्रिषु ॥ ६३ ॥
अनुष्टुप्

मलय as a meaning in nānārtha verses

  • कोषकल्पतरु आषाढव्रतिनां पलाशदण्डे मलये मासे तथाषाढः । वस्त्राञ्चले कपाटे पाट*ये(?) स्याच्च वारूढः ॥ १० ॥ Koṣakalpataru 6.14.10
  • शब्दरत्नावली गिरिसारकालञ्जरो योगिचक्रमेलकाद्रिशिवेषु च । कृष्णसारो मृगस्नुह्योः शिंशपायामपि स्त्रियाम् ॥ गिरिसारस्तु मलये लोहे बङ्गे च कीर्त्यते । चराचरं भवेत्क्लीबं जगति त्रिषु जङ्गमे ॥ चक्रधरो ग्रामजालिभुजङ्गमहरिष्वपि । तोयधरो मेघमुस्तासुनिषम्रौषधीष्वपि ॥ Śabdaratnāvalī 7.27.124
  • तन्त्राभिधान यत्व(वे)गात्मा मलयो माता हंसिनी भृङ्गनायकः । चेतना शोषको मीनो धनिष्ठाऽनङ्गवेदिनी ॥ १४२ ॥ Tantrābhidhāna 2.43.142