कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रजस्

rajasक्ली · neut.

In 22 kośas: 43 synonym verses, 14 as a nānārtha head word, 24 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.251 · p. 24
राका तु सरजाः कन्या स्त्रीधर्मः पुष्पमार्तवम् ।रजस्तत्कालस्तु ऋतुः सुरतं मोहनं रतम् ॥ ५३६ ॥संवेशनं संप्रयोगः संभोगश्च रहो रतिः ।ग्राम्यधर्मो निधुवनं कामकेलिः पशुक्रिया ॥ ५३७ ॥व्यवायो मैथुनं स्त्रीपुंसोर्द्वंद्वं मिथुनं च तत् ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.23 · p. 44
कुड्मले मुकुलं गुञ्छे गुच्छस्तबकगुत्सकाः ।गुलुञ्छोऽथ रजः पौष्पं परागोऽथ रसो मधु ॥ ११२६ ॥मकरन्दो मरन्दश्च वृन्तं प्रसवबन्धनम् ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र पृथ्वीकायः Abhidhānacintāmaṇipariśiṣṭa 4.1.158 · p. 6
त्रपुणि श्वेतरूप्यं स्यात्सठं सलवणं रजः ।परासं मधुकं ज्येष्ठं घनं च मुखभूषणम् ॥ १५८ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.29
विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः ॥ २९ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.31
विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला ।स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ॥ २० ॥ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.98
रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः ॥ ९८ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.188 · p. 23
पौष्पं रजः परागः स्यान्मकरन्दो मधुः स्मृतः ।स्तवको गुच्छको गुच्छो गुलुञ्छः परिकीर्तितः ॥ १८८ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.443 · p. 51
रंहस्तरः स्यदः स्यात्प्रसरो वेगो रयो जवो वाजः ।पांशुः क्षोदो रेणुश्चूर्णं धूली रजश्च तुल्यार्थाः ॥ ४४३ ॥
गीतिः
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर दशमोपदेशः Bālaprabodhikā 10.176 · p. 82
इष्टका लोष्टका तु स्यादूपरस्तु … मृत्तिका ।धूलिश्चापि रजः पांसू रेणुः स्यादनिलध्वजः ॥ १७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
स्त्रीपुष्पे गुणधूल्योश्च रजोऽयं रजसा सह ।गुणेऽदन्तं तमः सान्तं तमश्चाहुर्मनीषिणः ॥ २६८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.43 · p. 24
उच्चभाला मरुण्डा स्यात्षण् रजः पुष्पमार्त्तवम् ।स्त्रीधर्मो ना रजोऽपि स्यादथ जाया कुटुम्बिनी ॥ ४३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.334 · p. 126
संशप्तका अथ रजः क्षोदः सान्ते उभे च षण् ।रेणुस्त्रिषु रजः क्लीबे धूलिर्धूली स्त्रियामुभे ॥ ३३४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.96 · p. 416
क्षेत्रं तमः प्रसूनं स्यात् पुंसि सत्त्वं रजः पुमान् ।रजस् क्लीबे तमः पुंसि तमस् क्लीबेऽथ जन्म षण् ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.19 · p. 2
जीवजन्युं प्राणिनोऽस्मिन्नंशुमान्सत्त्वमस्त्रियाम् ।क्लीबे प्रकाशार्कसत्त्वं रजो ना रञ्जकं रजः ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.51 · p. 206
ऋतुमत्यप्युदक्यावीः स्त्रीधर्मिण्यार्तवः पुनः ।[77a]स्त्रीधर्मश्च रजः पुष्पमृतुस्तत्समयो भवेत् ॥ ५१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.46 · p. 265
रेणुस्त्रिषु स्त्रियां धूली रजनं शूक-पांशकः ।पांशुश्च न रजो द्वंद्वे क्षोदश्चूर्णो न योषिति ॥ ४६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.4 · p. 306
शारीरा मनसस्तु स्याद्द्वौ दोषौ हि रजस्तमः ।संसर्गः संनिपातश्च तद्द्वित्रिक्षयकोपतः ।रसाद्याः समला दूष्याश्चयो वृद्धिः स्वधाम्नि या ॥ ४ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 151 · p. 73
परागं मधु किञ्जल्कं मकरन्दं च कौसुमम् ।उपचाराद्रजःपांशुरेणुधूलीश्च योजयेत् ॥ १५१ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.253 · p. 36
धूली रेणू रजः पांशुश्चूर्णं क्षोदः खलं पुनः ।खलधानं दलिर्लोष्टे लेष्टुलोष्टू तु कुत्रचित् ॥ २५३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.38 · p. 56
मुकुलं कुड्मलं ज्ञेयं गुलुञ्छो गुच्छगुत्सकौ ।स्तबकोऽथ रजः पौष्पं परागोऽप्यथ तद्रसः ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.59 · p. 59
मुस्तं मेघो वराहोऽब्दो नादेयो नागरः पृथक् ।पर्पटस्तु रजो रेणुः कवचो ब्रह्मसण्टकः ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.388 · p. 100
गुणाः सत्त्वं रजश्चैव तमः सांख्यमतानुगाः ।स्पर्धा द्रोहस्तथा बन्ध्यं निष्फलं मोघमित्यपि ॥ ३८८ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.200 · p. 126
रजः पुष्पं स्त्रियो धर्म आर्तवं मोहनं रतम् ।सुरतं संप्रयोगश्च संवेशनं रहोरती ॥ २०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.237 · p. 17
पांशुर्धूली रजो रेणुः केतुमद्वैजयन्तिका ।अग्रेसरः पुरोयायी वभयं? विजयो जयः ॥ २३७ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.81 · p. 10
तमिस्रमन्धतमसं भूछाया तामसं रजः ।क्षणः पलं घटी यामदिनमासर्तवोऽयनम् ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.136 · p. 15
मकरन्दः पुष्परसः परागं पुष्पजं रजः ।पत्रं पर्णं दलं बर्हं पलाशं छदनं छदः ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.77 · p. 42
पाषाणः प्रस्तरो ग्रावा दृषदश्मोपलः शिला ।रेणुर्धूली रजः पांशुः पङ्कश्चिखिल्लकर्दमौ ॥ ७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्चि (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.855 · p. 127
आर्त्तवं कुसुमं पुष्पं स्त्रीधर्मश्च रजस्तथा ॥ ८५५ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.79 · p. 266
धूलिर्धूली रजो रेणु पांशुः पांशुश्च मन्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1801 · p. 294
कस्तीरं चक्रसंज्ञं च घनं ज्येष्ठं शठं रजः ।एतन्नामानि सर्वाणि मन्यन्ते पण्डितास्त्रपोः ॥ १८०१ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.312 · p. 22
सत्त्वं रजस्तम इति गुण रजतमे अपि ॥
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.5 · p. 37
अस्त्रियामन्धकारः स्यात्तिमिरन्तु तमस्तमम् ।नीलपङ्कं निशाचर्म तमिस्रञ्च रजो रजम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.157 · p. 93
अव्यात्रेयी ऋतुमती पुष्पहासा रजस्वला ।ऋतुः स्यात् कुसुमं पुष्पमार्तवञ्च रजोरजम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.364 · p. 135
उल्कासमय इत्येवं संग्रामादनिवर्तिनः ।पुंसि पांशुर्द्वयोरेणुर्धूलिर्धूली रजो रजम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.133 · p. 199
निष्कल्यपि च स्त्रीधर्मे आर्तवं ऋतुसंयुतम् ।रजः सान्तं रजोऽदन्तो ना गुणेऽप्यथ मैथुने ॥ १३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.23 · p. 219
धूलि-धूल्यौ पांशु-पांसू रजो ना सान्तषण् रजः ।दलौ लोष्टो लेष्टुर्लोष्टुर्नाकौ कुलक-कूलकौ ॥ २३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ले (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.277 · p. 38
प्रणिधानं प्रसंख्यानं ध्यानं सत्त्वं रजस्तमः ।गुणास्तत्त्वं प्रकृत्याद्यमविद्या स्यादहंमतिः ॥ २७७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.286 · p. 39
दुष्कृतमघमेनोंऽहः किल्बिषमलदुरितपापरेपांसि ।दुष्कर्म कलुषरजसी वृजिनं पाप्मा तु पुंसि पङ्कोऽस्त्री ॥ २८६ ॥
गीतिः
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1041 · p. 129
स्यात् स्त्रीधर्मिण्युदक्याविरात्रेयी मलिनी तथा ।रजस्वला पुष्पवती ऋतुमत्यार्तवं रजः ॥ १०४१ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1385 · p. 168
योधानां क्रन्दनं घोषः पटहाडम्बरौ समौ ।पांसुः क्षोदः स्त्रियां धूली रेणुः स्त्रीपुंसयो रजः ॥ १३८५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.32 · p. 43
कस्तीरं शोभनं नागमरिजं हेमजं शठम् ।गुरुपत्रं तमरकं घनं सलवणं रजः ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.162 · p. 96
असदक्षरमव्यक्तं तमः सदसदात्मकम् ।अलिंगं गुणसामान्यं गुणाः सत्त्वं रजस्तमः ॥ १६२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.25 · p. 125
झरुका त्विष्टकाया विडूषस्तु क्षारमृत्तिका ।धूलिः स्त्रियां रजः पांसू रेणुः पुंस्यथ कर्दमे ॥ २५ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.232
रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः ॥ २३२ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास सार्धश्लोकः Dharaṇikośa 31.2.5 · p. 221
तमो ध्वान्तं तमो राहुस्तमः शोकस्तमो गुणः ।रजो गुणं रजो रेणुर्योषितामार्तवं रजः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.2 · p. 381
रजो गुणे रेणुपरागयोश्चस्यादार्तवेऽन्त्येऽथ पुमानदन्तः ।क्षीरे च नीरे च पयो वयस्तुखगे च बाल्यादिषु यौवने च ॥ २ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.50 · p. 37
रजस्तु शरदि स्त्रीणां पुष्पे रेणौ जले स्रजि ।सत्त्वाद्यन्यतमे रात्रौ लोहे तेजसि रेतसि ॥ ५० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.51 · p. 37
अहन्यथ रहः शब्दो मैथुने विजने तु तत् ।अव्ययं वाथ राधः स्यात् प्ररूढे च धनेऽपि च ॥ ५१ ॥
अनुष्टुप्
meaningsअहन्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र जद्विः Śivakoṣa 7.1.107 · p. 10
रजः परागे रेणौ च लाजः स्यादार्द्रतण्डुले ।नपुंसकमुशीरेऽथ स्त्रियां पुं भूम्नि चक्षते ॥ १०७ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र सत्रिः Śivakoṣa 27.2.528 · p. 48
पयः क्षीरे च नीरे च रजो रेणुपरागयोः ।वायसो वृकधूपे च पुंसि स्यादगुरुद्रुमे ॥ ५२८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश जान्ताः Śabdaratnāvalī 7.8.14 · p. 198
रजः परागे रेणौ च गुणभेदे तथार्त्तवे ।रज्जुः स्त्रियां गुणे वैण्यां स्त्रीराजिः पंक्तिलेखयोः ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सान्ताः Śabdaratnāvalī 7.32.29 · p. 295
रहस्तत्त्वे च गुह्ये च सुरते च नपुंसकम् ।रजः क्लीबं गुणभित्सपरागार्त्तवरेणुषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1987 · p. 242
चन्द्रक्षत्रिययोः राजा लताभेदे नृपे प्रभौ ।रजः पांस्वार्ताहःसु रहो याभरहस्ययोः ॥ १९८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्वा (syllables merged)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.412 · p. 238
यागे च मद्यसन्धाने स्नाने चाभिषवः पुमान् ।मृतावसत्त्वे चाभावः स्याद्रजः पुष्पमार्तवम् ॥ ४१२ ॥
अनुष्टुप्
उत्पलिनी Utpalinī · व्याडि Utpalinī 51 · p. 50
पुष्परेणौ गुणे चैव रजोऽपि रजसा सह ॥ ५१ ॥
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 6.3.28 · p. 226
रूपं शब्दे पशौ श्लोके ग्रन्थावृत्तौ मितादिषु ।सौन्दर्ये च स्वभावे च शरद्रेण्वार्तवे रजः ॥ २८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.38 · p. 280
गेहे कुलायो नीडोऽस्त्री रेतस्यपि रजो मदः ।
अनुष्टुप्

रजस् as a meaning in nānārtha verses